प्रश्नोपनिषत्

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

प्रश्नोपनिषत्

प्रथमः प्रश्नः द्वितीयः प्रश्नः तृतीयः प्रश्नः चतुर्थः प्रश्नः पञ्चमः प्रश्नः षष्ठः प्रश्नः

शान्तिपाठः
 

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।।भद्रं पश्येमाक्षभिर्जयत्राः।।स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिः।।व्यशेम देवहितं यदायुः।।स्वस्ति न इन्द्रो वृद्धश्रवाः।। स्वस्ति नः पूषा विश्ववेदाः।। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।। स्वस्ति नो बृहस्पतिर्दधातु।।

ॐ शान्तिः शान्तिः शान्तिः।।

प्रथमः प्रश्नः

ॐ सुकेशा च भारद्वाजः शैव्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौशल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः।।1।।
तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नानपृच्छथ यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ।।2।।


अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुतो ह वा इमाः प्रजाः प्रजायन्त इति ।।3।।
तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्य इति।।4।।
आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः।।5।।
अथादित्य उदयन्यत्प्राचीं दिशिं प्रविशति तेन प्रच्यान्प्राणान् रश्मिषु संनिधत्ते यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्प्राणान् रश्मिषु संनिधत्ते।।6।।
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरूदयते। तदेतदृचाभ्युक्तम्।।7।।
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः।।8।।
संवत्सरो वै प्रजापतिस्तस्यायने  दक्षिणं चोत्तरं च। तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते। त एव पुनरावर्तन्ते तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष ह वै रयिर्यः पितृयाणः।।9।।
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्त एतद्वै प्रणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः।।10।।
पञ्चपादं पितरं द्वादशकृतिं दिव आहुः परे अर्धे पुरीषिणम्। अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति।।11।।
मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन्।।12।।
अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दयन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते।।13।।
अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति।।14।।
तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ये मिथुममुत्पादयन्ते तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम्।।15।।
तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ।।16।।
इति प्रथमः प्रश्नः।।

द्वितीयः प्रश्नः
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ भगवन्कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति।।1।।
तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः।।2।।
तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथा अहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति।।3।।
तेऽश्रद्दधाना बभूवुः सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्र्मत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते एवमस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुवन्ति।।4।।
एषोऽग्निस्तपत्येष सूर्य एष परजन्यो मघवानेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ।।5।।
अरा इव रथनाभो प्राणे सर्वं प्रतिष्ठितम्। ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ।।6।।
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राणाः प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि।।7।।
देवानामसि वन्हितमः पितृणां प्रथमा स्वधा।। ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि।।8।।
इन्द्रस्त्वं प्राणतेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः।।9।।
यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः। आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति।10।।
व्रात्यस्त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः। वयमाद्यस्य दातारः पिता त्वं मातरिश्वनः।।11।।
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषु। या च मनसि संतता शिवां तां कुरु मोत्क्रमीः।।12।।
प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्। मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि इति।।13।।


इति द्वितीयः प्रश्नः।।

तृतीयः प्रश्नः
अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ।। भगवन्कुत एष प्राणो जायते कथमायात्यस्मिञ्छरीर आत्मानं वा प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बाह्यमभधत्ते कथमध्यात्ममिति।।1।।
तस्मै स होवाचातिप्रश्नान्पृच्छसि ब्रह्मिषठोऽसीति तस्मात्तेऽहं ब्रवीमि।।2।।
आत्मन एष प्राणो जायते। यथैषा पुरुषे छायैतस्मिन्नेतदाततं मनोऽधकृतेनायात्यस्मिञ्छरीरे।।3।।
यथा सम्राडेवाधिकृतान्विनियुङ्क्ते एतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव संनिधत्ते।।4।।
पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते मध्ये तु समानः। एष ह्येतद्हुतमन्नं समुन्नयति तस्मादेताः सप्तार्चषो भवन्ति।।5।।
हृदि ह्येष आत्मा। अत्रैतदेकशतं नाडीनां तासां सतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति।।6।।
अथैकयोर्धव उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम्।।7।।
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः।।8।।
तेजो ह वाव उदानस्तस्मादुपशान्ततेजाः। पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः।।9।।
यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयति।।10।।
य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवतितदेष श्लोकः।।11।।
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा। अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति।।12।।
इति तृतीयः प्रश्नः।।

चतुर्थः प्रश्नः

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिन् जाग्रति कतर एष देवः स्वपनान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे प्रतिष्ठिता भवन्तीति।।1।।
तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनः रुदयंतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति। तेन तर्ह्येष पुरुषो न श्रृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवादते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते।।2।।
प्रणाग्नय एवैतस्मिन्पुरे जाग्रति गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः।।3।।
यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः  मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति।।4।।
अत्रैष देवः स्वप्ने महिमानमनुभवति यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवर्थमनुश्रणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः प्रत्यनुभवति दृष्ट चादृष्ट च श्रुतं चाश्रुतं चानुभूतं चाननुभतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति।।5।।
स यदा तेजसाभिभूतो भवत्यत्रैष देवः स्वप्नान्न पश्यत्यथ तदैतस्मिञ्छरीरे एतत्सुखं भवति।।6।।
स यथा सोम्य वयांसि वासो वृक्षं संप्रतिष्ठन्ते एवं ह वैतत्सर्वं पर आत्मनि संप्रतिष्ठते ।।7।।
पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यं च त्वक् च स्पर्शितव्यं च वाक् च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ।।8।।
एष हि द्रष्टा स्पृष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः स परेऽक्षरे आत्मनि संप्रतिष्ठते।।9।।
परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वो भवति।। तदेष श्लोकः।।10।।
विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र ।। तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञ सर्वमेवाविवेशेति।।11।।
इति चतुर्थः प्रश्नः।।

पञ्चमः प्रश्नः
अथ हैनं शैव्यः सत्यकामः पप्रच्छ स यो ह वैतद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति।।1।।
तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति।।2।।
स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति।।3।।
अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते स सोमलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तते।।4।।
यः पुनरेतत्त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते। तदेतौ श्लौकौ भवतः।।5।।
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनुविप्रयुक्ताः। क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः।।6।।
ऋग्भिरेतं यजुर्भिरन्तरिक्षं स सामभिर्यत्तत्कवयो वेदयन्ते तमोंकारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति।।7।।


इति पञ्चमः प्रश्नः।।

षष्ठः प्रश्नः
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत। षोडषकलं भारद्वाज पुरुषं वेत्थ तमहं कुमारमब्रुवं नाहमिममवेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति समूलो वा एष परिशुष्यति योऽनृतं वक्तुं स तूष्णीं रथमारूह्य प्रवव्राज तं त्वा पृच्छामि क्वासौ पुरुष इति।।1।।
तस्मै स होवाच इहैवान्तःशरीरे सोम्य स पुरुष यस्मिन्नेताः षोडशकलाः प्रभवन्तीति।।2।।
स ईक्षांचक्रे यस्मिन्नहमुत्क्रन्ते उत्क्रन्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति।।3।।
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च।।4।।
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रम प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे समुद्र इत्येवं प्रोच्यते एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति। तदेष श्लोकः।।5।।
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः। तं वेद्यं पुरुषं वद यथा मा वो मृत्युः परिर्व्यथा इति।।6।।
तान्होवाच्चैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति।।7।।
ते तमर्चन्तस्त्वं हि नः पिता योऽस्माकमिविद्यायाः परं पारं तारयसीति नमः परमऋषिभ्यो नमः परमऋषिभ्यः।।8।।


इति षष्ठः प्रश्नः।।
इति प्रश्नोपनिषत्सम्पूर्णा।।



शान्तिपाठः
 

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।।भद्रं पश्येमाक्षभिर्जयत्राः।।स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिः।।व्यशेम देवहितं यदायुः।।स्वस्ति न इन्द्रो वृद्धश्रवाः।। स्वस्ति नः पूषा विश्ववेदाः।। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।। स्वस्ति नो बृहस्पतिर्दधातु।।

ॐ शान्तिः शान्तिः शान्तिः।।
 

इति प्रश्नोपनिषत्समाप्ता।।