मुण्डकोपनिषद्

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.


प्रथम मुण्डके प्रथमः खण्डः द्वितीयः खण्डः द्वितीये मुण्डके प्रथमः खण्डः द्वितीयः खण्डः तृतीये मुण्डके  प्रथमः खण्डः द्वितीयः खण्डः

शान्तिपाठः
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।।भद्रं पश्येमाक्षभिर्जयत्राः।।स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिः।।व्यशेम देवहितं यदायुः।।स्वास्ति न इन्द्रो वृद्धश्रवाः।। स्वास्ति नः पूषा विश्ववेदाः।। स्वास्ति नस्तार्क्ष्यो अरिष्टनेमिः।। स्वास्ति न बृहस्पतिर्दधातु।।

ॐ शान्तिः शान्तिः शान्तिः।।

 

प्रथम मुण्डके प्रथमः खण्डः
ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह प्राह ॥१॥
अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम्।
स भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङिगसे परावराम् ॥२॥
शौनको ह वै महाशालोऽडंगरसं विधिवदुपसन्न: पप्रच्छ। कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति॥ ३ ॥

तस्मै स होवाच। द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च ।। ४ ।।

तत्रापरा ऋग्वेदो यजुर्वेद: सामवेदोऽथर्ववेद: शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते।।५।।

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षु:श्रोत्रं तदपाणिपादम्। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यभ्दूतयोज परिपश्यन्ति धीरा:।।६।।

यथोर्णनाभि: सृजते गृह्णते च यथा पृथिव्यामोषधय: सम्भवन्ति।

यथा सत: पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम्।।७।।

तपसा चीयते ब्रह्म ततोऽन्नभिजायते ।अन्नात्प्राणो मन: सत्यं लोका: कर्मसु चार्मतम् ।।८।।

य: सर्वज्ञ: सर्वविद्यस्य ज्ञानमयं तप: ।

तस्मादेतद् ब्रह्म नाम रुपमत्रं च जायते ॥९॥

इति प्रथम मुण्डके प्रथमः खण्डः ।।

प्रथम मुण्डके द्वितीयः खण्डः

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयों यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि ।
तान्याचरथ नियतं सत्कामा एष व: पन्था: सुकृतस्य लोके ॥१॥
यदा लेलायते ह्मर्चिः समिद्धे हव्यवाहने।
तदाज्यभागावन्तरेणाहुतीः प्रतिपादयेत्॥2॥
स्याग्निहोत्रमदर्शमपौर्णमासमचतुर्मास्यनाग्रयणमतिथिवर्जितं च ।
अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्त्सय लोकान् हिनस्ति ॥३॥

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिड्गिनी विश्वरुच्भ् च देवी लेलायमाना इति सप्त जिह्वा :॥४॥

ऐतुषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयों ह्याददायन् ।
तं नयन्त्येता: सूर्यस्य रश्मयों यत्र देवानां पतिरेकोऽधिवास: ॥५॥

एह्येहीति तमाहुतय: सुवर्चस: सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाचमभिवन्दन्त्योऽर्चयन्त्य एष व: पुण्य: सुकृतो ब्रह्मलोक: ॥६॥

प्लवा ह्येते अदृढा यज्ञरुपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥७॥

अविद्यायामन्तरे वर्तमाना: स्वयंधीरा : पण्डितं मन्यमाना: ।
जघन्यानां: परियन्ति मूढा अन्धेनैव नीयमाना यथानधा : ॥८॥

अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बाला: ।
यत्कर्मिणो न प्रवेदयन्ति रागात् तेनातुरा: क्षीणलोकाश्च्यवन्ते ॥९॥

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढा : ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतं वा विशन्ति ॥१०॥

तप: श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैच्यचर्यां चरन्त: ।
सूर्यद्वारेण ते विरजा : प्रयान्ति यत्रामृत: स पुरुषो ह्यव्ययात्मा ॥११॥

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृत: कृतेन ।
तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत् समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम् ॥१२॥

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय ।

येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम् ॥१३॥

इति प्रथम मुण्डके द्वितीयः खण्डः ।।

 

इति प्रथम मुण्डकं समाप्तम्।।

द्वितीय मुण्डके प्रथमः खण्
तदेतत्सत्यं यथा सुदीप्ताप्तावकाद् विस्फुलिड्ग: सहस्त्रश: प्रभवन्ते सरुपा :।
तथारक्षराद् विविधा: सोम्य भावा: प्रजायन्ते तत्र चैवापियन्ति ॥१॥

दिव्यो ह्यमूर्त : पुरुष: सबाह्याभ्यन्तरो ह्यज: ।
अप्राणो ह्यमना: शुभ्रो ह्यक्षरात् परत: पर: ॥२॥

एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिराप: पृथिवी विश्वस्य् धारिणी ॥३॥

अग्निर्मूधा चक्षुषी चन्द्रसूर्यो दिश: श्रोत्रे वाग् विवृताश्च वेदा : ।
वायु: प्राणो ह्रदयं विश्वमस्य पद्भ्यां ह्योष सर्वभूतान्तरात्मा ॥४॥

तस्मादग्रिः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम्।
पुमान रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरूषात् सम्प्रसूताः॥५॥

तस्मादृचः समा यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥६॥

तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसिछ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्य विधिश्च ॥७॥

सप्त प्राणाः प्रभवन्ति तस्मात् सप्तर्चिषः समिधः सप्त होमाः।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥८॥

अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः।
अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥९॥

पुरूष एवेदं विश्वं कर्म तपो ब्रहा परामृम्। एतद्यो वेद निहितं गुहायां
सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥१०॥

इति द्वितीय मुण्डके प्रथमः खण्डः।।


द्वितीयमुण्डके  द्वितीयः खण्डः

आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम्। एजत्प्राण-न्निमिषच्च यदेतज्जानथ सदसद्वेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥१॥

यदर्चिमद्यदणभ्योऽणुच यस्मिँल्लोका निहिता लोकिनश्च। तदेतदक्षंर ब्रह्म स प्राणस्तदु वाड्मनः। तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥२॥

धनुर्गृहीत्वौषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत।
आयम्य तद् भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥३॥

प्रणवो धनुः शरो ह्यात्म ब्रह्म तल्लक्ष्यमुच्यते।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्॥४॥

यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वेः ।
तमैवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥५॥

अरा इव रथनाभौ संहता यत्र नाड्यः.स एषोऽन्तश्चरते बहुधा जायमानः ॥
ओमित्यवं ध्यायथ आत्मानं।स्वस्ति वः पाराय तमसः परस्तात् ॥६॥

यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय।
तद्विज्ञानने परिपश्यन्ति धीरा आनन्दरूपमृंत यद् विभाति॥७॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥८॥

हिरणमये परे कोसे विरजं ब्रह्म निष्कलम्।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः॥९॥

न तत्र सूर्यो भाति न चन्द्रतारंक नेमा विद्युतो भान्ति कुतोऽयमग्निः।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥१०॥

ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्र्चोत्तेरण।
अधश्चोर्ध्व च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम्॥११॥

इति द्वितीयमुण्डके  द्वितीयः खण्डः ।।

इति  द्वितीय मुण्डकं समाप्तम्।।

 

तृतीय मुण्डके प्रथमः खण्ड

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नयो अभिचाकशीति॥१॥

समाने वृक्षे पुरूषो निमग्नोऽनीशया शोचति मह्यमानः।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः॥२॥

यदा पश्यः पश्यते रूक्मवर्ण कर्तारमाशं पुरूष ब्रह्मयोनिम्।
तदा विद्वान् पुण्यपापे विधूय निरञ्जः परमं साम्यमुपैति॥३॥

प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन् विद्वान भवते नातिवादी।
आत्मक्रिड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः॥४॥

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्।
अनतःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥५॥

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः।
येनाक्रमन्ति ऋषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम्॥६॥

बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूभ्मतंर विभातिं।
दूरात् कुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम्॥७॥

न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणआ वा।
ज्ञान प्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥८॥

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा॥९॥

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामन्।
तं तं लोकं जयतेतांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः ॥१०॥

इति तृतीय मुण्डके प्रथमः खण्ड ।।
 

तृतीय मुण्डके द्वितीयः खण्डः
स वेदैतत् परमं ब्रह्मधाम यत्र विश्व निहितं भाति शुभ्रम।
उपासते पुरूषं ये ह्यकामास्ते शुक्रमेतदितवर्तन्ति धीराः॥१॥

कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र।
पर्याप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः ॥२॥

नायमात्मा प्रवचनेन लभ्यों न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्॥३॥

नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात्।
एतैरूपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम॥४॥

सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानों वीतरागाः प्रशान्ताः।
ते सर्वगं सर्वतः प्राप्य धीरा युक्तामानः सर्वमेवाविशन्ति॥५॥

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥६॥

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु।
कर्माणि विज्ञानमयश्च आत्मा परेऽवय्ये सर्वे एकीभवन्ति॥७॥

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय।
तथा विद्वान नामरूपाद् विमुक्तः परात्परं पुरूषमुपैति दिव्यम्॥८॥

स यो ह वै तत्परमं ब्रह्म वेद ब्रह्म वेद ब्रह्मैव भवति, नास्याब्रह्मवित्कुले भवति। तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति॥९॥

तदेतदृचाभ्युक्तमक्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जह्वत एकर्षि श्रद्धयन्तः
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवत् यैस्तु चीर्णम् ॥१०॥

तदेतत् सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते।
नमः परमऋषिभ्यों नमः परमऋषिभ्यः ॥११॥
 

इति तृतीय मुण्डके द्वितीयः खण्डः।।

इति तृतीय मुण्डकं समाप्तम्।।

शान्तिपाठः
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।।भद्रं पश्येमाक्षभिर्जयत्राः।।स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिः।।व्यशेम देवहितं यदायुः।।स्वास्ति न इन्द्रो वृद्धश्रवाः।। स्वास्ति नः पूषा विश्ववेदाः।। स्वास्ति नस्तार्क्ष्यो अरिष्टनेमिः।। स्वास्ति न बृहस्पतिर्दधातु।।

ॐ शान्तिः शान्तिः शान्तिः।।

 

इति मुण्डकोपनिषत् समाप्ता।।