सत्कर्मसंग्रहः

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

 

विषयसूचिः। अथोर्ध्वचक्री।अथ मध्यचक्री।अथ त्राटकम्।अथ धौतीअथ नेतिअथ गजकरणी।अथ नौलीअथ बस्ति।

श्रीचिद्घनानन्दनाथकृतः सत्कर्मसंग्रहः

य आदिनाथो भगवान्निजभक्तानुकम्पया।

महाकालजयं शास्त्रं कृतवान् तं नमाम्यहम्।।1।।

भगवद्गगनानन्दनाथपादाम्बुजद्वयम्।

यत्प्रसादात्कतार्थोऽस्मि तं मूर्ध्ना प्रममाम्यहम्।।2।।

गोरक्षादिमहासिद्धैर्नाथैर्मुनिवरैरपि।

स्वस्वग्रन्थेषुयत्प्रोक्तं तं लब्ध्वा गुरुतोऽखिलम्।।3।।

मोक्षशास्त्रचतुष्कस्य गुरुतो लब्धवैभवः।

चिद्गनानन्दनाथोऽहं कुर्वे सत्कर्मसंग्रहम्।।4।।

वायूनां रोधनेनापि करणानां विनिग्रहे।

खेचरीसाधने नृणां वज्रोलीसिद्धिसाधने।।5।।

पथ्यापथ्यप्रमादैर्वा देशकालप्रमादतः।

दैवविघ्नेन वा लोके जायन्ते व्याधयो मुनेः।।

तासां निवारणं कार्यमासनैर्दिव्यभेषजैः।

तत्राप्यसिद्धो योगींद्रो चालयेद्दिव्यकर्मिभिः।।7।।

पूर्वमस्माभिरुक्तानि पीठानि विविधान्यपि।

शारीरज्ञानसंपन्नः कुशलो वायुसाधने।।8।।

सद्गुरुणां प्रसादेन प्राप्तविद्यो महामतिः।

कुम्भानामासनानां च करणानां च साधने।।9।।

निवत्तये व्यापदां वा दिव्यकर्माणि साधयेत्।

शीघ्रं नाडीविशुद्धिः स्याद् व्यापदामप्यनुद्भवः।।10।।

जातो नो व्यापदां नाशः प्रसादशुचितेष्वपि।

स्वतंत्रत्वात्पाटवं च करणेष्वपि कर्मभिः।।11।।

जायन्ते तेन कर्माणि कर्तव्यानि विचक्षणैः।

चलमारुतकार्पासतन्तुचालनतः शिवः।।12।।

चतुर्धा प्रावदत्पूर्वं वायुसाधनकर्मणि।

व्यापदां वारणे पञ्चविधानि सहभेषजैः।।13।।

विषयसूचिः।

अथ वक्ष्यामि कर्माणि योगिनां योगसिद्धये।

यान्याह धूर्जटिः साक्षाल्लोकानुग्रहेतवे।।14।।

ऊर्ध्वचक्री मध्यचक्री तथाधश्चक्रिका परा।

त्राटकं च कशाकर्म नेत्रीकरणमुत्तमम्।।15।।

कसनं ष्ठीवनं चापि घ्राणवक्त्रविभेदतः।

स्थिरभ्रान्तिविभेदेन बाह्यभस्त्रा द्विधोदिता।।16।।

अन्तर्भस्त्रा घ्राणदन्ती धौती नेती द्विधा स्थिता।

त्रोटनं त्रिविं प्रोक्तमूर्ध्वत्रोटनकं तथा।।17।।

चक्रत्रोटनकं कर्म सर्वाङ्गत्रोटनं पुनः।

उद्गाराख्यं महत्कर्म शिरासंचालनं तथा।।18।।

वाराहं मर्दनं चैव शालाक्यं शंकरोदितम्।

तथोर्ध्वसिद्धिकारिणी कर्माधःसिद्धिकारिणी।।19।।

वमनं च विरेकश्च रक्तस्रावः शिवोदितः।

करणाप्यायनाश्च्योतं जलधाराः शिवोदिताः।।20।।
वेतण्डकरणी नौली गण्डूषः स्नेहनं परम्।

स्वेदनं धूमनस्ये च तथा च कवलग्रहः।।21।।

बस्तयः स्युर्बहुविधास्ते ज्ञेया गुरुवाक्यतः।

नेत्रकर्णशिरोलिङ्गबस्तयः पायुजाः पराः।।22।।

वायुबस्तिस्तोयबस्तिः स्नेहबस्तिस्तथाऽपरः।

निरूहणाः स्थापनाद्या द्रव्यभेदैस्तु बस्तयः।।23।।

धृतिसंख्याः शम्भुनोक्ताः सर्वामयविनाशनाः।

वज्रोल्यङ्गानि कर्माणि सप्त प्राह सदाशिवः।।24।।

तत्कर्म द्विविधं तत्र ध्वजमूलप्रभेदतः।

अपकर्मापि च तथा द्विविधं योगिनां स्मृतम्।।25।।

औष्ट्रं नलप्रवेशश्च फूत्कृतिस्तदनन्तरम्।

वज्रोल्यङ्गानि कर्माणि वज्रोल्यामेव वक्ष्यते।।26।।

खेचर्यङ्गानि कर्माणि यान्याह स्वयमीश्वरः।

सम्यक्तानि प्रवक्ष्यामि योगिनां हितकाम्यया।।27।।

उत्पाटनं छेदनं च गर्भधारमेव च।

दोहनभ्रामणाकर्षकूर्चिकाचालनानि च।।28।।
घर्णणं मथनं चेति ज्ञातव्यानीह सद्गुरोः।

सध्यानमंत्रयुक्तानि यथाहान्धकसूदनः।।29।।

नान्यथा तानि सिध्यन्ति क्लेशदान भवन्त्यपि।

खेचर्यङ्गानि कर्माणि खेचर्यामेव वक्ष्यते।।30।।
नाडीशुद्ध्याख्य कुम्भस्तु कुम्भकेष्वेव वक्ष्यते।

अथैषां लक्षणम्।

अथैषां लक्षणं वक्ष्ये यथाचार्यैः पुरोदितम्।।31।।

संप्रदायानुसारेण गुरुभिः शिक्षितो यथा।

अथोर्ध्वचक्री।

जलार्द्र निजमङ्गुष्ठं तालुमध्ये प्रवेशयेत्।।32।।

भ्रामयित्वा ततः पश्चात्तत्रस्थं मलमाहरेत्।

पुनः पुनः क्षालयेच्चेदूर्ध्वचक्री प्रकीर्तिता।।33।।
इन्द्रगोपनिभं त्र्यस्रं तालुस्थं रं शुचिं स्मरेत्।

नेत्रकर्णाद्यूर्ध्वरोगनाशनं मलशोधनम्।।34।।

अथवाङ्गुलिना कुर्यादेतत्कर्म मुनीश्वरः।

अथ मध्यचक्री।

जिह्वामूलेऽधिजिह्वायामुपजिह्वाग्रस्तथा।।35।।

कण्ठे चार्द्राङ्गुलिं क्षिप्त्वा भ्रामयेच्चापि पूर्ववत्।

मलनिर्हरणं कुर्वन् प्राग्वदीरसखं स्मरन्।।36।।

मध्यचक्री समाख्याता कफकण्टकनाशिनी।

अथाधश्चक्री।

तर्जनीं पायुगां कृत्वा शोधनं पूर्वच्चरेत्।।37।।

अधश्चक्री समाख्याता यावद्गुदविकाशनम्।

यमीरं ससखं ध्यात्वा शोधयेच्च यथाविधि।।38।।

महोदरो गुल्मरोगो मूलजा व्याधयश्च ये।

मलास्तथैव नश्यन्ति बस्तिकर्मणि योग्यता।।39।।

भवतीत्याह भगवान् धूर्जटिर्योगशासने।

अथ त्राटकम्।

सूक्ष्मेलक्ष्ये दृशौ स्थाप्य निर्निमेषश्चरं भवेत्।।40।।

अश्रुसंपातपर्यन्तं कर्म त्राटकमीरितम्।

वंग्लाविकणस्थेऽस्मिन्नन्तर्ज्योतिः प्रकाश्यते।।41।।

नेत्ररोगास्तथा तन्द्रा नश्यन्तीत्याह धूर्जटिः।

अथ कशा।

रज्वीं श्लक्ष्णां कशां कुर्याद्धस्तमात्रां सुसूत्रकैः।।42।।

प्रवेशयेत्कण्ठमध्ये नासाद्वारेण तां कशाम्।

घर्षयेच्च शनैरेतत्कशाकर्म शिवोदितम्।।43।।

अनेन कर्मणा वायुः कफदोषं हरिष्यति।

अथ नेत्रीकरणम्।

स्वच्छं श्लक्ष्णं दृढं स्निग्धं श्वेतसूत्रविनिर्मितम्।।44।।

इडया संप्रवेश्यैव ततः पिङ्गलया हरेत्।

नेत्रीकरणेतद्धि न देयं चापरीक्षिते।।45।।

तृतीयोपान्त्यमादाय द्वितीयस्यान्त्यसंयुतम्।

पञ्चमोपान्त्यसंयुक्तं स्तोभाः पञ्चमषष्ठकम्।।46।।

वासुकिर्भगवानत्र कार्यमेतत्करिष्यति।

अथ कसनम्।

प्रसिद्धं कसनं लोके कफनिर्हरणं परम्।।47।।

बलात्कृतं कार्यकारि रोगजं दुःखदं मतम्।

उदानोऽत्र प्रधानोऽस्ति ज्ञातव्यो गुरुतः सदा।।48।।

अथ ष्ठीवनम्।

कण्ठाद्वा तालुतो वापि समाकृष्य च तत्कफम्।

निष्ठीवेद्वक्त्रमार्गेण ष्ठीवनं स्यादुदानतः।।49।।

नाभ्यां  ष्ठीवेत्कफं यत्र तद्धि प्राणबलेन तु।

अथ भस्त्रा

लोहकारस्य भस्त्रेव रेचपूरौ तु वेगतः।।50।।

पुनः पुनः प्रकुर्वीत स्थिरमूर्ध्ना प्रयत्नतः।

स्थिरभस्त्रेति च ख्याता योगिनां सिद्धिदायका।।51।।

स्तनयो रेचपूरौ तु चलमूर्ध्ना करोति चेत्।

भ्रान्तिभस्त्रेति विख्याता ह्यस्मिन्शास्त्रे शिवोदिता।।52।।

घोणाग्रं रुंधयित्वा तु यदंता रेचपूरकौ।

अन्तर्भस्त्रेति या ख्याता शिवेनाखिलवेदिना।।53।।

प्राणप्रधाने भस्त्रायां कफमेदमलादिकम्।

सर्वं नाशयति क्षिप्रं तमः सूर्योदये यथा।।54।।

नासादन्ति

पीत्वा नासिकया जलेन जठरं सूर्येण चार्द्धं पिबेत्।

चन्द्रेणापि च पूरयेच्च सकलं चापामुत्स्थापयन्।

वारं वामथो मुखेन सलिलं निष्कासयेल्लीलया नासादन्ति निगद्यते मुनिवरै रोगौषदीप्तानलम्।।55।।

अथ धौती

मृदुलं धवलं शुद्धं चतुरङ्गुलविस्तृतम्।

तिथिहमतमितायामं धौतीवस्त्रस्य लक्षणम्।।56।।

तोयसिक्तं ग्रसेद्वस्त्रं घ्राणाभ्यां वायुमुत्सृजन्।

शनैः शनैस्तु सकलं पुनः प्रत्याहरेच्छनैः।।

धौतीकर्मेदमख्यातं यत्र गङ्गाधिदैवतम्।।57।।

कासश्वासप्लीहकुष्ठादिनाशम् वन्हेर्माद्यं विंशतिः श्लेष्मरोगान्।

दूरीकुर्यात् कर्णबाधिर्यमुच्चैर्धौतीकर्म प्रोदितं शङ्करेण।।58।।

त्रयोदशं पञ्चमस्य तस्योपान्त्येन संयुतम्।।59।।

तृतीयाष्टममादाय द्वितीयस्य तृतीयकम्।

त्रयोदशे पञ्चमस्य द्वितीयस्य द्वितीयकम्।।60।।

चतुर्थस्य त़ृतीयं च प्रथमाद्यं त्रिधाकृतम्।

द्वितीयात्पढ्चषष्ठाद्यं द्वयोर्मध्ये द्वयेष्वपि।।61।।

पञ्चमस्य तृतीयं तु द्विधाभूतं प्रवेशयेत्।

कालश्च पृथवी चैव दृश्येते प्रथमेन तु।।62।।

पुनः कालश्च पृथिवी दृश्येते प्रथमेन तु।

चतुर्थस्य तृतीयं तु पञ्चमोपान्त्यसंयुतम्।।63।।

पञ्चोपान्त्यमायातः कालोऽनन्तस्ततः पुनः।

पञ्चमस्य द्वितीयेन तृतीयोपान्त्ययोजनम्।।64।।

जलं वायुर्द्विधा पार्श्वे पार्श्वं च पूर्ववत्स्थितम्।

प्रथमान्त्यं तदाद्यं च पञ्चमस्य द्वितीयके।।65।।

षष्ठाद्यं पञ्चमोपान्त्यं रहस्यं गुरुवाक्यतः।

दशोपवासं फलदं ज्ञातव्यं श्रीशिवोदितम्।।66।।

अथ नेति

मृदु श्लश्र्णं सिदं सूत्रं नासानाले प्रवेशयेत्।

मुखान्निर्गमयेद्दस्रौ चिन्तयेन्नेतिका स्मृता।।67।।

वर्तितावर्तिताभेदा द्विविधा सा प्रकीर्तिता।

कपालशोधिनी दृष्टिशोधिनी जन्तुनीशिनी।।68।।

ऊर्ध्वरोगहरा चैषा द्व्याहिकव्रतपुण्यदा।

प्रथमाद्यं पञ्चमोपान्त्ये तृतीयाष्टमपञ्चम।।69।।

द्वतीये प्रथमान्त्यं तु द्वितीय-चतुर्थे।

तृतीयषष्टं प्रथमान्त्यं द्वितीयोपान्त्यं च।।70।।

पञ्चमोपान्त्या द्वे द्वितीयोपान्त्यं पञ्चमोपान्त्ये।।

तृतीयाष्टमपञ्चमद्वतीये। द्वितीयपञ्चमद्वितीये।।

द्वितीयचतुर्थं तृतीयं। तृतीयद्वितीयचतुर्थं प्रणवाद्यम्।।

अथ त्रोटनम्।

वामदक्षिणतो हस्तौ तर्जयेद्वायुल्लभाम्।।71।।

संचित्योर्ध्वत्रोटकम् कर्म श्रीशंभुतोदितम्।

एवं कट्यां कृतं कर्म चक्रत्रोटनकं भवेत्।।72।।

पादयोर्हस्तयोर्वापि सर्वाङ्त्रोटनं भवेत्।।72।।

पादयोर्हस्तयोर्वापि सर्वाङ्गत्रोटनं भवेत्।

चं चतुर्थं षष्ठं पञ्चमोपान्त्ये।।73।।

अथोद्गारकर्म

बलादुग्दारकरणमुद्गाराख्यं प्रकीर्तितम्।

उदानाख्योऽनेन देवो वायुदोषं निवर्तयेत्।।74।।

अथ शिरासंचालनम्।

शिरासंचालनं कर्म वायुवश्यतया भवेत्।

अनेन कर्मणा प्राणः सर्वशुद्धिं विधास्यति।।75।।

अथ वाराहम्।

उत्तानसुप्ततैलाक्तजठरस्योपरि न्यसेत्।

उल्मुकं मृत्तिकापात्रपिहितं तच्च कर्षयेत्।।76।।

उदरे कर्म तत्प्रोक्तं वाराहं शम्भुना पुरा।

ग्रन्थदोषं च धरणीसंभवं नलसंभवम्।।77।।

आन्त्रदोषमण्डदोषं वायुदोषं च नाशयेत्।

चिन्तनीयोऽत्र भगवान् समानो ज्वलनप्रभः।।78।।

एवान्यतमं वाराहं पृष्ठावाराहमेव च।

अथ मर्दनम्।

औषधस्नेहतोयैश्च केवलं वाथ पाणिना।।79।।

मर्दनं मर्दनं प्रोक्तं मुनिभिस्तु चतुर्विधम्।

प्रभंजनसखा देवश्चिन्तनीयो विचक्षणैः।।80।।

अथ शालाक्यम्।

नेत्रोपान्ते तु यद्द्वारं कथितं पीर्वसूरिभिः।

उद्घाटयेत्तु तत्सम्यक् तीक्ष्णलोहशलाकया।।81।।

शलाकां ताम्रसंभूतां तस्मिंद्वारे प्रवेश्य च।

मलनिर्हरणं कुर्याद् भ्रामयित्वा शालाकिकाम्।।82।।

दूरीकृत्य शलाकां तु पटं तत्र निबन्धयेत्।

नेत्रनालाक्यकर्मैतत्सद्यो दृष्टिप्रदायकम्।।83।।

गुरूपदिष्मार्गेण यस्याभ्यासोऽथ वै भवेत्।

तेन कार्यमिदं नान्यदैर्यत्र धन्वन्तरिः प्रभुः।।84।।

शलाकया कर्णगूथं निर्हरेद् यत्नतो मुनिः।

कर्णशालाक्यमेतद्धि कर्म प्रोक्तं मनीषिभिः।।85।।

यथामलं यथादोषं यथास्थानं तु यद्व्रणम्।

व्रणशालातक्येतद्धि तृतीयं कर्म चोदितम्।।86।।

सिद्धिकारिणी

पीत्वा तोयं कण्ठनालेन नौलीं कृत्वा नालावुत्थितौ शमयित्वा।

आश्वीं त्यक्त्वा कारिणीं चित्रानाम्नीं कृत्वा सम्यग्रेचयेत्पायुनालात्।।87।।

पीत्वा तोयं पायुनालेन पश्चात् यावत्कण्ठं लौलिकां संविधाय।

वारंवारं रेचयेत्कण्ठनालात् शुद्धो देहश्चक्रनाडीगणश्च।।88।।

वह्नेर्दीप्तिः कफपित्तामयानां नीशं कार्श्यं कान्तयुक्तं शरीरम्।

नेत्रे तेजो बिन्दुवश्यं निरुक्तं नादस्फौट्यं मलशुद्धिश्च कोष्ठात्।।89।।
कासश्वासप्लीहकुष्ठादिनाशं कुर्यात्सैषा कारिणि सिद्धिपुर्वा।

ग्रन्थान्दृष्ट्वा प्राक्तनान्नाथमार्गान् शुद्धिर्दिव्या राघवेण प्रणीता।।90।।

प्राणापानौ चिन्तनीयौ च देवो यं यं मन्त्रं ध्यानपूर्वं जपेच्च।

शुण्ठी यवानी मरिचमभया लवणं तथा।

समं समं चूर्णयित्वा प्रपिबेदूष्णवारिणा।।91।।

नासादन्त्यां तथ ाचास्यां नागबन्धो रहस्यकम्।

अथ वमनम्।

अङ्गुलिं वक्त्रमध्ये तु वमनं तु यथाचरेत्।।92।।

यद्वा एरण्डपत्रस्य नालं कण्ठे प्रवेशयेत्।

वमेद्वा तत्र पिष्टेन मदनस्य फलेन तु।।93।।

मदनादिगणेनैव वमनं कारयेत्सुधीः।

उदानेनैव वमनमुपवासफलप्रदम्।।94।।

अथ विरेचनम्

कम्पिल्लकं च मृद्वीकां भुक्त्वा तदनु कं पिबेत्।

अपान-दैवतो रेकः पूर्वच्च फलं भवेत्।।95।।

शर्करां यवपत्रेण भिंडीफलरसेन वा।

पीत्वा विरेचनं श्रेष्ठं गुरुयुक्त्या प्रकल्पयेत्।।96।।

वमनं च विरेकश्च स्नेहस्वेदनपूर्वकौ।

रसाञ्जनाञ्जनं नेत्रे रेचनं सूर्यदैवतम्।।97।।

देवदालीफलघ्राणं कपालस्य विरेचनम्।

अथ रक्तस्रावः।

सुतीक्ष्णं निर्मलं श्लक्ष्णमत्यल्पं शस्त्रमुच्यते।।98।।

कूर्पराभ्यन्तरे वापि गुल्फयोर्वा ललाटके।

अन्यत्र वा यथायोग्यं शिरां बुध्वा हि वेधयेत्।।99।।

रुधिरं स्रावयेत्कृष्णं ततश्चापि निरोधयेत्।

दशाहफलदं तद्धि रक्तदोषे विधीयते।।100।।

मिहिरो देवता चात्र षष्ठाद्यं बिन्दुगं हि तत्।

अथ करणाप्यायनानि।

गोघृतं केसरोन्मिश्रं नासाप्यायनमुच्यते।।101।।

आज्यं शर्करया युक्तं रसनाप्यायनं स्मृतम्।

दुग्धाप्लाविततूलेन नयनाप्यायनं परम्।।102।।

स्रोतोञ्जनं वा गव्यं वा घृतमक्ष्णोर्हितं मतम्।

तैलाभ्यङ्गः कृतो यत्नात्वगाप्यायकारकः।।103।।

प्राजापत्याप्यायनं तु शाल्मली शर्करायुता।

भक्षिता वाथ दुग्धेन यष्टी वा दुग्धसंयुता।।104।।

करणस्य तु दैवत्यं संस्मरेत्तत्र सिद्धिदम्।

अथाश्योतनम्।

त्रिफला शीततोयेन नेत्राश्चयोतनमुत्तम्।।105।।

जलेन वा यथायोग्यमन्यत्रापि प्रकल्पयेत्।

अथ जलधारा।

नाभौ पात्रं तु संस्थाप्य चोर्ध्वतो धारया जलम्।।106।।

शीतं ज्वरे तु तत्कार्यं पीडायामुष्णवारिणा।

धरणीनलयोर्दोषः शूलदोषश्च नश्यति।।107।।

धन्वत्तरिप्रसादेन व्रणे धारा तु केवला।

अथ गजकरणी।

शुद्धं तोयं नारिकेलोद्भवं वा पीत्वाकण्ठं दुग्धमीश्रं जलं वा।

वारंवारं माणिबन्धं तु कुर्वन् नोदगारेण प्रक्षिपेद्भूमिभागे।।108।।

एषा प्रोक्ता कफपितातमयेषु

मेदोघ्नीव करिणी हस्तिपूर्वा।।109।।

अथ नौली

अमन्दावर्तवेगेन जठरं दक्षवामयोः।।110।।

चचालयेच्छंशुना प्रोक्तं तत्र लक्ष्म्यधिदेवता।

बाह्यनौलिरियं प्रोक्ता जठरानलदीपिनी।।111।।

अग्निसंधायका कुंभकरी भुक्तान्नपाचिनी।

एकीकृत्य नलौ सम्यगुत्थाप्य गुरुमार्गतः।।112।।

ऊर्ध्वमाकर्षयेत्तेन नालनौली शिवोदिता।

इदं रहस्यं परमं न देयं यस्य कस्यचित्।।113।।

त्रिपदासनकं बध्वा बस्तितुन्दविघर्षणात्।

आन्त्रनौलिरियं प्रोक्ता मणिबन्धप्रसिद्धिदा।।114।।

अथ गण्डूषः।

शुद्धं तोयं मुखे कृत्वा गण्डूषं च पुनः पुनः।

कुर्यादेतद्धि तत्कर्म गण्डूषमुपयोक्ष्यते।।115।।

मुखपाके तु रैरयतोयैर्जातीजलेन वा।

वारुणौ दन्तदोषध्नस्तैलगण्डूष उत्तमः।।116।।

अथ स्नेहम्।

घृतं वा तैलमथवा यथादोषं यथामलम्।

पीयते स्नेहनं प्रोक्तं शिवेनाखिलवेदिना।।117।।

अथ स्वेदनं वह्निदैवत्यं वह्निना साध्यते तु तत्।

स्नेहनं तु पुरा कृत्वा स्वेदनं कारयेन्मुनिः।।118।।
लवणैर्वालुकाभिर्वा भेषजै रुग्विनाशनैः।

स्विन्नै शयनं स्वेद्यं गर्ते वा गुरुयुक्तितः।।119।।

वातदोषहरं जेदं स्वेदनं गाङ्गपुण्यदम्।

अथ धूमः।

धूमस्तु द्विविधः प्रोक्तो व्रणशोधनरोपणः।।120।।

दैहिकः स तु विज्ञेयः परो वक्त्रेण गृह्यते।

ब्रह्मपत्रांघ्रिसिन्धूत्थं समचूर्णेन योजयेत्।।121।।

शिलाभेदकचूर्णं तु श्रेष्ठमेतद्धि धूपनम्।

व्रणे कुष्ठे क्षते योज्यं सद्यो नाशयति व्यथाम्।।122।।

वक्त्रग्रह्यस्तु विस्तारन्मिश्रके प्रोचितो मया।

अथ नस्यम्।

सैन्धवं च वचा व्याघ्री सुरसा चोपदन्तिका।।123।।

गोमूत्रैः साधयेत्तैलं नासिकायां प्रवेशयेत्।

नश्यन्ति पूतिनासाद्या नस्यभेतत्समीरितम्।।124।।

विशेषो मिश्रके वाच्यो व्यापदां हरणे मया।

अथ कवलग्रहः।

कवलीकृत्य यद्वस्तु मुखमध्ये विधारयेत्।।125।।

मुखरोगस्य हरणं कवलग्रह उच्यते।

ताम्बूलादिकृतः सोऽपि मुखदौर्गन्ध्यनाशनः।।126।।

कर्पूरं शीतमरिचं चन्दनं सुरदारुणा।

मरिचं तोयकृष्णैलै गायत्रीभिः सुसाधितैः।।127।।

मुखपाकं हरेच्छीघ्रं दौर्गन्धअयमपि तत्क्षणात्।

विडङ्गचूर्णकेनैव दन्तकीटान्विनाशयेत्।।128।।

बकुलत्वक्कृतः सोऽपि दन्तपीडां  हरेत्पराम्।

विस्तरो मिश्रके वाच्यः कवलग्रह ईरितः।।129।।

अथ बस्ति।

अथ बस्तिं प्रवक्ष्यामि संक्षेपान्नत्यरूपिणीम्।

नमस्कृत् महेशाय पार्वतीशाय शम्भवे।।130।।

मसोपवासपुण्यं हि लभते येन तत्क्षणात्।

यत्र कालाग्निरुद्रो हि दैवतं परमेश्वरः।।131।।

नौलीक्रियासुसंपन्नस्त्यक्तमूत्रमलः सुधीः।

जानुदघ्ने जले कुर्याद्बस्तिं बस्तिविधानवित्।।132।।

वंशजा नलजा चापि नलिका चतुरङ्गुला।

अङ्गुष्ठपूर्ववत्स्थूला कनिष्ठावेशछिद्रिका।।133।।

मूलेन नलिकां दत्वा जलमाकर्षयेद्बलात्।

नतांसः शोधयेत्कोष्ठं पुनस्तोयं विरेचयेत्।।134।।

यावन्मला विनश्यन्ति वातपित्तकफोद्भवाः।

त्रिवारं वा चतुर्वारं कृत्वा बस्तिं विरेचयेत्।।135।।

अधश्चक्रीं पुरा कृत्वा नलिकां चानुपायुगाम्।

नौलीं कृत्वा तु शुद्धः स्यादुत्कटासनसंस्थितः।।136।।

जलबस्तिरियं प्रोक्त आदिनाथेन योगिना।

एवमेव विनातोयं वायुबस्तिः प्रजायते।।137।।

शेषं तिष्ठति चान्तश्तेद्विचित्रकरणीं चरेत्।

निर्भीतो रेचयेत्तोयं निर्वाते घटिकात्रयम्।।138।।

महोजस्वी महज्ज्योतिर्जठराग्निप्रदीपनम्।

गुल्मप्लीहोदरादीनां नाशनं सुखवर्धनम्।।140।।

वातपित्तकफोत्थानां दोषाणां नाशनं परम्।

कुष्ठानां नाशनं चापि बस्तिसिद्धे प्रजायते।।141।।

द्रव्यभेदैस्तु ये वाच्या बस्तयस्ते तु मिश्रके।

वायुः सुखेन वश्यः स्याद्बस्तिमभ्यसतो मनेः।।142।।

अथ नेत्रबस्तिः।

जलान्तः संप्रविश्याथ नेत्रे विस्फार्य निर्गतः।

नेत्रे संमार्जयेद्योगी नित्रबस्तिरियं स्मृतः।।143।।

अथ कर्णबस्तिः।

कोष्ठमूत्रं निजे कर्णे दत्वा तत्पुराहरेत्।

कर्णबस्तिरयं प्रोक्तो विनादोषं न चाचरेत्।।144।।

अथ ध्वजबस्तिः।

त्र्यङ्गुलां नलिकां कृत्वा सूक्ष्मां श्लक्ष्णां समुद्रिकाम्।

अजास्तनोतेथभस्रायां सम्यक्सूत्रेण बंधयेत्।।145।।

लिङ्गे प्रवेश्य नलिकां तोयपूर्णां तु भस्त्रिकाम्।

निष्पीड्य पाणिनाहृत्य ध्वजबस्तिरयं स्मृतः।।146।।

अश्मरीदोषहरणो मूत्रकृच्छ्रहरः परः।

प्रणवः पञ्चमत्रयोदशमुपान्त्यं च प्रजापतिः।।147।।

उपसंहारः।

इति संक्षेपतः प्रोक्तः कर्मणां संग्रहः परः।

विदुषा रघुवीरेण श्रीमन्नाथप्रसादतः।।148।।

कुम्भकेष्वपि मुद्रासु प्रत्यूहविनिवारकः।

 

इति श्रीमद्द्विजोदीच्यज्ञातिराजकुलाभिधात्।

देहशुद्धिकरामेतां कर्मणां पद्धतिं पराम्।।149।।