-Root PageHindiEnglishSanskrit

यदि हिन्दी या संस्कृत में नहीं देख पा रहें हों तो यहाँ क्लिक करें।वेदा भारतीया-सनातनपरम्पराया मूलम्। 'विद् ज्ञाने' एतस्मात् वेद इति शब्दो ज्ञानार्थकः। वैदिक-ऋषिभिः स्वसधानायान्तपश्चर्याभिरजीवनस्य यत् सत्यं साक्षात्कारीकृतम् अनुभूतञ्च तन्मन्त्ररूपेण वेदे सङ्कलितम्। मन्त्रस्य संहितारूपा वेदा मानवहितप्रापकाः।
    उपनिषदयो वेदस्यान्तिमा भागाः। वेदस्य भोगप्रधानन्दर्शनत आध्यात्मिकि दर्शनचिन्तनयोः प्राधान्यमत्र दृश्यते। मानवप्रकृतयोरमूलेऽत्र गवेषणाया विषयाः। छान्दोग्योपनिषदि याज्ञवल्क्यस्य कथनम् - "नहि वित्तेन तर्पणीयो मनुष्यः" इत्येतेन ब्रह्म-प्राप्तेरजगतः पदार्थानामल्पसारतोद्घोषिता।
    भगवता श्रीकृष्णेन गीतायामुपनिषदान्दर्शनं समीकृतम्। 'सर्वोनिषदो गावो दोग्धा गोपलनन्दनः' इति प्रसिद्धम्। वेदान्तसूत्रेऽप्युपनिषदां वेदानां प्रामुख्य-दर्शनं मूलञ्च- सूत्ररूपेण समीकृतम्। उपनिषदयः, श्रीमद्भगवद्गीता, वेदान्तसूत्रम्- समूहिकतया प्रस्थानत्रयी कथ्यते।

     धर्मसूत्रेषु कर्तव्याकर्तव्य विवेचनाय नियमा वर्तन्ते। धर्मसूत्राणां रचनासु प्रायो वेदेषु प्रतिपादितञ्जीवनतपश्चर्यायोरविषयाः प्रथमतया समाहितास्स्युः, येषां कालक्रमात् राजनीतिम् पर्यन्तं विस्तारमभवत्। स्मृतिरग्रन्था वेदानाञ्ज्ञानप्राप्तवतां ब्रह्मानुभूतिः प्राप्तवतां स्मृतिररूपाप्रतिष्ठिता विद्यन्ते। विवाधासु स्मृतिरग्रन्थेषु मनुस्मृतिरेव प्राचीनतमा।
षडदर्शनानि मीमांसा-साङ्ख्य-योग-न्याय-वैशेषिक-वेदान्त-दर्शनानि। एतेऽपि वेदानां सर्वोपरिता स्वीकुर्वन्ति। एवं स्वमूलविषयानपि वेदतो ग्रह्णीकुर्वन्ति। तथापि षडदर्शनेषु मोक्ष-कैवल्यप्रापकाय धर्मस्य स्वरूप-व्याख्यानाय विशद्विवेचनान्युपलभ्यन्ते। ते भारतीयायाञ्चिन्तन-परम्पराया इतिहासे स्वतन्त्र-स्थानमर्हन्ति।
कौटिलीयम्-अर्थशास्त्रम् राजराजनीतियोः सूक्ष्मतया विवरणं प्रस्तौति। विश्ववैचारिक्याः परम्पराया इतिहासे कौटिल्येनैव प्रथमतया राज्यस्याङ्गानाम् सप्ततया विवरितमर्थात् - 'सप्ताङ्ग-सिद्धान्तम्' प्रतिपादितम् ।
आधुनिके युगे 'योग' इति शब्दस्यापेक्षया विभ्रंशो शब्दं 'योगा' जनेषु प्रचलितं दृश्यते। अमेरिकातो यूरोप-आस्ट्रेलिया-अफ्रीका-पर्यन्तं सर्वत्र योगे जनेषु रूचिरवर्धिता दृश्यते। प्रायज्जनैरासनं प्राणायामैव योगस्य सारं गृह्णीक्रियते। तत् समीचीनन्न। योगस्य मूलग्रन्थेषु जनानां परिचयं स्यात्ते योगं सम्यकतया जानीयुः, योगस्य पूर्णसैद्धान्तिकञ्ज्ञानञ्च प्राप्नुयुरेतस्मादत्र तेषां सकलनङ्कृतं विद्यते।
            इति शुभम्।