Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

नीति-शतकम्

भर्तृहरि

दिक्-कालाद्यनवच्छिन्नानन्त-चिन्-मात्र-मूर्तये |

स्वानुभूत्य्-एक-मानाय नमः शान्ताय तेजसे ||1||

बोद्धारो मत्सर-ग्रस्ताः

प्रभवः स्मय-दूषिताः |

अबोधोपहताः चान्ये

जीर्णम् अङ्गे सुभाषितम् ||2||

अज्ञः सुखम् आराध्यः

सुखतरम् आराध्यते विशेषज्ञः |

ज्ञान-लव-दुर्विदग्धं

ब्रह्मापि तं नरं न रञ्जयति ||3||

प्रसह्य मणिम् उद्धरेन्मकर-वक्त्र-दंष्ट्रान्तरात्

समुद्रम् अपि सन्तरेत् प्रचलद् ऊर्मि-मालाकुलम् |

भुजङ्गम् अपि कोपितं शिरसि पुष्पवद् धारयेत्

न तु प्रतिनिविष्ट-मूऋख-जन-चित्तम् आराधयेत् ||4||

लभेत सिकतासु तैलम् अपि यत्नतः पीडयन्

पिबेच् च मृग-तृष्णिकासु सलिलं पिपासार्दितः |

क्वचिद् अपि पर्यटन् शश-विषाणम् आसादयेत्

न तु प्रतिनिविष्ट-मूर्ख-चित्तम् आराधयेत् ||5||

व्यालं बाल-मृणाल-तन्तुभिरसौ रोद्धुं समुज्जृम्भते

छेत्तुं वज्र-मणिं शिरीष-कुसुम-प्रान्तेन सन्नह्यति |

माधुर्यं मधु-बिन्दुना रचयितुं क्षारामुधेरीहते

नेतुं वाञ्छन्ति यः खलान् पथि सतां सूक्तैः सुधा-स्यन्दिभिः ||6||

स्वायत्तम् एकान्त-गुणं विधात्रा

विनिर्मितं छादनम् अज्ञतायाः |

विशेषाअतः सर्व-विदां समाजे

विभूषणं मौनम् अपण्डितानाम् ||7||

यदा किञ्चिज्-ज्ञोऽहं द्विप इव मदान्धः समभवं

तदा सर्वज्ञोऽस्मीत्य् अभवद् अवलिप्तं मम मनः

यदा किञ्चित् किञ्चिद् बुधजन-सकाशाद् अवगतं

तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ||8||

कृमि-कुल-चित्तं लाला-क्लिन्नं विगन्धि-जुगुप्सितं

निरुपम-रसं प्रीत्या खादन् नरास्थि निरामिषम् |

सुरपतिम् अपि श्वा पार्श्वस्थं विलोक्य न शङ्कते

न हि गणयति क्षुद्रो जन्तुः परिग्रह-फल्गुताम् ||9||

शिरः शार्वं स्वर्गात् पशुपति-शिरस्तः क्षितिधरं

म्हीध्राद् उत्तुङ्गाद् अवनिम् अवनेश्चापि जलधिम् |

अधोऽधो गङ्गेयं पदम् उपगता स्तोकम् अथवाविवेक-भ्रष्टानां भवति विनिपातः शतमुखः ||10||

शक्यो वारयितुं जलेन हुतभुक् च्छत्रेण सूर्यातपो

नागेन्द्रो निशिताग्कुशेन समदो दण्डेन गो-गर्दभौ |

व्याधिर्भेषज-सङ्ग्रहैश्च विविधैर्मन्त्र-प्रयोगैर्विषं

सर्वस्यौषधम् अस्ति शास्त्र-विहितं मूर्खस्य नस्त्य् औषधिम् ||11||

साहित्य-सङ्गीत-कला-विहीनः

साक्षात् पशुः पुच्छ-विषाण-हीनः |

तृणं न खादन्न् अपि जीवमानस्

तद् भाग-धेयं परमं पशूनाम् ||12||

येषां न विद्या न तपो न दानं

ज्ञानं न शीलं न गुणो न धर्मः |

ते मर्त्य-लोके भुवि भार-भूता

मनुष्य-रूपेण मृगाश्चरन्ति ||13||

वरं पर्वत-दुर्गेषु

भ्रान्तं वनचरैः सह

न मूर्ख-जन-सम्पर्कः

सुरेन्द्र-भवनेष्व् अपि ||14||

शास्त्रोपस्कृत-शब्द-सुन्दर-गिरः शिष्य-प्रदेयागमा

विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः |

तज्-जाड्यं वसुधादिपस्य कवयस्त्व् अर्थं विनापीश्वराः

कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ||15||

हर्तुर्याति न गोचरं किम् अपि शं पुष्णाति यत् सर्वदाऽप्य्

अर्थिभ्यः प्रतिपाद्यमानम् अनिशं प्राप्नोति वृद्धिं पराम् |

कल्पान्तेष्व् अपि न प्रयाति निधनं विद्याख्यम् अन्तर्धनं

येषां तान् प्रति मानम् उज्झत नृपाः कस्तैः सह स्पर्धते ||16||

अधिगत-परमार्थान् पण्डितान् मावमंस्थास्

तृणम् इव लघु लक्ष्मीर्नैव तान् संरुणद्धि |

अभिनव-मद-लेखा-श्याम-गण्ड-स्थलानां

न भवति बिसतन्तुर्वारणं वारणानाम् ||17||

अम्भोजिनी-वन-विहार-विलासम् एव

हंसस्य हन्ति नितरां कुपितो विधाता |

न त्व् अस्य दुग्ध-जल-भेद-विधौ प्रसिद्धां

वैदग्धी-कीर्तिम् अपहर्तुम् असौ समर्थः ||18||

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः |

वाण्य् एका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाग्-भूषणं भूषणम् ||19||

विद्या नाम नरस्य रूपम् अधिकं प्रच्छन्न-गुप्तं धनं

विद्या भोगकरी यशः-सुखकरी विद्या गुरूणां गुरुः |

विद्या बन्धुजनो विदेश-गमने विद्या परा देवता

विद्या राजसु पूज्यते न तु धनं विद्या-विहीनः पशुः ||20||

क्षान्तिश्चेत् कवचेन किं किम् अरिभिः क्रोधोऽस्ति चेद् देहिनां

ज्ञातिश्चेद् अनलेन किं यदि सुहृद् दिव्यौषधं किं फलम् |

किं सर्पैर्यदि दुर्जनाः किम् उ धनैर्विद्याऽनवद्या यदि

व्रीडा चेत् किम् उ भूषणैः सुकविता यद्य् अस्ति राज्येन किम् ||21||

दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने

प्रीतिः साधुजने नयो नृप-जने विद्वज्-जने चार्जवम् |

शौर्यं शत्रु-जने क्षमा गुरु-जने कान्ता-जने धृष्टता

ये चैवं पुरुषाः कलासु कुशलास्तेष्व् एव लोक-स्थितिः ||22||

जाड्यं धियो हरति सिञ्चति वाचि सत्यं

मानोन्नतिं दिशति पापम् अपाकरोति |

चेतः प्रसादयति दिक्षु तनोति कीर्तिं

सत्-सङ्गतिः कथय किं न करोति पुंसाम् ||24||

जयन्ति ते सुकृतिनो

रस-सिद्धाः कवीश्वराः |

नास्ति येषां यशःकाये

जरा-मरण-जं भयम् ||24||

सूनुः सच्-चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः

स्निग्धं मित्रम् अवञ्चकः परिजनो निःक्लेश-लेशं मनः |

आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं

तुष्टे विष्टप-कष्ट-हारिणि हरौ सम्प्राप्यते देहिना ||25||

प्राणाघातान् निवृत्तिः पर-धन-हरणे संयमः सत्य-वाक्यं

काले शक्त्या प्रदानं युवति-जन-कथा-मूक-भावः परेषाम् |

तृष्णा-स्रोतो विभङ्गो गुरुषु च विनयः सर्व-भूतानुकम्पा

सामान्यः सर्व-शास्त्रेष्व् अनुपहत-विधिः श्रेयसाम् एष पन्थाः ||26||

प्रारभ्यते न खलु विघ्न-भयेन नीचैः

प्रारभ्य विघ्न-विहता विरमन्ति मध्याः |

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः

प्रारब्धम् उत्तम-जना न परित्यजन्ति ||27||

असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यः कृश-धनः

प्रिया न्याय्या वृत्तिर्मलिनम् असुभङ्गेऽप्यसुकरम् |

विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां

सतां केनोद्दिष्टं विषमम् असिधारा-व्रतम् इदम् ||28||

क्षुत्-क्षामोपि जरा-कृशोपि शिथिल-प्राणोपि कष्टां दशाम्

आपन्नोपि विपन्न-दीधितिरिति प्राणेषु नश्यत्स्व् अपि |

मत्तेभेन्द्र-विभिन्न-कुम्भ-पिशित-ग्रासैक-बद्ध-स्पृहः

किं जीर्णं तृणम् अत्ति मान-महताम् अग्रेसरः केसरी ||29||

स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसम् अप्यस्थि गोः

श्वा लब्ध्वा परितोषम् एति न तु तत् तस्य क्षुधा-शान्तये |

सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपं

सर्वः कृच्छ्र-गतोपि वाञ्छन्ति जनः सत्त्वानुरूपं फलम् ||30||

लाङ्गूल-चालनम् अधश्-चरणावपातं

भूमौ निपत्य वदनोदर-दर्शनं च |

श्वा पिण्डदस्य कुरुते गज-पुङ्गवस्तु

धीरं विलोकयति चाटु-शतैश्च भुङ्क्ते ||31||

परिवर्तिनि संसारे

मृतः को वा न जायते |

स जातो येन जातेन

याति वंशः समुन्नतिम् ||32||

कुसुम-स्तवकस्येव

द्वयी वृत्तिर्मनस्विनः |

मूर्ध्नि वा सर्व-लोकस्य

शीर्यते वन एव वा ||33||

सन्त्य् अन्येऽपि बृहस्पति-प्रभृतयः सम्भाविताः पञ्चषास्

तान् प्रत्य् एष विशेष-विक्रम-रुची राहुर्न वैरायते |

द्वाव् एव ग्रसते दिवाकर-निशा-प्राणेश्वरौ भास्करौ

भ्रातः पर्वणि पश्य दानव-पतिः शीर्षावशेषाकृतिः ||34||

वहति भुवन-श्रेणिं शेषः फणाफलक-स्थितां

कमठ-पतिना मध्ये-पृष्ठं सदा स च धार्यते |

तम् अपि कुरुते क्रोडाधीनं पयोधिरनादराद्

अहह महतां निःसीमानश्चरित्र-विभूतयः ||35||

वरं पक्ष-च्छेदः समदमघवन्-मुक्त-कुलिश-

प्रहारैरुद्गच्छद्-बहुल-दहनोद्गार-गुरुभिः |

तुषाराद्रेः सूनोरहह पितरि क्लेश-विवशे

न चासौ सम्पातः पयसि पयसां पत्युरुचितः ||36||

सिंहः शिशुरपि निपतति

मद-मलिन-कपोल-भित्तिषु गजेषु |

प्रकृतिरियं सत्त्ववतां

न खलु वयस्तेजसो हेतुः ||37||

जातिर्यातु रसातलं गुण-गणैस्तत्राप्यधो गम्यतां

शीलं शैल-तटात् पतत्व् अभिजनः सन्दह्यतां वह्निना |

शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थोऽस्तु नः केवलं

येनैकेन विना गुणस्तृण-लव-प्रायाः समस्ता इमे ||38||

धनम् अर्जय काकुत्स्थ

धन-मूलम् इदं जगत् |

अन्तरं नाभिजानामि

निर्धनस्य मृतस्य च ||39||

तानीन्द्रियाण्य् अविकलानि तद् एव नाम

सा बुद्धिरप्रतिहता वचनं तद् एव |

अर्थोष्मणा विरहितः पुरुषः क्षणेन

सोऽप्यन्य एव भवतीति विचित्रम् एतत् ||40||

यस्यास्ति वित्तं स नरः कुलीनः

स पण्डितः स श्रुतवान् गुणज्ञः |

स एव वक्ता स च दर्शनीयः

सर्वे गुणाः काञ्चनम् आश्रयन्ति ||41||

दौर्मन्त्र्यान् नृपतिर्विनश्यति यतिः सङ्गात् सुतो लालनात्

विप्रोऽनध्ययनात् कुलं कुतनयाच् छीलं खलोपासनात् |

ह्रीर्मद्याद् अनवेक्षणाद् अपि कृषिः स्नेहः प्रवासाश्रयान्

मैत्री चाप्रणयात् समृद्धिरनयात् त्याग-प्रमादाद् धनम् ||42||

दानं भोगो नाशस्तिस्रो

गतयो भवन्ति वित्तस्य |

यो न ददाति न भुङ्क्ते

तस्य तृतीया गतिर्भवति ||43||

मणिः शाणोल्लीढः समर-विजयी हेति-दलितो

मद-क्षीणो नागः शरदि सरितः श्यान-पुलिनाः |

कला-शेषश्चन्द्रः सुरत-मृदिता बाल-वनिता

तन्-निम्ना शोभन्ते गलित-विभवाश्चार्थिषु नराः ||44||

परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतये

स पश्चात् सम्पूर्णः कलयति धरित्रीं तृण-समाम् |

अतश्चानैकान्त्याद् गुरु-लघुतयाऽर्थेषु धनिनाम्

अवस्था वस्तूनि प्रथयति च सङ्कोचयति च ||45||

राजन् दुधुक्षसि यदि क्षिति-धेनुम् एतां

तेनाद्य वत्सम् इव लोकम् अमुं पुषाण

तस्मिंश्च सम्यग् अनिशं परिपोष्यमाणे

नाना-फलैः फलति कल्पलतेव भूमिः ||46||

सत्यानृता च परुषा प्रिय-वादिनी च

हिंस्रा दयालुरपि चार्थपरा वदान्या |

नित्य-व्यया प्रचुर-नित्य-धनागमा च

वाराङ्गनेव नृप-नीतिरनेक-रूपा ||47||

आज्ञा कीर्तिः पालनं ब्राह्मणानां

दानं भोगो मित्र-संरक्षणं च

येषाम् एते षड्गुणा न प्रवृत्ताः

कोऽर्थस्तेषां पार्थिवोपाश्रयेण ||48||

यद् धात्रा निज-भाल-पट्ट-लिखितं स्तोकं महद् वा धनं

तत् प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् |

तद् धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः

कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ||49||

त्वम् एव चातकाधारोऽ

सीति केषां न गोचरः |

किम् अम्भोद-वरास्माकं

कार्पण्योक्तं प्रतीक्षसे ||50||

रे रे चातक सावधान-मनसा मित्र क्षणं श्रूयताम्

अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः |

केचिद् वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथा

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ||51||

अकरुणत्वम् अकारण-विग्रहः

परधने परयोषिति च स्पृहा |

सुजन-बन्धुजनेष्व् असहिष्णुता

प्रकृति-सिद्धम् इदं हि दुरात्मनाम् ||52||

दुर्जनः परिहर्तव्यो

विद्ययाऽलकृतोऽपि सन् |

मणिना भूषितः सर्पः

किम् असौ न भयङ्करः ||53||

जाड्यं ह्रीमति गण्यते व्रत-रुचौ दम्भः शुचौ कैतवं

शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि |

तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे

तत् को नाम गुणो भवेत् स गुणिनां यो दुर्जनैर्नाङ्कितः ||54||

लोभश्चेद् अगुणेन किं पिशुनता यद्य् अस्ति किं पातकैः

सत्यं चेत् तपसा च किं शुचि मनो यद्य् अस्ति तीर्थेन किम् |

सौजन्यं यदि किं गुणैः सुमहिमा यद्य् अस्ति किं मण्डनैः

सद्-विद्या यदि किं धनैरपयशो यद्य् अस्ति किं मृत्युना ||55||

शशी दिवस-धूसरो गलित-यौवना कामिनी

सरो विगत-वारिजं मुखम् अनक्षरं स्वाकृतेः |

प्रभुर्धन-परायणः सतत-दुर्गतः सज्जनो

नृपाङ्गण-गतः खलो मनसि सप्त शल्यानि मे ||56||

न कश्चिच् चण्ड-कोपानाम्

आत्मीयो नाम भूभुजाम् |

होतारम् अपि जुह्वानं

स्पृष्टो वहति पावकः ||57||

मौनोमूकः प्रवचन-पटुर्बाटुलो जल्पको वा

धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः |

क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः

सेवाधर्मः परम-गहनो योगिनाम् अप्यगम्यः ||58||

उद्भासिताखिल-खलस्य विशृङ्खलस्य

प्राग्-जात-विस्तृत-निजाधम-कर्म-वृत्तेः |

दैवाद् अवाप्त-विभवस्य गुण-द्विषोऽस्य

नीचस्य गोचर-गतैः सुखम् आप्यते ||59||

आरम्भ-गुर्वी क्षयिणी क्रमेण

लघ्वी पुरा वृद्धिमती च पश्चात् |

दिनस्य पूर्वार्ध-परार्ध-भिन्ना

छायेव मैत्री खल-सज्-जनानाम् ||60||

मृग-मीन-सज्जनानां तृण-जल-सन्तोष-विहित-वृत्तीनाम् |

लुब्धक-धीवर-पिशुना निष्कारण-वैरिणो जगति ||61||

वाञ्छा सज्जन-सङ्गमे पर-गुणे प्रीतिर्गुरौ नम्रता

विद्यायां व्यसनं स्व-योषिति रतिर्लोकापवादाद् भयम् |

भक्तिः शूलिनि शक्तिरात्म-दमने संसर्ग-मुक्तिः खले

येष्व् एते निवसन्ति निर्मल-गुणास्तेभ्यो नरेभ्यो नमः ||62||

विपदि धैर्यम् अथाभ्युदये क्षमा

सदसि वाक्य-पटुता युधि विक्रमः |

यशसि चाभिरुचिर्व्यसनं श्रुतौ

प्रकृति-सिद्धम् इदं हि महात्मनाम् ||63||

प्रदानं प्रच्छन्नं गृहम् उपगते सम्भ्रम-विधिः

प्रियं कृत्वा मौनं सदसि कथनं चाप्य् उपकृतेः |

अनुत्सेको लक्ष्म्याम् अनभिभव-गन्धाः पर-कथाः

सतां केनोद्दिष्टं विषमम् असिधारा-व्रतम् इदम् ||64||

करे श्लाघ्यस्त्यागः शिरसि गुरु-पाद-प्रणयिता

मुखे सत्या वाणी विजयि भुजयोर्वीर्यम् अतुलम् |

हृदि स्वच्छा वृत्तिः श्रुतिम् अधिगतं च श्रवणयोर्

विनाप्य् ऐश्वर्येण प्रकृति-महतां मण्डनम् इदम् ||65||

सम्पत्सु महतां चित्तं

भवत्य् उत्पल-कोमलम् |आपत्सु च महाशैल-

शिला-सङ्घात-कर्कशम् ||66||

सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते

मुक्ताकारतया तद् एव नलिनी-पत्र-स्थितं राजते |

स्वात्यां सागर-शुक्ति-मध्य-पतितं तन्-मौक्तिकं जायते

प्रायेणाधम-मध्यमोत्तम-गुणः संसर्गतो जायते ||67||

प्रीणाति यः सुचरितैः पितरं स पुत्रो

यद् भर्तुरेव हितम् इच्छति तत् कलत्रम् |

तन् मित्रम् आपदि सुखे च सम-क्रियं यद्

एतत् त्रयं जगति पुण्य-कृतो लभन्ते ||68||

एको देवः केशवो वा शिवो वा

ह्य् एकं मित्रं भूपतिर्वा यतिर्वा |

एको वासः पत्तने वा वने वा

ह्य् एका भार्या सुन्दरी वा दरी वा ||69||

नम्रत्वेनोन्नमन्तः पर-गुण-कथनैः स्वान् गुणान् ख्यापयन्तः

स्वार्थान् सम्पादयन्तो वितत-पृथुतरारम्भ-यत्नाः परार्थे |

क्षान्त्यैवाक्षेप-रुक्षाक्षर-मुखर-मुखान् दुर्जनान् दूषयन्तः

सन्तः साश्चर्य-चर्या जगति बहु-मताः कस्य नाभ्यर्चनीयाः ||70||

भवन्ति नम्रास्तरवः फलोद्गमैर्

नवाम्बुभिर्दूरावलम्बिनो घनाः |

अनुद्धताः सत्-पुरुषाः समृद्धिभिः

स्वभाव एष परोपकारिणाम् |71||

श्रोत्रं श्रुतेनैव न कुण्डलेन

दानेन पाणिर्न तु कङ्कणेन |

विभाति कायः करुण-पराणां

परोपकारैर्न तु चन्दनेन ||72||

पापान् निवारयति योजयते हिताय

गुह्यं निगूहति गुणान् प्रकटीकरोति |

आपद्-गतं च न जहाति ददाति काले

सन्-मित्र-लक्षणम् इदं प्रवदन्ति सन्तः ||73||

पद्माकरं दिनकरो विकचीकरोति

चम्द्र्प् वोलासयति कैरव-चक्रवालम् |

नाभ्यर्थितो जलधरोऽपि जलं ददाति

सन्तः स्वयं परहिते विहिताभियोगाः ||74||

एके सत्-पुरुषाः परार्थ-घटकाः स्वार्थं परित्यजन्ति ये

सामान्यास्तु परार्थम् उद्यम-भृतः स्वार्थाविरोधेन ये |

तेऽमी मानुष-राक्षसाः परहितं स्वार्थाय निघ्नन्ति ये

ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ||75||

क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिला

क्षीरोत्तापम् अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः |

गन्तुं पावकम् उन्मनस्तद् अभवद् दृष्ट्वा तु मित्रापदं

युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्व् ईदृशी ||76||

इतः स्वपिति केशवः कुलम् इतस्तदीय-द्विषाम्

इतश्च शरणार्थिनां शिखरिणां गणाः शेरते |

इतोऽपि बडवानलः सह समस्त-संवर्तकैऋ

अहो विततम् ऊर्जितं भर-सहं सिन्धोर्वपुः ||77||

तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः

सत्यं ब्रूह्य् अनुयाहि साधु-पदवीं सेवस्व विद्वज्-जनम् |

मान्यान् मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं

कीर्तिं पालय दुःखिते कुरु दयाम् एतत् सतां चेष्टितम् ||78||

मनसि वचसि काये पुण्य-पीयूष-पूर्णास्

त्रिभुवनम् उपकार-श्रेणिभिः प्रीणयन्तः |

पर-गुण-परमाणून् पर्वतीकृत्य नित्यं

निज-हृदि विकसन्तः सन्त सन्तः कियन्तः ||79||

किं तेन हेम-गिरिणा रजताद्रिणा वा

यत्राश्रिताश्च तरवस्तरवस्त एव |

मन्यामहे मलयम् एव यद्-आश्रयेण

कङ्कोल-निम्ब-कटुजा अपि चन्दनाः स्युः ||80||

रत्नैर्महार्हैस्तुतुषुर्न देवा

न भेजिरे भीम-विषेण भीतिम् |

सुधां विना न परयुर्विरामं

न निश्चितार्थाद् विरमन्ति धीराः ||81||

क्वचित् पृथ्वीशय्यः क्वचिद् अपि च परङ्क-शयनः

क्वचिच् छाकाहारः क्वचिद् अपि च शाल्योदन-रुचिः |

क्वचित् कन्थाधारी क्वचिद् अपि च दिव्याम्बरधरो

मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ||82||

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्-संयमो

ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः |

अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता

सर्वेषाम् अपि सर्व-कारणम् इदं शीलं परं भूषणम् ||83||

निन्दन्तु नीति-निपुणा यदि वा स्तुवन्तु

लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् |

अद्यैव वा मरणम् अस्तु युगान्तरे वा

न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ||84||

भग्नाशस्य करण्ड-पिण्डित-तनोर्म्लानेन्द्रियस्य क्षुधा

कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः |

तृप्तस्तत्-पिशितेन सत्वरम् असौ तेनैव यातः यथा

लोकाः पश्यत दैवम् एव हि नृणां वृद्धौ क्षये कारणम् ||85||

आलस्यं हि मनुष्याणां

शरीरस्थो महान् रिपुः |

नास्त्य् उद्यम-समो बन्धुः

कुर्वाणो नावसीदति ||86||

छिन्नोऽपि रोहति तर्क्षीणोऽप्य् उपचीयते पुनश्चन्द्रः |

इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ||87||

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः

स्वर्गो दुर्गम् अनुग्रहः किल हरेरैरावतो वारणः |

इत्य् ऐश्वर्य-बलान्वितोऽपि बलभिद् भग्नः परैः सङ्गरे

तद् व्यक्तं ननु दैवम् एव शरणं धिग् धिग् वृथा पौरुषम् ||88||

कर्मायत्तं फलं पुंसां

बुद्धिः कर्मानुसारिणी |

तथापि सुधिया भाव्यं

सुविचार्यैव कुर्वता ||89||

खल्व् आतो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तके

वाञ्छन् देशम् अनातपं विधि-वशात् तालस्य मूलं गतः |

तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः

प्रायो गच्छति यत्र भाग्य-रहितस्तत्रैव यान्त्य् आपदः ||90||

रवि-निशाकरयोर्ग्रह-पीडनं

गज-भुजङ्गमयोरपि बन्धनम् |

मतिमतां च विलोक्य दरिद्रतां

विधिरहो बलवान् इति मे मतिः ||91||

सृजति तावद् अशेष-गुणकरं

पुरुष-रत्नम् अलङ्करणं भुवः |

तद् अपि तत्-क्षण-भङ्गि करोति

चेद् अहह कष्टम् अपण्डितता विधेः ||92||

पत्रं नैव यदा करीर-विटपे दोषो वसन्तस्य किम्

नोलूकोऽप्यवओकते यदि दिवा सूर्यस्य किं दूषणम् |

धारा नैव पतन्ति चातक-मुखे मेघस्य किं दूषणम्

यत् पूर्वं विधिना ललाट-लिखितं तन् मार्जितुं कः क्षमः ||93||

नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा

विधिर्वन्द्यः सोऽपि प्रतिनियत-कर्मैक-फलदः |

फलं कर्मायत्तं यदि किम् अमरैः किं च विधिना

नमस्तत्-कर्मभ्यो विधिरपि न येभ्यः प्रभवति ||94||

ब्रह्मा येन कुलालवन् नियमितो ब्रह्माड-भाण्डोदरे

विष्णुर्येन दशावतार-गहने क्षिप्तो महा-सङ्कटे |

रुद्रो येन कपाल-पाणि-पुटके भिक्षाटनं कारितः

सूर्यो भ्राम्यति नित्यम् एव गगने तस्मै नमः कर्मणे ||95||

नैवाकृतिः फलति नैवा कुलं न शीलं

विद्यापि नैव न च यत्न-कृतापि सेवा |

भाग्यानि पूर्व-तपसा खलु सञ्चितानि

काले फलन्ति पुरुषस्य यथैव वृक्षाः ||96||

वने रणे शत्रु-जलाग्नि-मध्ये

महार्णवे पर्वत-मस्तके वा |

सुप्तं प्रमत्तं विषम-स्थितं वा

रक्षन्ति पुण्यानि पुराकृतानि ||97||

या साधूंश्च खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणः

प्रत्यक्षं कुरुते परीक्षम् अमृतं हालाहलं तत्-क्षणात् |

ताम् आराधय सत्-क्रियां भगवतीं भोक्तुं फलं वाञ्छितं

हे साधो व्यसनैर्गुणेषु विपुलेष्व् आस्थां वृथा मा कृथाः ||98||

गुणवद् अगुणवद् वा कुर्वता कार्य-जातं

परिणतिरवधार्या यत्नतः पण्डितेन |

अतिरभस-कृतानां कर्मणाम् आविपत्तेर्

भवति हृदय-दाही शल्य-तुल्यो विपाकः ||99||

स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनौघैः

सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधाम् अर्क-मूलस्य हेतोः |

कृत्वा कर्पूर-खण्डान् वृत्तिम् इह कुरुते कोद्रवाणां समन्तात्

प्राप्येमां कर्म्-भूमिं न चरति मनुजो यस्तोप मन्द-भाग्यः ||100||

मज्जत्व् अम्भसि यातु मेरु-शिखरं शत्रुं जयत्व् आहवे

वाणिज्यं कृषि-सेवने च सकला विद्याः कलाः शिक्षताम् |

आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नं परं

नाभाव्यं भवतीह कर्म-वशतो भाव्यस्य नाशः कुतः ||101||

भीमं वनं भवति तस्य पुरं प्रधानं

सर्वो जनः स्वजनताम् उपयाति तस्य |

कृत्स्ना च भूर्भवति सन्निधि-रत्न-पूर्णा

यस्यास्ति पूर्व-सुकृतं विपुलं नरस्य ||102||

को लाभो गुणिसङ्गमः किम् असुखं प्राज्ञेतरैः सङ्गतिः

का हानिः समय-च्युतिर्निपुणता का धर्म-तत्त्वे रतिः |

कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं

विद्या किं सुखम् अप्रवास-गमनं राज्यं किम् आज्ञा-फलम् ||103||

अप्रिय-वचन-दरिद्रैः प्रिय-वचन-धनाढ्यैः स्व-दार-परितुष्टैः |

पर-परिवाद-निवृत्तैः क्वचित् क्वचिन्मण्डिता वसुधा ||104||

कदर्थितस्यापि हि धैर्य-वृत्तेर्

न शक्यते धैर्य-गुणः प्रमार्ष्टुम् |

अधोमुखस्यापि कृतस्य वह्नेर्

नाधः शिखा याति कदाचिद् एव ||105||

कान्ताकटाक्ष-विशिखा न लुनन्ति यस्य

चित्तं न निर्दहति किप-कृशानुतापः |

कर्षन्ति भूरि-विषयाश्च न लोभ-पाशैर्

लोक-त्रयं जयति कृत्स्नम् इदं स धीरः ||106||

एकेनापि हि शूरेण

पादाक्रान्तं महीतलम् |

क्रियते भास्करेणैव

स्फार-स्फुरित-तेजसा ||107||

वह्निस्तस्य जलायते जल-निधिः कुल्यायते तत्-क्षणान्

मेरुः स्वल्प-शिलायते मृगपतिः सद्यः कुरङ्गायते |

व्यालो माल्य-गुणायते विष-रसः पीयूष-वर्षायते

यस्याङ्गेऽखिल-लोक-वल्लभतमं शीलं समुन्मीलति ||108||

लज्जा-गुणौघ-जननीं जननीम् इव स्वाम्

अत्यन्त-शुद्ध-हृदयाम् अनुवर्तमानाम् |

तेजस्विनः सुखम् असून् अपि सन्त्यजनति

सत्य-व्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ||109||