मनुस्मृतिः 

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

 

  द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः

द्वितीयोऽध्यायः।

2 / 1 विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः। हृदयेनाभ्युज्ञातो यो धर्मस्तं निबोधत।।1।।
2 / 2 कामात्माता न प्रशस्ता न चैवेहास्त्यकामता। काम्यो हि वेदाधिगमः कोमो वै यज्ञाः संकल्पसंभवाः।।
2 / 3 संकल्पमूलः कामो वै यज्ञाः सकंल्पसंभवाः। व्रतानि यमधर्माश्च सर्वे संकल्पजाः स्मृताः।।3।।
2 / 4 अकामस्य क्रिया काचिद् द्श्यते नेह कर्हिचित। यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितम्।।
2 / 5 तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम्। यथा संकल्पितांश्चेह सर्वान्कामान्समश्नुते।।
2 / 6 वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनस्तुष्टिरेव च।।           

2 / 7 यः कश्चित्कस्यचिद्धर्मो मनुना परिकीर्तितः। सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः।।
2 / 8 सर्वं तु समावेक्ष्येदं निखिलं ज्ञानचक्षुषा। श्रुतिप्रामाण्यतो विद्वानस्वधर्मे निविशेत वै।।
2 / 9 श्रुतिस्मृत्युदितं धर्ममनुतिष्ठनिहि मानवः। इह कीर्तिमवाप्नोति प्रत्य चानुत्तमं सुखम्।।
2 / 10 श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः। ते सर्वार्थेष्वमीमांस्ये ताभायां धर्मो हि निर्बभौ।।
2 / 11 योऽमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः। स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः।।
2 / 12 वेदः स्मृति सदाचारः स्वस्य च प्रयमात्मनः। एतच्चचुर्वधं प्राहुः साक्षाद्धर्मस्य लक्षणम्।।
2 / 13 अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते। धर्मं जिज्ञासमनानां प्रमाणं परम श्रुतिः।।
2 / 14 श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ। उभावपि हि तौ धर्मौ स्मगुक्तौ मनीषिभिः।।
2 / 15 उदितेऽनुदिते चैव समयैध्यषिते तथा। सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः।।
2 / 16 निषेकादिश्मानान्तो मन्त्रैर्यस्योदितो विधिः। तस्य शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्यचित्।
2 / 17 सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम्। तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते।।
2 / 18 तस्मिन्देशे य आचारः पारंपर्यक्रमागतः। वर्णानां स सदाचार उच्यते।।
2 / 19 कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः। एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः।।
2 / 20 एतद्देशप्रसूतस्य सकाशादग्रजन्मनः। स्वं स्वं चरित्रं शिक्षेरन्पृथिव्यां सर्वमानवाः।।
2 / 21 हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि। प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः।।
2 / 22 आ समुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात्। तयोरेवान्तर गिर्योरार्यावर्तं विदुर्बुधाः।।
2 / 23 कृष्णसारस्तु चरति मृगो यत्र स्वभावतः। स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः।।
2 / 24 एतान्द्विजातयो देशान्संश्रयोरन्प्रयत्नतः। शुद्रस्तु यस्मिन्कस्मिन्वा निवसेद् वृत्तिकर्शितः।।
2 / 25 एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता। सम्भवश्चास्य सर्वस्य वर्णधर्मान्निबोधत।।
2 / 26 वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्। कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च।।
2 / 27 गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः। बैजिकं गार्भिकं चैने द्विजानामपमृज्यते।।
2 / 28 स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः। महायज्ञैश्च ब्राह्मीयं क्रियते तनुः।।
2 / 29 प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते। मन्त्रवत्प्राशनं चास्य हिरणयमधुसर्पिषाम्।।
2 / 30 नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत्। पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते।।
2 / 31 मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम्। वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्।।
2 / 32 शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम्। वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम्।।
2 / 33 स्त्रीणां सुखोद्यमक्रूरं विस्पाष्टार्थं मनोहरम्। मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत्।।
2 / 34 चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात्। ष्ठेऽन्नप्रशने मासि यद्वेष्ट मङ्गलं कुले।।
2 / 35 चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात्।।
2 / 36 गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्। गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः।।
2 / 37 ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे। राज्ञो बलार्थिनः षष्ठे वैस्यस्येहार्थिनोऽष्टमे।।
2 / 38 आषोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते। आद्वाविंशात्क्षत्रबन्धोराचतुर्विंशतेर्विशः।।
2 / 39 अत ऊर्ध्वं त्रयोप्येते यथाकालमसंस्कृताः। सावित्रीपतिता व्रात्या भवल्त्यार्यविगर्हिताः।।
2 / 40 नैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित्। ब्राह्मान्यौनांश्च सम्बन्धानाचरेद्ब्राह्मणः सह।।
2 / 41 कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः। वसीरन्नानुपूर्व्येण शाणक्षौमविकानि च।।
2 / 42 मौञ्जी त्रिवत्समा श्लक्ष्णा कार्यो विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी।।
2 / 43 मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः। त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा।।
2 / 44 कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत्। शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्।।
2 / 45 ब्राह्मणो बैल्वपालाशो क्षत्रियो वाटखादिरौ। पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः।।
2 / 46 केशान्तिको ह्राह्मणस्य दण्डः कार्यः प्रमाणतः। ललाटसंमितो राज्ञः स्यात्तु नासन्तिको विशः।।
2 / 47 ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः। अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः।।
2 / 48 प्रतिगृह्येप्सितं दण्डमुपस्थाप्य च भास्करम्। प्रदिक्षणं परीत्याग्निं चरेद्भैक्ष्यं यथाविधि।।
2 / 49 भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजोत्तमः। भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्।।
2 / 50 मातरं ला स्वसारं वा मातुर्वा भगिनीं निजाम्। भिक्षेत भिक्षां प्रथमं या जैनं नावमानयेत्।।
2 / 51 समाहृत्य तु तद्भैक्ष्यं यावदन्नममायया। निवेद्य गुरेवेऽश्नियादाचम्य प्राङ्मुखः शुचिः।।
2 / 52 आयुष्यं प्राङ्मुखो भुक्ते यशस्यं दक्षिणामुखः। श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङक्ते ह्युदङ्मुखः।
2 / 53 उपस्पृश्य द्विचो नित्यमन्नमद्यात्समाहितः। भुक्त्वा चोपस्पृशेत्सम्यगाद्भिः खानि च संस्पृशेत्।
2 / 54 पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्। दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः।।
2 / 55 पूजितं ज्यशनं नित्यं बलमूर्जं च यज्झति। अपूजितं तु तद्भुक्तमुभयं नायेदिदम्।।
2 / 56 नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैव तथान्तरा। नचैवात्यशनं कुर्यान्न चोच्छिष्टः क्वचिद्व्रजेत।।          

2 / 57 अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम्। अपुण्यं लोकविद्वि,्यं तस्मात्तत्परिवर्जयेत्।।
2 / 58 ब्राह्मेण विप्रस्तीर्थेन नित्यकामुपस्पृशेत। कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन।।
2 / 59 आङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचभते। कायमङ्गुलिमूलेऽग्ने दैवं पीत्र्यं तयोरधः।।
2 / 60 त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्तो मुखम्। खानि चैव स्पृशेदद्भिरात्मानं शिर एव च।।
2 / 61 अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित्। शौचेप्सुः सर्वदाचमेदेकान्ते प्रागुदङ्मुखः।।
2 / 62 हृद्गाभिः पूयते विप्रः कणठगाभिस्तु भूमिपधः। वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः।।
2 / 63 उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः। सव्ये प्रचीनआवीती निवीती कठ्णसज्जने।।
2 / 64 मेखलामजिनं दण्डमुपवीतं कमणडलुम्। अप्सु प्राश्य विनष्टानि गृह्णीतान्यानि मन्त्रवत्।।
2 / 65 केशान्तः षोजशे वर्षे ब्रह्णणस्य विधीयते। रान्यवन्धोर्द्वाविंशे वैश्यस्य ह्यधिके ततः।।
2 / 66 अमन्क्षिका तु कार्येयं स्त्रीणामावृदशेषतः। संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम्।।
2 / 67 वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः। पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया।।
2 / 68 एष प्रक्तो द्विजातीनामौपनायनिको विधिः। उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत।।
2 / 69 उपनीय गुरुः शिष्यं शित्रयेच्छौचमादितः। आचारमग्निकार्यं च संध्योपासनमेव च।।
2 / 70 अध्यष्यमाणस्त्वाचान्ते यथाशास्त्रमुदङ्मुखः। ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितेन्द्रियः।।
2 / 71 ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा। संहत्य हस्तावध्ययं स ही ब्रह्माञ्जलिः स्मृतः।।
2 / 72 व्यत्यसतपाणिना कार्यमुपसंग्रहणं गुरोः। सव्यतेन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः।।
2 / 73 अध्येष्यमाणं तु गुरुर्नित्यकामतन्द्रितः। अधीष्व भो इति ब्रयाद्विरोमोऽस्त्विति चारमेत।।
2 / 74 ब्रह्मः प्रणवं कुर्यादादावन्ते च सर्वदा। स्रवत्यनोंकृतं पूर्वं पुस्ताच्च विशीर्यति।।
2 / 75 पाक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः। प्राणायामैस्त्रिभिः पूतस्तत ओंकारमर्हति।।
2 / 76 अकारं चाप्युकारं च मकारं च प्रजापतिः। वेदत्रयान्निरदुहद्भुर्भुवःस्वरितीति च।।
2 / 77 त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत्। तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः।।
2 / 78 एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम्। संध्योर्वेदविद्विप्रो वेदपुण्येन युज्यते।।
2 / 79 सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः। महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते।।
2 / 80 एतयर्चा विसंयुक्तः कालं च क्रयया स्वया। ब्रह्मक्षत्रियविट्योनिर्गर्हणां याति साधुषु।।
2 / 81 ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः। ब्रपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम्।।
2 / 82 योऽधीतेऽहन्येतांस्त्रीणि वर्षाण्यतन्द्रितः। सब्रह्म परमभ्येति वायुभीतः खमूर्तिमान्।।
2 / 83 एकाक्षरं परं ब्रह्म प्राणायामः परं तपः। सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते।।
2 / 84 क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रयाः। अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः।।
2 / 85 विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः। उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः।।
2 / 86 ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः। सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम्।।
2 / 87 जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः। कुर्यादन्यत्र वा कुर्यान्मैत्रो ब्रह्मण उच्यते।।
2 / 88 इन्द्रियाणां विचरतां विषयंष्वपहारिषु। संयमे यत्नमातिष्ठेद्विद्वन्यन्तेव वाजिनाम्।।
2 / 89 एकादशंन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः। तान् सम्यकप्रवक्ष्यामि यथावदनुपूर्वशः।।
2 / 90 श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी। पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता।
2 / 91 बुद्धिन्द्रियाणि पञ्चैषां श्रोत्रादीन्यदुपूर्वशः। कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते।।
2 / 92 एकादशं मनो ज्ञेयं स्वगुणेवोभयैत्मकम्। यस्मिञ्जिते जितावेतौ भवतः पञ्चकौ गणौ।।
2 / 93 इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम्। संनियम्य तु तान्येव ततः सिद्धिं नियच्छति।।
2 / 94 न चातु कामः कमामानामुभोगेन शाम्यति। हविषा कृष्णवर्त्मेव एवाभुवर्धते।।
2 / 95 यशचैतान्प्रावप्तुयात्सर्वान्यश्चैतान्कवलांस्त्यजेत्। प्रापणात्सर्वकामावां परित्यागो विशिष्यते।
2 / 96 न तथैतान् शक्यन्ते संनियन्तुमसेवया। विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः।।
2 / 97 वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च। न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचत्।।
2 / 98 श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः। न हृष्यति ग्वायति वा स विज्ञेयो जितेन्द्रियः।।
2 / 99 इन्द्रियाणां तु सर्वेषां यत्येकं क्षरतीन्द्रियम्। तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम्।।
2 / 100 वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा। सर्वान्संसाधयेदर्थानक्षिण्वन्योगतस्तनुम्।।
2 / 101 पूर्वां संध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात्। पश्चिमां तु समासीनः सम्यगृक्षविभावनात्।।
2 / 102 पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति। पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम्।।
2 / 103 न तिष्ठति तु यः पूप्वां नोपास्ते यश्च पश्चिमाम्। स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्वजकर्मणः।।          

2 / 104 अपां समीपे नियतो नैत्यकं विधिमास्थितः। सावित्रीमप्यधीयीत गत्वारण्यं समाहितः।।
2 / 105 वेदोपकरणं जैव स्वाध्यये चैव नैत्यके। नानुरोधोस्त्यनध्याये होममन्त्रेषु चैव हि।।
2 / 106 नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्म-तम्। ब्र्माहुतिहुतं पुण्यमध्यायवषट्कृतम्।।
2 / 107 यः स्वाध्यायमधीतेऽब्दं विधिना नयतः शुचिः। तसय नित्यं क्षरत्येष पयो दधि घृतं मधु।।
2 / 108 अग्नीन्धनं भैक्षचर्यामधः शय्यां गुरोर्हितम्। आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः।।
2 / 109 आचार्यपुत्रः शुश्रूषूर्ज्ञानदो धार्मिकः शुचिः। आप्तः शक्तोऽर्थदऋ साधुः स्वोऽद्य़ाप्या दश धर्मतः।।
2 / 110 नापृष्टः कस्यचिद्द्ब्रूयान्न चान्यायेन पृच्छतः। जानन्नपि हि मेधावी जडवल्लोक आचरेत्।।
2 / 111 अधर्मेण च यः प्राह यश्याधर्मेण पृच्छति। तयोरन्यतरः प्रैति विद्वेषं विधिगच्छति।।
2 / 112 धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा। तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे।।
2 / 113 विद्ययैव समं कामं कर्तव्यं ब्रह्मवादिना। आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत्।।
2 / 114 विद्या ब्राह्मणेत्याह शेवधिष्टेऽस्मि रक्ष माम्। असूयकाय मां मादस्तथा स्यां वीर्यवत्तमा।।
2 / 115 यमेव तु शुचिं विद्यान्नयतब्रह्मचारिणम्। तसमै मां ब्रूहि विप्राय निधिपायाप्रमादिने।।
2 / 116 ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात्। स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते।।
2 / 117 लौकिकं वैदिकं वापि तथाद्यात्मिकमेव च। आददीत यतो ज्ञानं तं पूर्वममिवादयेत्।।
2 / 118 सावित्रीमात्रसारोऽपि वरं प्रप्रः सुयन्त्रितः। नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी।।
2 / 119 शय्यासनेऽध्याचरिते श्रेयसा न समाविशेत्। शय्यासनस्थश्चैवैनं प्रत्युत्थायाभिवादयेत्।।
2 / 120 ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूलः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्ये।।
2 / 121 अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्।।
2 / 122 अभावादात्परं विप्रो ज्यायांसमभिवादयन्। असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत्।।
2 / 123 नामधेयस्य ये केचिदभिवादं न जानते। तान्प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वस्तथैव च।।
2 / 124 भोः शब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने। नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः।।
2 / 125 आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः।।
2 / 126 यो न वेत्त्यभुवादस्य विप्रः प्र्यभिवादनम्। नाभिबाद्यः स विदुषा यथा शूद्रस्तथैव सः।।
2 / 127 ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्। वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च।।
2 / 128 अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत्। भोभवत्पुर्वकं त्वेनमभिभाषेत धर्मवित्।।
2 / 129 परपत्नी तु या स्त्री स्यादसंबन्धा य योनितः। तां ब्रूयाद्भवतूत्येवं सुभगे भगिनीति च।।
2 / 130 मातुलांश्च पितृव्यांश्च श्वशुरानृत्वियो गुरून्। असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः।।
2 / 131 समातृष्वसा मातुलानी श्वश्रूरथ पुतृष्वसा। संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया।।
2 / 132 भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि। विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः।।
2 / 133 पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि। मातृपद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी।।
2 / 134 दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम्। त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु।।
2 / 135 ब्रह्मणं दशवर्षं दु शतवर्षं तु भूमिपम्। पितापुत्रौ विजानीयीद्ब्राह्मणस्तु तयोः पिता।।
2 / 136 वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी। एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम्।।
2 / 137 पञ्चानां त्रषु वर्णेषु भूयांसि गुणवन्ति च। यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः।।
2 / 138 चक्रिणो दशमीस्थस्य रोघिणो भारिणः स्त्रियाः। स्नातकस्य च राज्ञाश्च पन्था देयो वरस्य च।।
2 / 139 तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ। राजस्नातकयोश्चैव स्नातको नृपमानभाक्।।

2 / 140   उपनीयं तु यः शिष्यं वेदमध्यापयेद्विजः। संकल्पं सरहस्यं च तमाचार्यं प्रचक्षते।।
2 / 140 एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः। योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते।।
2 / 141 निषेकादीनि कर्माणि यः करोति यथाविधी। संभावयति चान्नेन स विप्रो गुरुरुच्यते।।              

2 / 142 अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान्। यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते।।
2 / 143 य आवृमोत्यवितथं ब्रह्मणो श्रवणावुभौ । स माता स पिता ज्ञेयस्तं नद्रुह्येत्कदाचन।।
2 / 144 उपाध्यायान्दशाचार्य आचार्याणां शतं पिता। सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते।।
2 / 145 उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता। ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम्।।
2 / 146 कामान्माता पिता चैनं यदुत्पादयतो मिथः। संभूतिं तस्य तां विद्याद्यद्योनावभिजायते।।
2 / 147 आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साजरामरा।।
2 / 148 अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः। तमपूह गुरं विद्याश्रुतोपक्रियया तया।।
2 / 149 ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता। बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः।।
2 / 150 अध्यापयामास पितॄञ्शिशुरङ्गिरसः कविः। पुत्रका इतिहोवाच ज्ञानेन परिगृह्य तान्।।
2 / 151 ते तमर्थमपृच्चन्त देवानागतमन्यवः। देवाश्चैतानसमेत्योचुर्न्याय्यं वः शिशुरुक्तवान्।।
2 / 152 अज्ञो भवति वै बालः पिता भवति मन्त्रदः। अज्ञं हि बालमित्याहुः पुतेत्येव तु मन्त्रदम्।।
2 / 153 न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः। ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्।।
2 / 154 विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियणां तु वीर्यतः। वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः।।
2 / 155 न तेन वृद्धो भवति येनास्य पलितं शिरः। यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः।।
2 / 156 यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः। यश्च विप्रो॥नधीयानस्त्रयस्ते नाम बिभ्रति।।
2 / 157 यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला। यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः।।
2 / 158 अहिंसयैव भूतानां कार्यं श्रेयोनुशासनम्। वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता।।
2 / 159 यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा। स वै सर्वमवाप्नोति वेदान्तोपगतं फलम्।।
2 / 160 नारुंतुदः स्यादार्तोऽपि र परद्रोहकर्मधीः। ययास्योद्विजते वाचा नालोक्यां तामुदीरयेत्।।
2 / 161 संमानाद्ब्राह्मणो नित्मुद्विजेत विषादिव। अम-स्येव चाकाङ्क्षेदवमानस्य सर्वदा।।
2 / 162 सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते। सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति।।
2 / 163 अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः। गुरौ वसन्संचिनुयाद्ब्रह्माधिगमिकं तपः।।
2 / 164 तपोविशेषैर्विविधैर्व्रतैश्च विधिचौदितैः। वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना।।
2 / 165 वेदमेव सदाभ्यस्येत्तपस्तप्स्यान्द्विजोत्तमः। वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते।।
2 / 166 आ हैव स नखाग्रेभ्यः परमं तप्यते तपः। यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोन्वहम्।।
2 / 167 योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम्। स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः।।
2 / 168 मातुरग्रेऽधिजननं मौञ्जिबन्धने। तृतीयं यज्ञदीक्षायां द्विचस्य श्रुतिचोदनात्।।
2 / 169 तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम्। तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते।।
2 / 170 वेदप्रदानादाचार्यं पितरं परचक्षते । न ह्यस्मिन्युज्यते कर्म किंचिदामौञ्जिबन्धनात्।।
2 / 171 आभिव्याहारयेद्ब्रह्म स्वधानिनयानादृते। शूद्रेण हि समस्तावद्यावद्वेदे न जायते।।           

2 / 172 कृतोपनयनस्यास्य व्रतादेशनमिष्यते। ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम्।।
2 / 173 यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला । यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि। सेवेतेमांस्तु नियमानब्रह्मचारी गुरौ वसन्। सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः।।
2 / 174 नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम्। देवताभ्यर्चनं चैव समिदाधानमेव च।।
2 / 175 वर्जयेन्मधु मांसं च गन्धं माल्यं रसान्स्त्रियः। शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम्।।
2 / 176 अभ्यङ्गमञ्जनं चाक्ष्णोरुपानचछत्रधारणम्। कामं क्रोधं च लोभं च नर्तनं गीतवादनम्।।
2 / 177 द्यूतं च जनवादं च परिवादं तथानृतम्। स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च।।
2 / 178 एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्वचित्। कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमात्मनः।।
2 / 179 स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः। स्नात्वार्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत्।।
2 / 180 उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान्। आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत्।।
2 / 181 वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु। ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतेऽन्वहम्।।
2 / 182 गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु। अलाभे त्वल्यगेहानां पूर्वं पूर्वं विवर्जयेत्।।
2 / 183 सर्वं वापि चरेद्ग्रामं पूर्वोक्तानामसंभवे। नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत्।।
2 / 184 दूरादाहृत्य समिधः संनिदध्याद्विहायसि। सायंप्रतश्च जुहुयात्ताभिरग्निमतन्द्रितः।।
2 / 185 अकृत्वा भैक्षचरणमसमिध्य च पावकम्। अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत्।। भैक्षेण वर्तयेन्नत्यं नैकान्नादी भवेद्व्रती। भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता।।
2 / 186 व्रतवद्देवदैवत्ये पित्र्ये कर्मम्यथर्षिवत्। काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते।।
2 / 187 ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः। राजन्यवैश्ययोस्त्वैवं नैतत्कर्म विधीयते।।
2 / 188 चोदितो गुरुणा नित्यमप्रचोदित एव वा। कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च।।
2 / 189 शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च। नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम्।।
2 / 190 नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंयतः। आस्यतामिति चोक्तः सन्नसीताभिमुखं गुरोः।।
2 / 191 हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ। उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत्।।
2 / 192 प्रतिश्रवणसेभाषे शयानो न समाचरेत्। नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः।।
2 / 193 आसीनस्य स्थितः कुर्यादभिच्छंस्तु तिष्ठतः। प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः।।
2 / 194 पराङ्मुखस्याभिमुखो दूर्स्थस्यैत्य चान्तिकम्। प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः।।
2 / 195 नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ। गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत्।।
2 / 196 नोदाहरेदस्य नाम परोक्षमपि केवलम्। न चैवस्यनुकुर्वीत गतिभाषितचेष्टितम्।।
2 / 197 गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते। कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोन्यतः।।
2 / 198 गुरोर्यत्र परिवादो निन्दा वापि प्रवर्तते। कर्णौ पिधातव्यौ गन्तव्यं वा ततोऽन्यतः।।
2 / 199 परीवादात्खरो भवति श्वा वै भवति निन्दकः। पिरभोक्ता कृमिर्भवति कीटो भवति मत्सरी।।
2 / 200 दूरस्थो नार्चयेतेनं न क्रुद्धो नान्तिके स्त्रियाः। यानासनस्थश्चैवैनमवरुह्याभिवादयेत्।।
2 / 201 प्रतिवातेऽनुवाते च नासीत गुरुणा सह। असंश्रवे चैव गुरोर्न किंचिदपि कीर्तयेत्।।
2 / 202 गोऽश्वोष्ट्रयानप्रासादस्रस्तेरेषु कटेषु च। आसीत गुरुणा सार्धं शिलाफलकनौषु च।।        

2 / 203 गुरोर्गुरौ सन्निहिते गुरुवद्धत्तिमाचरेत्। न चानिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत्।।
2 / 204 विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु। प्रतिषेधस्त्सु चाधर्मान्हितं चोपदिशत्स्वपि।।
2 / 205 श्रेयःसु गुरुवद्धृत्तिं नित्यमेव समाचरेत्। गुरुपुत्रेषु चार्येषु चगुरोश्चैव स्वबन्धुषु।।
2 / 206 बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि। अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति।।
2 / 207 उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने। न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम्।।
2 / 208 गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः। असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः।।
2 / 209 अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च। गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम्।।
2 / 210 गुरुपत्नी तु युलतिर्नाभिवाद्येह पादयोः। पूर्णविंशितवर्षेण गुणदोषौ विजानता।।
2 / 211 स्वभाव एष नारीणां नराणामिह दूषणम्।अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः।।
2 / 212 अविद्वांसमलं लोके विद्वांसमपि वा पुनः। प्रमदा ह्युत्पथं नेतुं कामक्रधवशानुगम्।।
2 / 213 मात्रा स्वस्त्रा दुहित्रा वा न विविक्तासनो भवेत्। बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति।।
2 / 214 कामं तु गुरुपत्नीनां युवतीनां युवा भुवि। विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन्।।
2 / 215 विप्रोष्य पादग्रहणमन्वहं चाभिवादनम्। गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन्।।
2 / 216 यथा खनन्खनित्रेण नरो वार्यधिगच्छति। तथा गुरुगतां विद्यां शुश्रुषुरधिगच्छति।।
2 / 217 मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः। नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदित्क्वचित्।
2 / 218 तं चेदभ्युदियात्सूर्यः शयानं कामचारतः। निमलोदेद्वाप्यविज्ञानाज्जन्नुपवसेद्दिनम्।।
2 / 219 सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः। प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा।।
2 / 220 आचम्य प्रयतो नित्यमुभे संध्ये समाहितः। शुचौ देशे जपञ्जप्यमुपासीत यथाविधि।।
2 / 221 यदि स्त्री यद्यवरजः श्रेयः किंचित्समाचरेत्। तत्सर्वमाचरेद्युक्तो यत्र वास्य रमेन्मनः।।
2 / 222 धर्मार्थोवुच्यते श्रेयः कामार्थौ धर्म एव च। अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः।।
2 / 223 आचार्यश्च पिता चैव माता भ्राता च पूर्वजः। नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः।।
2 / 224 आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः। माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः।।
2 / 225 यं मातापितरौ क्लेशं सहेते सेभवे नृणाम्। न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि।।
2 / 226 तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा। तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते।।
2 / 227 तेषाम त्रयाणां शुश्रूषा परमं तप उच्यते। न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत्।।
2 / 228 त एव हि त्रयो लोकास्त एव त्रय आश्रमाः। त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः।।    

2 / 229 पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः। गुरुराहवनीयस्तु साग्नित्रेता गरीयसी।।
2 / 230 त्रिष्वप्रमाद्यन्नेतेषु त्रींल्लोकान्विजयेद्गृही। दीप्यमानः स्ववपुषा देववद्दिवि मोदते।।
2 / 231 इमं लोकं मातृभक्त्या पितृभ्क्त्या तु मध्यमम्। गुरुशुश्रूष्या त्वेवं ब्रह्मलोकं समश्नते।।
2 / 232 सर्वे तस्यादृता धर्मो यस्यैते त्रय आदृताः। अनादृतास्तु यस्यैते सर्वासतस्याफलाः क्रियाः।।
2 / 233 यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत्। तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः।।
2 / 234 तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत्। तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः।।
2 / 235 त्रिष्वेष्वितिकृत्यं हि पुरुषस्य समाप्यते। एष धर्मः परः साक्षादुपधर्मोऽन्यः।।
2 / 236 श्रद्दधानः शुभां विद्यामाददीतावरादपि। अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि।।
2 / 237 विषादप्यम-तं ग्राह्यं बालादपि सुभाषितम्। अमित्रादिपि सद्वृत्तमम्धायदपि काञ्चनम्।।
2 / 238 स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम्। विविधानि च शिल्पानि समादेयानि सर्वतः।।
2 / 239 अब्राह्मणादध्ययनमापत्काले विधीयते। अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः।।
2 / 240 नाब्राह्मणे गुरौ शिष्यो वासमातियन्तिकं वसेत्। ब्राह्मणे चाननूचाने काङक्षन्गतिमनुत्तमाम्।।
2 / 241 यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले। युक्तः परिचरेदेनमाशरीरविमोक्षणात्।।
2 / 242 आ समाप्तेः शरीरस्य यस्तु शूश्रूषते गुरुम्। स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम्।।
2 / 243 न पूर्वं गुरवे किंचिदुपकुर्वीत धर्मवित्। स्नास्यंस्तु गुरुणाज्ञाप्तः शक्त्या गुर्वर्थमाहरेत्।।
2 / 244 क्षेत्रं हिरण्यं गामश्वं छत्रोपाहनमासनम्। धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत्।।
2 / 245 आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते। गुरुदारे सपिण्डे वा गुरुवद्धृत्तिमाचरेत्।।
2 / 246 एतेष्वविद्यमानेषु स्नानासनविहारवान्। प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः।।
2 / 247 एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः। स गच्छत्युत्तमस्थानं न चेहाजायते पुनः।।
इति मनुस्मृतौ द्वितीयोऽधायः

अथ तृतीयोऽध्यायः        
 Go To Top       ऊपर जाने के लिये

3 / 1 षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम्। तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा।।
3 / 2 वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्। अविप्लुतब्रह्मचर्यो गृहश्ताक्षममावसेत्।।
3 / 3 तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुं ।स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा।।
3 / 4 गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि। उद्वहेत द्वियो भार्यां सवर्णां लक्षणान्विताम्।।
3 / 5 असपिण्डा च या मातुरसगोत्रा च या पितुः। सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने।।
3 / 6 महान्त्यपि समृद्धानि गोजाविधनधान्यतः। स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत्।।
3 / 7 हीनक्रियं निष्पुरुषं निश्छन्दो सोमशार्शसम्। क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च।।
3 / 8 लोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम्। नोलोमिकां नातिलोमां न वाचाटां न पिङ्गलाम्।।
3 / 9 नर्क्षवृङनदीनाम्नीं नान्त्यपर्वतनामिकाम्। न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम्।।
3 / 10 अव्यङ्गाङ्गीं सौम्यनाम्नीं हेसवारणगामिनीम्। तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम्।।
3 / 11 यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता। नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया।।
3 / 12 सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि। कामतस्तु प्रवृत्तानामिमामः स्युः क्रमशो वराः।।
3 / 13 शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते। ते च स्वा चैव राज्ञश्च ताश्चस्वा चाग्रजन्मनः।।
3 / 14 न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः। कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते।।
3 / 15 हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः। कुलान्येव नयन्त्याशु ससंतानानि शूद्रताम्।।
3 / 16 शूद्रवेदी पतत्यत्रेरुतथ्यतनयस्य च। शौनकस्य सुतोत्पत्या तदपत्यतया भृगोः।।
3 / 17 शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम्। जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते।।
3 / 18 दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु। नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति।।
3 / 19 वृषलीफेनपीतस्य नि)श्वासोपहृतस्य च। तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते।।
3 / 20 चतुर्णामपि वर्णानां प्रेत्य चैह हिताहिनान्। अष्टाविमान्समासेन स्त्रीविवाहान्नबोधत।।        

3 / 21 ब्रह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः। गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः।।
3 / 22 यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ। तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान्।।
3 / 23 षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान्। विट्शूद्रयोस्तु तानेव विद्याद्धर्म्यानराक्षसान्।।
3 / 24 चतुरो ब्राह्मण्स्याद्यानप्रस्तान्कवयो विदुः। राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः।।
3 / 25 पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ समृताविह। पैशाचश्चासुरश्चैव न कर्तव्यौ कदाचन।।
3 / 26 पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ। गान्थर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ।।
3 / 27 आच्छाद्य चार्चयित्वा च क्षुतिशीलवते स्वयम्। आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः।।
3 / 28 यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते। अलंकृत्य सुतादानं दैवं धर्मं प्रचक्षते।।
3 / 29 एकं गोमिथुनं द्वे वा वरादादाय धर्मतः। कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते।।
3 / 30 सहोभौ चरतां धर्ममिति वाचानुभाष्य च। कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः।।
3 / 31 ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः। कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते।।
3 / 32 इच्छयान्योन्यसंयोगः कन्यायाश्च वर्स्य च। गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः।।
3 / 33 हृत्वा छित्वा च भित्वा च क्रोशन्तीं रुदतीं गृहात्। प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते।।
3 / 34 सुप्तां मत्तां प्रमत्तां रहो यत्रोपगच्छति। स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः।।
3 / 35 अद्भरेव द्विजाग्र्याणां कल्यादानं विशिष्यते। इतरेषां तु वर्णानामितरेतरकाम्यया।।
3 / 36 यो यस्यैषां विवाहानां मनुना कीर्ततो गुणः। सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम।।
3 / 37 दश पूर्वान्परान्वंश्यानात्मानं चैकविंशकम्। ब्राह्मीपुत्रः सुकृतकृन्मोचयेदेनसः पितॄन्।।
3 / 38 दैवोढाजः सुतश्चैव सप्त परावरान्। आर्षोढाजः सुतस्त्रींस्त्रीन्षट्षट् कायोढजः सुतः।।
3 / 39 ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः। ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः।।
3 / 40 रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः। पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः।।
3 / 41 इतरेषु तु शिष्टेषु नृशंसानृतवादिनः। जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः।।
3 / 42 अनिन्दितैः स्त्रीविवाहैरविद्या भवति प्रजा। निन्दितैर्निन्दिता नॄणां तसमान्निन्द्यान्विवर्जयेत्।।        

3 / 43 पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते। असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ।।
3 / 44 शरः क्षणियया ग्राह्यः प्रतोदो वैश्यकन्यया। वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने।।
3 / 45 ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा। पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया।।
3 / 46 ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः। चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः।।
3 / 47 तासामाद्याश्चतस्रस्तु निन्दिताकादशी च या। त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः।।
3 / 48 युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु। तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम्।।
3 / 49 पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः। समेऽपुमान्पुंस्त्रियौ वा क्षीणेऽल्पे च विपर्ययः।।
3 / 50 निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन्। ब्रह्मचार्येव भवति यत्रतत्राश्रमे वसन्।।
3 / 51 न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि। गृह्णंश्छुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी।।
3 / 52 स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः। नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम्।।
3 / 53 आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्। अल्पोऽप्येवं महान्वपि विक्रयस्तावदेव सः।।
3 / 54 यासां नाददते शुल्कं ज्ञातयो न स विक्रयः। अर्हमं तत्कुमारीणामानृशंस्यं च केवलम्।।
3 / 55 पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा। पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः।।
3 / 56 यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः। यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः।।
3 / 57 शोचचन्ति जामयो यत्र विश्यत्याशु तत्कुलम्। न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा।।
3 / 58 जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः। तानि कृत्याहतानीव विनश्यन्ति समन्ततः।।
3 / 59 तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः। भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च।।
3 / 60 संतुष्टो भार्यया भर्ता भर्त्रा तथैव च। यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम्।।
3 / 61 यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत्। अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते।।
3 / 62 स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलम्। तस्यां त्वरोचमानायां सर्वमेव न रोचते।।
3 / 63 कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च। कुलान्यकुलतां यान्ति ब्राह्ममातिक्रमेण च।।
3 / 64 शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः। गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया।।
3 / 65 अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम्। कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः।।
3 / 66 मन्त्रस्तु समृद्धानि कुलाल्यल्पधनान्यपि। कुलसंख्यां च गच्छन्ति कर्षन्ति च महद्यशः।।
3 / 67 वैवाहिकेऽग्वौ कुर्वात गृह्यं कर्म यथाविधि। पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही।
3 / 68 पञ्च सूना गृहस्तस्य चुल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन्।।        

3 / 69 तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः। पञ्च क्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम्।।
3 / 70 अध्यापनं ब्रह्मयज्ञः वितृयज्ञस्तु तर्पणम्। होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्।।
3 / 71 पञ्चैतान्यो महायज्ञान्न हापयति शक्तितः। स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते।।
3 / 72 देवतातिथिभृत्यानां पितॄणामात्मनश्च यः। न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति।।
3 / 73 अहुतं च हुतं चैव तथा प्रहुतमेव च। ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान्प्रचक्षते।।
3 / 74 जपोऽहुतो तुतो होमः प्रहुतो भौतिको बलिः। ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम्।।
3 / 75 स्वाध्याये नित्ययुक्तः स्याद्दैवे चैवेह कर्मणि। दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम्।।
3 / 76 अग्नौ प्रास्ताहुतिः सम्यगादित्यमुतिष्ठते। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।।
3 / 77 यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः। तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः।।
3 / 78 यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम्। गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही।।
3 / 79 स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता । सुखं चेहेच्छता नित्यं योऽधार्यो दुर्बलेन्द्रियैः।।
3 / 80 ऋषयः पितरो देवा भूतान्यतिथयस्तथा । आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता।।
3 / 81 स्वाध्यायेनार्चयेतर्षीन्होमैर्देवान्यथाविधि। पितॄन्श्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा।।
3 / 82 कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा। पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन्।।
3 / 83 एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयज्ञिके। न चैवात्राशयेत्कंचिद्वैश्वदेवं प्रति द्विजम्।।
3 / 84 वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम्। आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम्।।
3 / 85 अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः। विश्वभ्यशचैव देवेभयो धन्वन्तरय एव च।।
3 / 86 कुह्वै चैवानुमत्यै च प्रजापतय एव च। सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः।।
3 / 87 एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम्। इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत्।।
3 / 88 मरूद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि। वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत्।।
3 / 89 उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः। ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत्।।
3 / 90 विश्वेभ्यश्तैव देवेभ्यो बलिमाकाश उत्क्षिपेत्। दिवाचरेभ्यो भूतेभ्यो नंक्तचारिभ्य एव च।।       

3 / 91 पृष्ठवास्तुनि कुर्वीततबलिं सर्वात्मभूतये । पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत्।।
3 / 92 शुनां च पतितानां च श्वपचां पापरोगिणाम्। वायसानां कृमीणां च शनकैर्निर्वपेद्भुवि।।
3 / 93 एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति। स गच्छति परं स्थानं तेजोमूर्तिपथर्जुना।।
3 / 94 कृत्वातद्बलिकर्मैवमतिथिं पूर्वमाशयेत्। भिक्षां च भिक्षवे दद्याद्विधवद्ब्रह्मचारिणे।।
3 / 95 यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरोः । तत्पुण्यफलमाप्नोति भिक्षां दत्वा द्विजो गृही।।
3 / 96 भिक्षामप्युदपात्रं वा सकृत्य विधिपूर्वकम्। वेदतत्त्वार्थविदुषे ब्राह्ममायोपपादयेत्।।
3 / 97 नश्यन्ति हव्यकव्यानि नराणामविजानताम्। भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः।।
3 / 98 विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु। निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात्।।
3 / 99 संप्राप्ताय त्वतिथये प्रदत्यादासनेदके। अन्नं चैव यथाशक्ति सत्कृत्य विथिपूर्वकम्।।
3 / 100 शिलाववप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः। सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन्।।
3 / 101 तृणानि भूमिरूदकं वाक्चतुर्थी च सूनृता। एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन।।
3 / 102 एकरात्रं तु निसन्नतिथिर्ब्राह्मणः स्मृतः। अनित्यं हि स्थितो यसमात्तस्मादतिथिरुच्यते।।
3 / 103 नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा। उपस्थितं गृहे विद्याद्भार्या यत्राग्न्योऽपि वा।।
3 / 104 उपासते ये गृहस्थाः परपाकमबुद्धयः। तेन ते प्रत्य पशुतां व्रजन्त्यन्नादिदायिनाम्।।
3 / 105 अप्रोणोद्योऽतिथिः सायं सूर्योढो गृहमेधिना। काले प्राप्तास्त्वकाले वा नास्यानश्नन्गृहे वसेत्।।
3 / 106 न वै स्वयं तदश्नीयादनिथिं यन्न भोजयेत्। धन्यं यशस्यमायुष्यं स्वर्ग्यं वातिथिपूजनम्।।
3 / 107 आसनावसथौ शय्यामनुव्रज्यामुपासनाम्। उत्तमेषूत्तमं कुर्याद्धीने हीनं समे समम्।।
3 / 108 वैश्वदेवे तु निर्व-त्ते यद्यन्योऽतिथिराव्रजेत्। तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत्।।
3 / 109 न भोजनार्थं स्वे विप्रः कुलगोक्षे निवेदयेत्। भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते।।
3 / 110 न ब्राह्मणस्यत्वतिथिर्गृहे राजन्य उच्यते। वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च।।
3 / 111 यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत्। भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत्।।
3 / 112 वैश्यशद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ। भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन्।।
3 / 113 इतरानपि सखादिन् संप्रीत्या गृहमागतान्। सत्कृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया।।
3 / 114 सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः। अतिथिभ्योऽग्र एवैतान्भोजयेदविचारयन्।।
3 / 115 अदत्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः। स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः।।        

3 / 116 भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि। भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती।।
3 / 117 देवान-षीन्मिनुष्यांश्च पितॄन्गृह्याश्च देवताः। पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत्।।
3 / 118 अघं स केवलं भुङ्क्ते यः पचत्यात्मकारमात्। यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते।।
3 / 119 राजर्त्विक्स्नातकगुरून्प्रयश्वशुरमातुलान्। अह्हयेन्मधुपर्केण परिसंवत्सरात्पुनः।।
3 / 120 राजा च श्रोत्रियश्चैव यज्ञकर्मणयुपस्थितौ। मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितः।।
3 / 121 सायं त्वन्नस्य सिद्धिस्य पत्न्यमन्त्रं बलिं हरेत्। वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते।।
3 / 122 पितृयज्ञं तु निर्वर्त्य विप्रश्चेन्दुक्षयेऽग्निमान्। पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्।।
3 / 123 पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः। तच्चामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः।।
3 / 124 तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः। यावन्तश्चैव यैश्चान्नास्तान्प्रवक्ष्यम्यशेषतः।।
3 / 125 द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्रज्ञ वा। भोजयेत्सुसमृद्धोऽपि न प्रसज्येत विस्तरे।।
3 / 126 सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः। पञ्चैतान्विस्तरौ हन्ति तस्मान्नेहेत विस्तरम्।।
3 / 127 प्रथिता प्रतकृत्यैषा पुत्र्यं नाम विधुक्षये। तस्मिन्युक्तस्यैति नित्यं प्रत्कृतेयैव लौकिकी।।
3 / 128 श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः। अर्हत्तमाय विप्राय तस्मै दत्तं महफलम्।।
3 / 129 एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत्। पुष्कलं फलमाप्नोति नामन्त्रज्ञान्बहूनपि।।
3 / 130 दुरादपि परीक्षेत ब्राह्मणं वैदपारगम्। तीर्थं तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः।।
3 / 131 सहस्र हि सहस्राणामनृचां यत्र भुञ्जते। एकस्तान्मत्रवित्प्रतः सर्वानर्हति धर्मतः।।
3 / 132 ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च। न हि हस्तावसृग्दिग्धौ रुधिरैणैव शुद्ध्यतः।।
3 / 133 यावतो ग्रसते ग्रासन्हव्यकव्येष्वमन्त्रवित्। तावतो ग्रसते प्रत्य दीप्तशूलष्ट्र्ययोगुडान्।।
3 / 134 ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथाऽपरे।। तपःस्वाधाययनिष्ठाश्च कर्मनिष्ठस्तथापरे।।
3 / 135 ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः। हव्यानि तु यथान्यायं सर्वेष्वेन चतुर्ष्वेव चतुर्ष्वपि।।
3 / 136 अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः। अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः।।
3 / 137 ज्यायंसमनयोर्विद्याद्यस्य स्याच्छ्रोत्रियः पिता। मन्त्रसंपूजनार्थं तु सत्कारमितरोऽर्हति।।
3 / 138 न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः। निरिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्विजम्।।
3 / 139 यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च। तस्य प्रत्य ळलं नास्ति श्राद्धेषु च हविःषु च।।       

3 / 140 यः संगतानि कुरुते मोहाच्छ्रद्धेन मानवः। स स्वर्गाच्च्यवते लोकाच्छ्रद्धमित्रो द्विजाधमः।।
3 / 141 संभोजनी सामिहिता पैशाची दक्षिणा द्विजैः। इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि।।
3 / 142 यथेरिणे बीजममुप्त्वा न वप्ता लभते फलम्। तथाऽनृचे हविर्दत्त्वा नदाता लभते फलम्।।
3 / 143 दातॄन्प्रतिग्रहीतॄंश्च कुरुते फलभागिनः। विदुषे दक्षिणां दत्त्वा विधिवत्प्रत्य चेह च।।
3 / 144 कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम्। द्विषता हि हविर्भुक्तं भवति प्रत्य निष्फलम्।।
3 / 145 यत्नेन भोजययेच्छ्राद्धे बह्वृचं वेदपारगम्। शाखान्तगमथाध्वर्यं छन्दोगं तु समाप्तिकम्।।
3 / 146 एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः। पितॄणां तस्य तृप्तिः स्याच्छाश्वती सामपतपौरुषी।।
3 / 147 एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः। अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः।।
3 / 148 ॉमातामहं मातलं च स्वस्रीयं श्वशुरं गुरुम्। दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भौजयेत्।।
3 / 149 न ब्राह्ममं परीक्षेत दैवे कर्मणि धर्मवित्। पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः।।
3 / 150 ये स्तेनपिततक्लीबा ये च नास्तिकवृत्तयः। नात्हव्यकव्ययोर्विप्राननर्हान्मनुर्ब्रवीत्।।
3 / 151 जटिलं चानधीयानं दुर्वलं कितवं तथा। याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत्।।
3 / 152 चिकित्सकान्देवलकान्मांसविक्रयिमस्तथा। विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः।।
3 / 153 प्रेष्यो ग्रमस्य राज्ञश्च कुनखी श्यावदन्तकः। प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वीर्धुषिस्तथा।।
3 / 154 यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः। ब्रह्मद्विट् परिवित्तिश्च गणाभ्यन्तर एव च।।
3 / 155 कुशीलवोऽवकीर्णी च वृषलीपतिरेव च। पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे।।
3 / 156 भ-तकाध्यापको यश्च भ-तकाध्यापिस्तथा। शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डकौलकौ।।
3 / 157 अकारणपरित्यक्ता मातापित्रोर्गुरोस्तथा। ब्राह्मैर्योनैश्च संबन्धै संयोगं पतितैर्गतः।।
3 / 158 अगारदाही गरदः कुण्डाशी सोमविक्रयी। समुद्रयायी बन्दी च तैनिकः कूटकारकः।।
3 / 159 पुत्रा विवदमानश्च कितनो मद्यपस्तथा। पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी।।
3 / 160 धनुःशराणां कर्ता च यश्चाग्रदिधिषूपतिः। मित्रध्रुग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च।।
3 / 161 भ्रामरी गण्डमाली च श्वत्र्यथो पिशुनस्तथा। उन्त्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च।।
3 / 162 हस्तिगोश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति। पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च।।
3 / 163 स्रोतसां भेदको यश्च तेषां चालरणे रतः। गृहसंवेशको दूतो वृक्षारोपक एव च।।
3 / 164 श्वक्रीडी श्येनजीवी च कन्यादूषक एव च। हिंसो वृषलवृत्तिश्च गणानां चैव याजकः।।
3 / 165 आचीरहीनः क्लीबश्च नित्यं याचनकस्तथा । कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च।।
3 / 166 औरभ्रको माहिषिकः परपूर्वापतिस्तथा। प्रेतनिर्यातकश्चैव वर्जनीयाः प्रयत्नतः।।
3 / 167 एतान्वगर्हिताचारानपाङ्क्तेयान्द्वजाधमान्। द्विजातिप्रवरो विद्वानुभयत्र विविर्जयेत्।।               

3 / 168 ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव शाम्यति। तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते।।
3 / 169 अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलोदयः। दैवे हविषि पित्र्ये वा तत्प्रवक्ष्यम्यशेषतः।।
3 / 170 अव्रतैर्यद्विजैर्भुक्तं परित्त्रादिभस्तथा। अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्चते।।
3 / 171 दाराग्निहोत्रसंयोगं कुरिते योऽग्रजे स्थिते। परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः।।
3 / 172 परिवित्तिः पिरिवेत्ता यया च परिविद्यते। सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः।।
3 / 173 भ्रातुर्मृतस्य भार्यायं योऽनुरज्येत कामतः। धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः।।
3 / 174 परदारेषु जायेते द्वौ सुतौ कुण्डगौलकौ। पत्यौ जूवति कुण्डः स्यान्मृते भर्ति गोलकः।।
3 / 175 तौ तु जातौ परक्षेत्रे प्राणिवौ प्रेत्य चेह च। दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम्।।
3 / 176 अपाङ्क्त्यो यावतः पाङ्क्त्यान्मभुञ्जानाननुपश्यति। तावतां न फलं तत्र दाता प्राप्नोति बालिशः।।
3 / 177 वीक्ष्यान्धे नवतेः काणः षष्टेः श्वित्री शतस्य तु। पापरोगी सहस्रस्य दातुर्नाशयते फलम्।।
3 / 178 यावतः संस्पृशेदङ्गैर्बाह्मणाञ्छूद्रयाजकः। तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम्।।
3 / 179 वेदविच्चापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम्। विनाशं व्रचति क्षिप्रमामपात्रमिवाम्भसि।।
3 / 180 सोमविक्रयिणे विष्ठा भिषजे पूयशोणिततम्। नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ।।
3 / 181 यत्तु वाणिजते दत्तं नेह नामुत्र तद्भवंत्। भस्मनीव हुतं हव्यं तथआ पौनर्भवे द्विजे।।
3 / 182 इतरेषु त्वपाङ्क्त्येषु यथोद्देष्टेष्वसाधुषु। मेदोसृङ्व्रांसमज्जास्थि वदन्त्यन्नं मनीषिणः।।
3 / 183 अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः। तान्निबोधत कार्त्स्न्येन द्वजाग्र्यान्पङ्क्तिपावनान्।।
3 / 184 अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च। श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः।।
3 / 185 त्रिणाचित्तः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित्। ब्रह्मदेयात्मसंतानो ज्येष्ठसामग एव च।।
3 / 186 वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः शतायुश्चैव विज्ञेया ब्राह्मणाः) पङ्क्तिपावनाः।।
3 / 187 पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते। निमन्त्रयेत त्र्यनरान्सम्यग्विप्रान्यथेतितान्।।
3 / 188 निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा। न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत्।।
3 / 189 निमन्त्रितान्हि पितर उपतिष्ठल्ति तान्द्विजान्। वायुवच्चानिगच्छन्ति तथासीनानुपासते।।
3 / 190 केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः। कथंचिदप्यतिक्रामन्पापः सूकरतां व्रजेत्।।
3 / 191 आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते। दातुर्यद्दुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते।।
3 / 192 अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः। न्यस्तशस्त्रा महाभागाः पितर पुर्वदेवताः।।
3 / 193 यस्मादुत्पत्तिरेतेषां सर्वेषमामप्यशेषतः। ये य यैरुपचर्याः स्युर्नियमैस्तान्नबोधत्।।
3 / 194 मनोर्हैरण्यगर्भस्य ये महीच्यादयः सुताः। तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः।।
3 / 195 विराट्सुताः सोमसदऋः साध्यानां पितरः स्मृताः। अग्निष्वात्ताश्च देवानां माहीचा लोकविश्रुताः।।
3 / 196 दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्। सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः।।
3 / 197 सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः। वैश्यनामाज्यपा नाम शूद्राणां तु सुकालिनः।।              

3 / 198 सोमपास्तु कवेः कुत्रा हविष्मन्तोऽङ्गिरःसुताः। पुलस्त्यस्याज्यपाः पुक्षा वशिष्ठस्य सुकालिनः।।
3 / 199 आग्निदग्धानग्नदग्धान्काव्यान्बर्हिषदस्तथा। आग्निष्वात्तांशच सोम्यांश्च विप्राणामेव निर्दिशेत्।।
3 / 200 य एते तु गणा मुख्याः पितृणां परिकीर्तिताः। तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम्।।
3 / 201 ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः। देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूप्वशः।।
3 / 202 राजतैर्भाजनैरेषामथो वा राजतान्वितैः। वार्यपि श्रद्ध्या दत्तमक्षयोयोपकल्पते।।
3 / 203 देवकार्याद्द्विजातीनां पितृकार्यंविशिष्यते। दैवं हि पितृकार्यस्य पूप्वमाप्यायनं श्रुतम्।।
3 / 204 तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत्। रक्षांसि हि विपुम्पन्ति श्राद्धमारत्रवरिजितम्।।
3 / 205 दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत्। पित्राद्यन्तं त्वीहमानः क्षिप्रं नशियति सान्वयः।।
3 / 206 शुचिं देशं विवक्तं च गोमयेनोपलंपयेत्। दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत्।।
3 / 207 अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि। विविक्तेषु च तुष्न्तिदत्तेन पितरः सदा।।
3 / 208 आसनेषूपक्लृप्तेषु बर्हिष्मत्सु पृथक्पृथक्। उपस्पृष्टोदकान्सम्यग्विप्रांस्तानुपवेशयेत्।।
3 / 209 उपवेश्यतु तान्विप्राननासनेष्वजुगुप्सितान्। गन्धमाल्यैः सुरभिमिरर्चयेद्देवपूर्वकम्।।
3 / 210 देषामुदकमानीय सपवित्रांस्तिलानपि। आग्वौ कुरप्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह।।
3 / 211 अग्नेः सोमयमाभायां च कृत्वाप्यायनमादितः। हविर्दानेन विधिवत्पश्चात्संतर्पयेत्पितॄन्।।
3 / 212 अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत्। यो ह्यग्निः स द्विजौ विप्रैर्मन्त्रदर्शिभिरुच्यते।।
3 / 213 अक्रोधनान्सुप्रसादान्वदन्त्येतान्पुरातनान्। लोकसयाप्यायने युक्ताञ्श्राद्धदेवान्द्विजोत्तमान्।।
3 / 214 अपसव्यमग्नौ कृत्वा सर्वमावृत्यविक्रमम्। अपसव्येन हस्तेन निर्वपेदुदकं भुवि।।
3 / 215 त्रींस्तु तस्माद्धविःसेषात्पिणान्कृत्वा समाहितः। एदक्नैव विधिना निर्वपेद्दक्षिणामुखः।।
3 / 216 न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम्। तेषु दर्भेषु तं हस्तं निमृज्याल्लेपभागिनाम्।।
3 / 217 आचम्योदक्परावृत्य त्रिरायम्य शनैरसून्। षड्ऋतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवित्।।
3 / 218 उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः। अवजिघ्रेच्च तान्पिण्डान्यथान्युप्तान्समाहितः।।
3 / 219 पिण्डेभ्यस्त्वल्पिकां मात्रां समादायनुपूर्वशः। तेनैव विप्रानासीनान्विधिवत्पूर्वमाशयेत्।।

अथ चतुर्थोऽध्यायः        
 Go To Top       ऊपर जाने के लिये
4 / 1 चतुर्थमायुषो भागमुषित्वाद्यं गुरौ द्विजः। द्वितीयमायुणो भागं कृतदारो गृहे वसेत्।।
4 / 2 अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः। या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि।।
4 / 3 यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः। अक्लेशेन शरीरस्य कुर्वीत धनसंचयम्।।
4 / 4 ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा। सत्यानृताभ्यामपि वा न श्ववृत्या कदाचन।।
4 / 5 ऋतमुञ्छसिलं ज्ञेयममृतं स्यादयाचितम्। मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम्।।
4 / 6 सत्यानृतं तु वाणिज्यं तेन जैवापि जीव्यते। सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत्।।
4 / 7 कुसूलधान्यको वा स्यात्कुमभीधान्यक एव वा। त्र्यहैहिको वापि भवेदश्वस्तनिक एव वा।।
4 / 8 चतुर्णामपि चैतेषां द्विचानां गृहमेधिनाम्। ज्यायन्परः परो त्रेयो धर्मतो लोकजित्तमः।।
4 / 9 षट्कर्मैको भवत्येषां त्रिभिरन्याः प्रवर्तते। द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मत्रेण जीवति।।
4 / 10 वर्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः। इष्टीः पार्वायनान्तीयाः केवला निर्वपेत्सदा।।
4 / 11 न लोकव-त्तं वर्तेत वृत्तिहेतोः कथंचन। अजिह्मामशठां जीवेद्ब्राह्मणजीविकाम्।।
4 / 12 संतेषं परमास्थाय सुखार्थी संयतो भवेत्। संतोषमूलं हि सुखं दुःखमूलं विपर्ययः।।
4 / 13 अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः। स्वर्गायुष्ययशस्यानि व्रतानीमानि धारयेत्।।
4 / 14 वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः। तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम्।।
4 / 15 नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा। न विद्यमानष्वर्थेषु नार्त्यामपि यतस्ततः।।
4 / 16 इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः। अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत्।।
4 / 17 सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः। यथआतथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता।।
4 / 18 वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च। वेषवाग्बुद्धइसारुप्यमाचरन्विचरेदिह।।
4 / 19 बुद्धइवृद्धइकराण्याशु धन्यानि च हितानि च। नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्।।
4 / 20 यथा यथा हि पुरुषः शास्त्रं समधिगच्छिति। तथा तथा विजानाति विज्ञानं चास्य रोचते।।
4 / 21 ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा। नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत्।।
4 / 22 एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः। अनीहमानाः सततमिन्द्रियेषअवेव जुह्वति।।              

4 / 23 वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा। वाचि प्राणे च पश्चन्तो यज्ञनिवृत्तिमक्षमयाम्।।
4 / 24 ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा। ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा।।
4 / 25 अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा। दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि।।
4 / 26 सस्यान्ते नवसस्येष्ट्या तथार्त्वन्ते द्विजोऽध्वरैः। पशुना त्वयनस्यादौ समान्ते सौमिकैर्मखैः।।
4 / 27 नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान्द्विजः। नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः।।
4 / 28 नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः। प्राणानेवात्तुमिच्छिन्ति नवान्नामिषगर्धिनः।।
4 / 29 आसनाशनशय्याभिरद्भिर्मूलफलेन वा। नास्य कश्चिद्वसेद्गेहे शक्तिनोऽनर्चितोऽतिथिः।।
4 / 30 पाषाण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्छठान्। हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्।।
4 / 31 वेदविद्याव्रतस्नाताञ्श्रोत्रियान्गृहमेधिनः। पूजयेद्धव्यकव्येन विपरीतांश्च वर्जयेत्।।


                                    
 Go To Top       ऊपर जाने के लिये