Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

वैराग्य-शतकम्

श्री-भर्तृहरेः

चूडोत्तंसित-चन्द्र-चारु-कलिका-चञ्चच्-छिखा-भास्वरो

लीला-दग्ध-विलोल-काम-शलभः श्रेयो-दशाग्रे स्फुरन् |

अन्तः-स्फूर्जद्-अपार-मोह-तिमिर-प्राग्-भारम् उच्चाटयन्

श्वेतः-सद्मनि योगिनां विजयते ज्ञान-प्रदीपो हरः ||1||

भ्रान्तं देशम् अनेक-दुर्ग-विषमं प्राप्तं न किञ्चित् फलं

त्यक्त्वा जाति-कुलाभिमानम् उचितं सेवा कृता निष्फला |

भुक्तं मान-विवर्जितं पर-गृहेष्व् आशङ्कया काकवत्

तृष्णे जृम्भसि पाप-कर्म-पिशुने नाद्यापि सन्तुष्यसि ||2||

उत्खातं निधि-शङ्कया क्षिति-तलं ध्माता गिरेर्धातवो

निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः |

मन्त्राराधन-तत्-परेण मनसा नीताः श्मशाने निशाः

प्राप्तः काण-वराटकोपि न मया तृष्णे सकामा भव ||3||

खलालापाः सौढाः कथम् अपि तद्-आराधन-परै-

र्निगृह्यान्तर्-बाष्पं हसितम् अपि शून्येन मनसा |

कृतो वित्त-स्तम्भ-प्रतिहत-धियाम् अञ्जलिरपि

त्वम् आशे मोघाशे किम अपरम् अतो नर्तयसि माम् ||4||

अमीषां प्राणानां तुलित-विसिनी-पत्र-पयसां

कृते किं नास्माभिर्विगलित-विवेकैर्व्यवसितम् |

यद्-आढ्यानाम् अग्रे द्रविण-मद-निःसंज्ञ-मनसां

कृतं माव-व्रीडैर्निज-गुण-कथा-पातकम् अपि ||5||

क्षान्तं न क्षमया गृहोचित-सुखं त्यक्तं न सन्तोषतः

सोढो दुःसह-शीत-ताप-पवन-क्लेशो न तप्तं तपः |

ध्यातं वित्तम् अहर्-निशं नित्यमित-प्राणैर्न शम्भोः पदं

तत्-तत्-कर्म कृतं यद् एव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ||6||

भोगा न भुक्ता वयम् एव भुक्तास्

तपो न तप्तं वयम् एव तप्ताः |

कालो न यातो वयम् एव याता-

स्तृष्णा न जीर्णा वयम् एव जीर्णाः ||7||

बलिभिर्मुखम् आक्रान्तं पलितेनाङ्कितं शिरः |

गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ||8||

विवेक-व्याकोशे विदधति समे शाम्यति तृषा

परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता |

जराजीर्णैश्वर्य-ग्रसन-गहनाक्षेप-कृपण-

स्तृषापात्रं यस्यां भवति मरुताम् अप्यधिपतिः ||*||

निवृत्ता भोगेच्छा पुरुष-बहु-मानोपि गलितः

समानाः स्वर्-याताः सपदि सुहृदो जीवित-समाः |

शनैर्यष्ट्य् उत्थानं घन-तिमिर-रुद्धे च नयने

अहो मूढः कायस्तद् अपि मरणापाय-चकितः ||9||

आशा नाम नदी मनोरथ-जला तृष्णा-तरङ्गाकुला

राग-ग्राहवती वितर्क-विहगा धैर्य-द्रुम-ध्वंसिनी |

मोहावर्त-सुदुस्तरातिगहना प्रोत्तुङ्ग-चिन्ता-तटी

तस्याः पर-गता विशुद्धम् अलसो नन्दन्ति योगीश्वराः ||10||

न संसारोत्पन्नं चरितम् अनुपश्यामि कुशलं

विपाकः पुण्यानां जनयति भयं मे विमृशतः |

महद्भिः पुण्यौघैश्चिर-परिगृहीताश्च विषया

महान्तो जायन्ते व्यसनम् इव दातुं विषयिणाम् ||11||

अवश्यं यातारश्चिरतरम् उषित्वापि विषया

वियोगे को भेदस्त्यजति न जनो यत् स्वयम् अमून् |

व्रजन्तः स्वातन्त्र्याद् अतुल-परितापाय मनसः

स्वयं त्यक्ता ह्य् एते शम-सुखम् अनन्तं विदधति ||12||

ब्रह्म-ज्ञान-विवेक-निर्मल-धियः कुर्वन्त्य् अहो दुष्करं

यन् मुञ्चन्त्य् उपभोग-भाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः |

सम्प्रातान् न पुरा न सम्प्रति न च प्राप्तौ दृढ-प्रत्ययान्

वाञ्छा-मात्र-परिग्रहान् अपि परं त्यक्तुं न शक्ता वयम् ||13||

धन्यानां गिरि-कन्दरेषु वसतां ज्योतिः परं ध्यायता-

मानन्दाश्रु-जलं पिबन्ति शकुना निःशङ्कम् अङ्केशयाः |

अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-तट-

क्रीडा-कानन-केलि-कौतुक-जुषाम् आयुः परं क्षीयते ||14||

भिक्षा-शतं तद् अपि नीरसम् एक-बारं

शय्या च भूः परिजनो निज-देह-मात्रम् |

वस्त्रं विशीर्ण-शत-खण्ड-मयी च कन्था

हा हा तथापि विषया न परित्यजन्ति ||15||

स्तनौ मांस-ग्रन्थी कनक-कलशाव् इत्य् उपमिती

मुखं श्लेष्मागारं तद् अपि च शशाङ्केन तुलितम् |

स्रवन्-मूत्र-क्लिन्नं करि-वर-शिर-स्पर्धि जघनं

मुहुर्निन्द्यं रूपं कवि-जन-विशेषैर्गुरु-कृतम् ||16||

एको रागिषु राजते प्रियतमा-देहार्ध-हारी हरो

नीरागेषु जनो विमुक्त-ललनासङ्गो न यस्मात् परः |

दुर्वार-स्मर-बाण-पन्नग-विष-व्याबिद्ध-मुग्धो जनः

शेषः काम-विडम्बितान् न विषयान् भोक्तुं न मोक्तुं क्षमः ||17||

अजानन् दाहात्म्यं पततु शलभस्तीव्र-दहने

स मीनोप्यज्ञानाद् बडिश-युतम् अश्नातु पिशितम् |

विजानन्तोप्य् एते वयम् इह वियज् जाल-जटिलान्

न मुञ्चामः कानाम् अहह गहनो मोह-महिमा ||18||

तृषा शुष्यत्य् आस्ये पिबति सलिलं शीत-मधुरं

क्षुधार्तः शाल्यन्नं कवलयति मांसादि-कलितम् |

प्रदीप्ते कामाग्नौ सुदृढतरम् आलिङ्गति वधूं

प्रतीकारं व्याधः सुखम् इति विपर्यस्यति जनः ||19||

तुङ्गं वेश्म सुताः सताम् अभिमताः सङ्ख्यातिगाः सम्पदः

कल्याणी दयिता वयश्च नवम् इत्य् अज्ञान-मूढो जनः |

मत्वा विश्वम् अनश्वरं निविशते संसार-कारा-गृहे

संदृश्य क्षण-भङ्गुरं तद् अखिलं धन्यस्तु सन्न्यस्यति ||20||

दीना दीन-मुखैः सदैव शिशुकैराकृष्ट-जीर्णाम्बरा

क्रोशद्भिः क्षुधितैर्निरन्न-विधुरा दृश्या न चेद् गेहिनी |

याच्ञा-भङ्ग-भयेन गद्गद-गल-त्रुट्यद्-विलीनाक्षरं

को देहीति वदेत् स्व-दग्ध-जठरस्यार्थे मनस्वी पुमान् ||21||

अभिमत-महामान-ग्रन्थि-प्रभेद-पटीयसी

गुरुतर-गुण-ग्रामाभोज-स्फुटोज्ज्वल-चन्द्रिका |

विपुल-विलल्-लज्जा-वल्ली-वितान-कुठारिका

जठर-पिठरी दुस्पुरेयं करोति विडम्बनम् ||22||

पुण्ये ग्रामे वने वा महति सित-पटच्-छन्न-पाली कपालिं

ह्य् आदाय न्याय-गर्भ-द्विज-हुत-हुत-भुग् धूम-धूम्रोपकण्ठे |

द्वारं द्वारं प्रविष्टो वरम् उदर-दरी-पूरणाय क्षुधार्तो

मानी प्राणैः सनाथो न पुनरनुदिनं तुल्य-कुल्येसु दीनः ||23||

गङ्गा-तरङ्ग-कण-शीकर-शीतलानि

विद्याधराध्युषित-चारु-शिला-तलानि |

स्थानानि किं हिमवतः प्रलयं गतानि

यत् सावमान-पर-पिण्ड-रता मनुष्याः ||24||

किं कन्दाः कन्दरेभ्यः प्रलयम् उपगता निर्झरा वा गिरिभ्यः

प्रध्वस्ता वा तरुभ्यः सरस-गल-भृतो वल्कलिन्यश्च शाखाः |

वीक्ष्यन्ते यन् मुखानि प्रसभम् अपगत-प्रश्रयाणां खलानां

दुःखाप्त-स्वल्प-वित्त-स्मय-पवन-वशानर्तित-भ्रू-लतानि ||25||

पुण्यैर्मूल-फलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना

भू-शय्यां नव-पल्लवैरकृपणैरुत्तिष्ठ यावो वनम् |

क्षुद्राणाम् अविवेक-मूढ-मनसां यत्रेश्वराणां सदा

वित्त-व्याधि-विकार-विह्वल-गिरां नामापि न श्रूयते ||26||

फलं स्वेच्छा-लभ्यं प्रतिवनम् अखेदं क्षितिरुहां

पयः स्थाने स्थाने शिशिर-मधुरं पुण्य-सरिताम् |

मृदु-स्पर्शा शय्या सुललित-लता-पल्लव-मयी

सहन्ते सन्तापं तद् अपि धनिनां द्वारि कृपणाः ||27||

ये वर्तन्ते धन-पति-पुरः प्रार्थना-दुःख-भाजो

ये चाल्पत्वं दधति विषयाक्षेप-पर्याप्त-बुद्धेः |

तेषाम् अन्तः-स्फुरित-हसितं वासराणि स्मरेयं

ध्यान-च्छेदे शिखरि-कुहर-ग्राव-शय्या-निषण्णः ||28||

ये सन्तोष-निरन्तर-प्रमुदितस्तेषां न भिन्ना मुदो

ये त्व् अन्ये धन-लुब्ध-सङ्कल-धियस्तेसां न तृष्णाहता |

इत्थं कस्य कृते कुतः स विधिना कीदृक्-पदं सम्पदां

स्वात्मन्य् एव समाप्त-हेम-महिमा मेरुर्न मे रोचते ||29||

भिक्षाहारम् अदैन्यम् अप्रतिसुखं भीतिच्छिदं सर्वतो

दुर्मात्सर्य-मदाभिमान-मथनं दुःखौघ-विध्वंसनम् |

सर्वत्रान्वहम् अप्रयत्न-सुलभं साधु-प्रियं पावनं

शम्भोः सत्रम् अवायम् अक्षय-निधिं शंसन्ति योगीश्वराः ||30||

भोगे रोगमयं कुले च्युति-भयं वित्ते नृपालाद् भयं

माने धैन्य-भयं बले रिपु-भयं रूपे जराय भयम् |

शास्त्रे वादिभयं गुणे खल-भयं काये कृतान्ताद् भयं

सर्वं वस्तु भयान्वितं भुवि न्णां वैराग्यम् एवाभयम् ||31||

आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं

सन्तोषो धन-लिप्सया शम-मुखं प्रौढाङ्गना-विभ्रमैः |

लोकैर्मत्सरिभिर्गुणा वन-भुवो व्यालैर्नृपा दुर्जनैर्

अस्थैर्येण विभूतयोप्यपहता ग्रस्तं न किं केन वा ||32||

आधि-व्याधि-शतैर्जनस्य विविधैरारोग्यम् उन्मूल्यते

लक्ष्मीर्यत्र पतन्ति तत्र विवृत-द्वारा इव व्यापदः |

जातं जातम् अवश्यम् आशु विवशं मृत्युः करोत्य् आत्मसात्

तत् किं तेन निरङ्कुशेन विधिना यन् निर्मितं सुस्थिरम् ||33||

भोगास्तुङ्गतरङ्ग-भङ्ग-तरलाः प्राणाः क्षण-ध्वंसिनः

स्तोकान्य् एव दिनानि यौवन-सुखं स्फूर्तिः प्रियासु स्थिता |

तत्-संसारम् असारम् एव निखिलं बुद्ध्वा बुधा बोधका

लोकानुग्रह-पेशलेन मनसा यत्नः समाधीयताम् ||34||

भोगा मेघ-वितान-मध्य-विलसत्-सौदामिनी-चञ्चला

आयुर्वायु-विघट्टिताब्ज-पटली-लीनाम्बुवद् भङ्गुरम् |

लीला यौवन-लालसास्तनुभृताम् इत्य् आकलय्य द्रुतं

योगे धैर्य-समाधि-सिद्धि-सुलभे बुद्धिं विदध्वं बुधाः ||35||

आयुः कल्लोल-लोलं कतिपय-दिवस-स्थायिनी यौवन-श्रीर्

अर्थाः सङ्कल्प-कल्पा घन-समय-तडिद्-विभ्रमा भोग-पूगाः |

कण्ठाश्लेषोपगूढ तद् अपि च न चिरं यत् प्रियाभः प्रणीतं

ब्रह्मण्य् आसक्त-चित्ता भवत भवमयाम्भोधि-पारं तरीतुम् ||36||

कृच्छ्रेणामेध्य-मध्ये नियमित-तनुभिः स्थीयते गर्भ-वासे

कान्ता-विश्लेष-दुःख-व्यतिकर-विषमो यौवने चोपभोगः |

वामाक्षीणाम् अवज्ञा-विहसित-वसतिर्वृद्ध-भावोन्यसाधुः

संसारे रे मनुष्या वदत यदि सुखं स्वल्पम् अप्यस्ति किञ्चित् ||37||

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती

रोगाश्च शत्रव इव प्रहरन्ति देहम् |

आयुः परिस्रवन्ति भिन्न-घटा-दिवाम्भो

लोकस्तथाप्यहितम् आचरतीति चित्रम् ||38||

भोगा भङ्गुर-वृत्तयो बहुविधास्तैरेव चायं भव-

स्तत् कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः |

आशा-पाश-शतापशान्ति-विशदं चेतः-समाधीयतां

कामोत्पत्ति-वशात् स्वधामनि यदि श्रद्देयम् अस्मद्-वचः ||39||

सखे धन्याः केचित् त्रुटित-भव-बन्ध-व्यतिकरा

वनान्ते चित्तान्तर्-विषम् अविषयाशीत्-विष-गताः |

शरच्-चन्द्र-ज्योत्स्नाधवल-गगनाभोग-सुभगां

नयन्ते ये रात्रिं सुकृत-चय-चिन्तैक-शरणाः ||*||

ब्रह्मेन्द्रादि-मरुद्-गणांस्तृण-कणान् यत्र स्थितो मन्यते

यत्-स्वादाद् विरसा भवन्ति विभवास्त्रैलोक्य-राज्यादयः |

भोगः कोपि स एव एक परमो नित्योदितो जृम्भते

भोः साधो क्षण-भङ्गुरे तद् इतरे भोगे रतिं मा कृथाः ||40||

सा रम्या नगरी महान् स नृपतिः सामन्त-चक्रं च तत्

पार्श्वे तस्य च सा विदग्ध-परिषत् ताश्चन्द्र-बिम्बाननाः |

उद्वृत्तः स राज-पुत्र-निवहस्ते वन्दिनस्ताः कथाः

सर्वं यस्य वशाद् अगात् स्मृति-पथं कालाय तस्मै नमः ||41||

यत्रानेकः क्वचिद् अपि गृहे तत्र तिष्ठत्य् अथैको

यत्राप्य् एकस्तद् अनु बहवस्तत्र नैकोपि चान्ते |

इत्थं नयौ रजनि-दिवसौ लोलयन् द्वाव् इवाक्षौ

कालः कल्यो भुवन-फलके क्रडति प्राणि-शारैः ||42||

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं

व्यापारैर्बहु-कार्य-भार-गुरुभिः कालोपि न ज्ञायते |

दृष्ट्वा जन्म-जरा-विपत्ति-मरणं त्रासश्च नोत्पद्यते

पीत्वा मोहमयीं प्रमाद-मदिराम् उन्मत्त-भूतं जगत् ||43||

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो

धावन्त्य् उद्यमिनस्तथैव निभृत-प्रारब्ध-तत्-तत्-क्रियाः |

व्यापारैः पुनर्-उक्त-भूत-विषयैरित्थं विधेनामुना

संसारेण कदर्थिता वयम् अहो मोहान् न लज्जामहे ||44||

न ध्यानं पदम् ईश्वरस्य विधिवत् संसार-विच्छित्तये

स्वर्ग-द्वार-कपाट-पाटन-पटुर्धर्मोपि नोपार्जितः |

नारी-पीन-पयोधरोरु-युगलं स्वप्नेपि नालिङ्गितं

मातुः केवलम् एव यौवन-वन-च्छेदे कुठारा वयम् ||45||

नाभ्यस्ता प्रतिवादि-वृन्द-दमनी विद्या विनीतोचिता

खड्गाग्रैः करि-कुम्भ-पीठ-दलनैर्नाकं न नीतं यशः |

कान्ताकोमल-पल्लवाधर-रसः पीतो न चन्द्रोदये

तारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवत् ||46||

विद्या नाधिगता कलङ्क-रहिता वित्तं च नोपार्जितं

शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता |

आलोलायत-लोचनाः प्रियतमाः स्वप्नेपि नालिङ्गिताः

कालोयं पर-पिण्ड-लोलुपतया काकैरिव प्रेर्यते ||47||

वयं येभ्यो जाताश्चिर-परिगता एव खलु ते

समं यैः संवृद्धाः स्मृति-विषयतां तेपि गमिताः |

इदानीम् एते स्मः प्रतिदिवसम् आसन्न-पतना

गतास्तुल्यावस्थां सिकतिलनदी-तीर-तरुभिः ||48||

आयुर्वर्ष-शतं न्णां परिमितं रात्रौ तद्-अर्धं गतं

तस्यार्धस्य परस्य चार्धम् अपरं बालत्व-वृद्धत्वयोः |

शेषं व्याधि-वियोग-दुःख-सहितं सेवादिभिर्नीयते

जीवे वारित-रङ्ग-चञ्चलतरे सौख्यं कुतः प्राणिनाम् ||49||

क्षणं बालो भूत्वा क्षणम् पै युवा काम-रसिकः

क्षणं वित्तैर्हीनः क्षणम् अपि च सम्पूर्ण-विभवः |

जरा-जीर्णैरङ्गैर्नट इव बली-मण्डित-तनूर्

नरः संसारान्ते विशति यमधानीय-वनिकाम् ||50||

त्वं राजा वयम् अप्य् उपासित-गुरु-प्रज्ञाभिमानोन्नताः

ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः |

इत्थं मान-धनाति-दूरम् उभयोरप्यावयोरन्तरं

यद्य् अस्मासु पराङ्मुखोसि वयम् अप्य् एकान्ततो निःस्पृहा ||51||

अर्थानाम् ईशिषे त्वं वयम् अपि च गिराम् ईश्महे यावद् अर्थं

शूरस्त्वं वादि-दर्प-व्युपशमन-विधाव-क्षयं पाटवं नः |

सेवन्ते त्वां धनाढ्या मतिमलहतयेमाम् अपि श्रोतु-कामा-

मय्य् अप्यास्था न ते चेत् त्वयि मम नितराम् एव राजन्न् अनास्था ||52||

वयम् इह परितुष्टा वल्कलैस्त्वं दुकूलैः

सम इह परितोषो निर्विशेषो विशेषः |

स तु भवतु दरिद्रो यस्य तृष्णा विशाला

मनसि च परितुष्टे कोर्थवान् को दरिद्रः ||53||

फलम् अलम् अशनाय स्वादु पानाय तोयं

क्षितिरपि शयनार्थं वाससे वल्कलं च |

नव-घन-मधुपान-भ्रान्त-सर्वेन्द्रियाणा-

मविनयम् अनुमन्तुं नोत्सहे दुर्जनानाम् ||54||

अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि |

शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः ||55||

न नटा ना विटा न गायका न च सभ्येतर-वाद-चुञ्चवः |

नृपम् ईक्षितुम् अत्र के वयं स्तन-भारान् अमिता न योषितः ||56||

विपुल-हृदयैरीशैरेतज् जगज् जनितं पुरा

विधृतम् अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा |

इह हि भुवनान्य् अन्यैर्धीराश्चतुर्दश भुञ्जते

कतिपय-पुर-स्वाम्ये पुंसां क एष मद-ज्वरः ||57||

अभुक्तायां यस्यां क्षणम् अपि न यातं नृप-शतैर्

धुवस्तस्या लाभे क इव बहुमानः क्षिति-भृताम् |

तद्-अंशस्याप्य् अंशे तद्-अवय-लेशेपि पतयो

विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ||58||

मृत्-पिण्डो जल-रेखया बल-यतिः सर्वोप्ययं नन्वणुः

स्वांशीकृत्य स एव सङ्गर-शतै राज्ञां गणा भुञ्जते |

ये दद्युर्ददतोथवा किम् अपरं क्षुद्रा दरिद्रं भृशं

धिग् धिक् तान् पुरुषाधमान् धनकणान् वाञ्छन्ति तेभ्योपि ये ||59||

स जातः कोप्यासीन्मदन-रिपुणा मूर्ध्नि धवलं

कपालं यस्योच्चैर्विनिहितम् अलङ्कार-विधये |

नृभिः प्राण-त्राण-प्रवण-मतिभिः कैश्चिद् अधुना

नमद्भिः कः पुंसाम् अयम् अतुल-दर्प-ज्वर-भरः ||60||

परेषां चेतांसि प्रतिदिवसम् आराध्य बहुधा

प्रसादं किं नेतुं विशसि हृदय क्लेश-कलितम् |

प्रसन्ने त्वय्य् अन्तः-सवयमुदित-चिन्तामणि-गणो

विविक्तः सङ्कल्पः किम् अभिलषितं पुष्यति न ते ||61||

सत्याम् एव त्रिलोकी-सरिति हर-शिरश्चुम्बिनीवच् छटायां

सद्-वृत्तिं कल्पयन्त्यां बट-विटप-भवैर्वल्कलैः सत्-फलैश्च |

कोयं विद्वान् विपत्ति-ज्वर-जनित-रुजातीव-दुःखासिकानां

वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात् स्वे कुटुम्बेनुकम्पाम् ||*||

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां

स्वयं भवति यद् यथा भवति तत् तथा नान्यथा |

अतीतम् अननुस्मरन्न् अपि च भाव्य-सङ्कल्पय-

न्नतर्कित-समागमानुभवामि भोगनाहम् ||62||

एतस्माद् विरमेन्द्रियार्थ-गहनादायासकाद् आश्रय-

श्रेयो-मार्गम् अशेष-दुःख-शमन-व्यापार-दक्षं क्षणात् |

स्वात्मीभावम् उपैहि सन्त्यज निजां कल्लोल-लोलं गतिं

मा भूयो भज भङ्गुरां भव-रतिं चेतः प्रसीदाधुना ||63||

मोहं मार्जय ताम् उपार्जय रतिं चन्द्रार्ध-चूडामणौ

चेतः स्वर्ग-तरङ्गिणी-तट-भुवाम् आसङ्गम् अङ्गीकुरु |

को वा वीचिषु बुद्बुदेषु च तडिल्-लेखासु च श्रीषु च

ज्वालाग्रेषु च पन्नगेषु सरिद्-वेगेषु च च-प्रत्ययः ||64||

चेतश्चिन्तय मा रमां सकृद् इमाम् अस्थायिनीम् आस्थया

भूपाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्याङ्गनाम् |

कन्था-कञ्चुकिनः प्रविश्य भवन-द्वाराणि वाराणसी-

रथ्या-पङ्क्तिषु पाणि-पात्र-पतितां भिक्षाम् अपेक्षामहे ||65||

अग्रे गीतं सरस-कवयः पार्श्वयोर्दाक्षिणात्याः

पश्चाल् लीलावलय-रणितं चामर-ग्राहिणीनाम् |

यद्य् अस्त्य् एवं कुरु भव-रसास्वादने लम्पटत्वं

नो चेच् चेतः प्रविश सहसा निर्विकल्पे समाधौ ||66||

प्राप्ताः श्रियः सकल-काम-दुधास्ततः किं

न्यस्तं पदं शिरसि विद्विषतां ततः किम् |

सम्पादिताः प्रणयिनो विभवैस्ततः किं

कल्पं स्थितास्तनुभृतां तनवस्ततः किम् ||67||

भक्तिर्भवे मरण-जन्म-भयं हृदि-स्थं

स्नेहो न बन्धुषु न मन्मथजा विकाराः |

संसर्ज दोष-रहिता विजया वनान्ता

वैराग्यम् अस्ति किम् इतः परमर्थनीयम् ||68||

तस्माद् अनन्तम् अजरं परमं विकासि

तद् ब्रह्म चिन्तय किम् एभिरसद्-विकल्पैः |

यस्यानुषङ्गिण इमे भुवनाधिपत्य-

भोगादयः कृपण-लोक-मता भवन्ति ||69||

पातालम् आविशसि यासि नभो विलङ्घ्य

दिङ्-मण्डलं भ्रमसि मानस चापलेन 

भ्रान्त्यापि जातु विमलं कथम् आत्मनीनं

न ब्रह्म संसरसि विर्वृतिम्म् एषि येन ||70||

किं वेदैः स्मृतिभिः पुराण-पठनैः शास्त्रैर्महा-विस्तरैः

स्वर्ग-ग्राम-कुटी-निवास-फलदैः कर्म-क्रिया-विभ्रमैः |

मुक्त्वैकं भव-दुःख-भार-रचना-विध्वंस-कालानलं

स्वात्मानन्द-पद-प्रवेश-कलनं शेसैर्वाणिग्-वृत्तिभिः ||71||

नायं ते समयो रहस्यम् अधुना निद्राति नाथो यदि

स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः |

चेतस्तान् अपहाय याहि भवनं देवस्य विश्वेशितुर्

निर्दौवारिक-निर्दयोक्त्य्-अपरुषं निःसोम-शर्म-प्रदम् ||* ||

यतो मेरुः श्रीमान् निपतति युगान्ताग्नि-वलितः

समुद्राः शुष्यन्ति प्रचुर-मकर-ग्राह-निलयाः |

धरा गच्छत्य् अन्तं धरणि-धर-पादैरपि धृता

शरीरे का वार्ता करिकलभ-कर्णाग्र-चपले ||72||

गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिर्

दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते |

वाक्यं नाद्रियते च बान्धव-जनो भार्या न शुश्रूषते

हा कष्टं पुरुषस्य जीर्ण-वयसः पुत्रोप्यमित्रायते ||73||

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां

स्थानं जरा-परिभवस्य तदा पुमांसम् |

आरोपितांस्थि-शतकं परिहृत्य यान्ति

चण्डाल-कूपम् इव दूरतरं तरुण्यः ||74||

यावत् स्वस्थम् इदं शरीरम् अरुजं यावच् च दूरे जरा

यावच् चेन्द्रिय-शक्तिरप्रतिहता यावत् क्षयो नायुषः |

आत्म-श्रेयसि तावद् एव विदुषा कार्यः प्रयत्नो महान्

सन्दीप्ते भवने तु कूप-खननं प्रत्युद्यमः कीदृशः ||75||

तपस्यन्तः सन्तः किम् अधिनिवसामः सुर-नदीं

गुणोदारान् दारान् उत परिचरामः सविनयम् |

पिबामः शास्त्रौघानुत-विविध-काव्यामृत-रसान्

न विद्मः किं कुर्मः कतिपय-निमेषायुषि जने ||76||

दुराराध्याश्चामी तुरग-चल-चित्ताः क्षितिभुजो

वयं तु स्थूलेच्छाः सुमहति फले बद्ध-मनसः |

जरा देहं मृत्युर्हरति दयितं जीवितम् इदं

सखे नान्यच् छ्रेयो जगति विदुषेन्यत्र तपसः ||77||

माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेर्थिनि

क्षीणे बन्धु-जने गते परिजने नष्टे शनैर्यौवने |

युक्तं केवलम् एतद् एव सुधियां यज् जह्नु-कन्या-पयः-

पूताग्राव-गिरीन्द्र-कन्दर-तटी-कुञ्जे निवासः क्वचित् ||78||

रम्याश्चन्द्र-मरीचयस्तृणवती रम्या वनान्त-स्थली

रम्यं साधु-समागमागत-सुखं काव्येषु रम्याः कथाः |

कोपोपाहित-बाष्प-बिन्दु-तरलं रम्यं प्रियाया मुखं

सर्वं रम्यम् अनित्यताम् उपगते चित्ते न किञ्चित् पुनः ||79||

रम्यं हर्म्य-तलं न किं वसतये श्रव्यं न गेयादिकं

किं वा प्राण-समासमागम-सुखं नैवाधिक-प्रीतये |

किन्तु भ्रान्त-पतङ्ग-क्षपवनव्यालोल-दीपाङ्कुर-

च्छाया-चञ्चलम् आकलय्य सकलं सन्तो वनान्तं गताः ||80||

आ संसारात् त्रिभुवनम् इदं चिन्वतां तात् तादृङ्-

नैवास्माकं नयन-पदवीं श्रोत्र-मार्गं गतो वा |

योयं धत्ते विषय-करिणो गाढ-गूढाभिमान-

क्षीवस्यान्तः-करण-करिणः संयमालान-लीलाम् ||81||

यद् एतत् स्वच्छन्दं विहरणम् अकार्पण्यम् अशनं

सहार्यैः संवासः श्रुतम् उपशमैक-व्रत-फलम् |

मनो मन्द-स्पन्दं बहिरपि चिरस्यापि विमृश-

न्न जाने कस्यैषा परिणतिरुदारस्य तपसः ||82||

जीर्णा एव मनोरथाश्च हृदये यातं च तद् यौवनं

हन्ताङ्गेषु गुणाश्बन्ध्य-फलतां याता गुणज्ञैर्विना |

किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तोक्षमी

हा ज्ञातं मदनान्तकाङ्घ्रि-युगलं मुक्त्वास्ति नान्यो गतिः ||83||

महेश्वरे वा जगताम् अधीश्वरे

जनार्दने वा जगद्-अन्तरात्मनि |

न वस्तु-भेद-प्रतिपत्तिरस्ति मे

तथापि भक्तिस्तरुणेन्दु-शेखरे ||84||

स्फुरत्-स्फार-ज्योत्स्नाधवलित-तले क्वापि पुलिने

सुखासीनाः शान्त-ध्वन्तिसु रजनीषु द्यु-सरितः |

भवाभोगोद्विग्नाः शिव शिव शिवेत्य् उच्चवचसः

कदा यास्यामोतर्गत-बहुल-बाष्पाकुल-दशाम् ||85||

महादेवो देवः सरिद् अपि च सैषा सुर-सरिद्-

गुहा एवागारं वसनम् अपि ता एव हरितः |

सुहृदा कालोयं व्रत्म् इदम् अदैन्य-व्रतम् इदं

कियद् वा वक्ष्यामो वट-विटप एवास्तु दयिता ||*||

वितीर्णे सर्वस्वे तरुण-करुणा-पूर्ण-हृदयाः

स्मरन्तः संसारे विगुण-परिणामां विधि-गतिम् |

वयं पुण्यारण्ये परिणत-शरच्-चन्द्र्किरणास्

त्रियामा नेस्यामो हर-चरण-चिन्तैक-शरणाः ||86||

कदा वाराणस्याम् अमर-तटिनी-रोधसि वसन्

वसानः कौपीनं शिरसि निदधानोञ्जलि-पुटम् |

अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन

प्रसीदेत्याक्रोशन् निमिषम् इव नेष्यामि दिवसान् ||87||

उद्यानेषु विचित्र-भोजन-विधिस्तीव्रातितीव्रं तपः

कौपीनावरणं सुवस्त्रम् अमितं भिक्षाटनं मण्डनम् |

आसन्नं मरणं च मङ्गल-समं यस्यां समुत्पद्यते

तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ||*||

स्नात्वा गाङ्गैः पयोभिः शुचि-कुसुम-फलैरर्चयित्वा विभो त्वा

ध्येये ध्यानं निवेश्य क्षिति-धर-कुहर-ग्राव-पर्यङ्क-मूले |

आत्मारामः फलाशी गुरु-वचन-रतस्त्वत्-प्रसादात् स्मरारे

दुःखं मोक्ष्ये कदाहं सम-कर-चरणे पुंसि सेवासमुत्थम् ||88||

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः |

कदा शम्भो भविष्यामि कर्म-निर्मूलन-क्षमः ||89||

पाणिं पात्रयतां निसर्ग-शुचिना भैक्षेण सन्तुष्यतां

यत्र क्वापि निषीदतां बहु-तृणं विश्वं मुहुः पश्यताम् |

अत्यागेपि तनोरखण्ड-परमानन्दावबोध-स्पृशा

मध्वा कोपि शिव-प्रसाद-सुलभः सम्पत्स्यते योगिनाम् ||90||

कौपीनं शत-खण्ड-जर्जरतरं कन्था पुनस्तादृशी

नैश्चिन्त्यं निरपेक्ष-भैक्ष्यम् अशनं निद्रा श्मशाने वने |

स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा

स्थैर्यं योग-महोत्सवेपि च यदि त्रैलोक्य-राज्येन किम् ||91||

ब्रह्माण्डं मण्डली-मात्रं किं लोभाय मनस्विनः |

शफरी-स्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ||92||

मातर्लक्ष्मि भजस्व कञ्चिद् अपरं मत्-काङ्क्षिणी मा स्म भूर्

भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणाम् असि |

सद्यः स्यूत-पलाश-पत्र-पुटिका-पात्रैः पवित्री-कृतैर्

भिक्षा-वस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे ||93||

महा-शय्या पृथ्वी विपुलम् उपधानं भुज-लतां

वितानं चाकाशं व्यजनम् अनुकूलोयम् अनिलः |

शरच्-चन्द्रो दीपो विरति-वनिता-सङ्ग-मुदितः

सुखी शान्तः शेते मुनिरतनु-भूतिर्नृप इव ||94||

भिक्षासी जन-मध्य-सङ्ग-रहितः स्वायत्त-चेष्टः सदा

हाना-दान-विरक्त-मार्ग-निरतः कश्चित् तपस्वी स्थितः |

रथ्याकीर्ण-विशीर्ण-जीर्ण-वसनः सम्प्राप्त-कन्थासनो

निर्मानो निरहङ्कृतिः शम-सुखाभोगैक-बद्ध-स्पृहः ||95||

चण्डालः किम् अयं द्विजातिरथवा शूद्रोथ किं तापसः

किं वा तत्त्व-विवेक-पेशल-मतिर्योगीश्वरः कोपि किम् |

इत्य् उत्पन्न-विकल्प-जल्प-मुखरैराभाष्यमाणा जनैर्

न क्रुद्धाः पथि नैव तुष्ट-मनसो यान्ति स्वयं योगिनः ||96||

हिंसा-शून्यम् अयत्न-लभ्यम् अशनं धात्रा मरुत्-कल्पितं

व्यालानं पशवस्तृणाङ्कुर-भुजस्तुष्टाः स्थली-शायिनः |

संसारार्णव-लङ्घन-क्षम-धियां वृत्तिः कृता सा नृणां

ताम् अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः ||97||

गङ्गा-तीरे हिम-गिरि-शिला-बद्ध-पद्मासनस्य

ब्रह्म-ध्यानाभ्यसन-विधिना योग-निद्रां गतस्य |

किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः

कण्डूयन्ते जरठ-हरिणाः स्वाङ्गम् अङ्गे मदीये ||98||

जीर्णाः कन्था ततः किं सितम् अमल-पटं पट्ट-सूत्रं ततः किं

एका भार्या ततः किं हय-करि-सुगणैरावृतो वा ततः किम् |

भक्तं भुक्तं ततः किं कदशनम् अथवा वासरान्ते ततः किं

व्यक्त-ज्योतिर्न वान्तर्मथित-भव-भयं वैभवं वा ततः किम् ||*||

पाणिः पात्रं पवित्रं भ्रमण-परिगतं भैक्ष्यम् अक्षय्यम् अन्नं

विस्तीर्णं वस्त्रम् आशा-दशकम् अचपलं तल्पम् अस्वल्पम् उर्वीम् |

येषां निःसङ्गताङ्गी-करण-परिणत-स्वान्त-सन्तोषिणस्ते

धन्याः संन्यस्त-दैन्य-व्यतिकर-निकराः कर्म निर्मूलयन्ति ||99||

त्रैलोक्याधिपतित्वम् एव विरसं यस्मिन्महाशासने

तल् लब्ध्वासन-वस्त्र-मान-घटने भोगे रतिं मा कृथाः |

भोगः कोपि स एक एव परमो नित्योदिता जृम्भने

यत्-स्वादाद् विरसा भवन्ति विसयास्त्रैलोक्य-राज्यादयः ||*||

मातर्मेदिनि तात मारुति सखे तेजः सुबन्धो जल

भ्रातर्व्योम निबद्ध एष भवताम् अन्त्यः प्रणामाञ्जलिः |

युष्मत्-सङ्ग-वशोपजात-सुकृत-स्फार-स्फुरन्-निर्मल-

ज्ञानापास्त-समस्त-मोह-महिमा लीने पर-ब्रह्मणि ||100||

शय्या शैल-शिला-गृहं गिरि-गुहा वस्त्रं तरुणां त्वचः

सारङ्गाः सुहृदो ननु क्षिति-रुहां वृत्तिः फलैः कोमलैः |

येसां निर्झरम् अम्बु-पानम् उचितं रत्यै तु विद्याङ्गना

मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ||*||

धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी

सत्यं मित्रम् इदं दया च भगिनी भ्राता मनः-संयमः |

शय्या भूमि-तलं दिशोपि वसनं ज्ञानामृतं भोजनं

ह्य् एते यस्य कुटुम्बिनो वद सखे कस्माद् भयं योगिनः ||*||

अहो वा हारे वा बलवति रिपौ वा सुहृदि वा

मणौ वा लोष्ठे वा कुसुम-शयने वा दृषदि वा |

तृणे वा स्त्रैणे वा मम सम-दृशो यान्ति दिवसाः

क्वचित् पुण्यारण्ये शिव शिव शिवेति प्रलपतः ||*||