Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

माण्डूक्योपनिषत्

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।।भद्रं पश्येमाक्षभिर्जयत्राः।।स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिः।।व्यशेम देवहितं यदायुः।।स्वस्ति न इन्द्रो वृद्धश्रवाः।। स्वस्ति नः पूषा विश्ववेदाः।। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।। स्वस्ति नो बृहस्पतिर्दधातु।।

ॐ शान्तिः शान्तिः शान्तिः।।


माण्डूक्योपनिषत्

ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानभूतं भवद्भविष्यदिति सर्वमोङ्कार एव ।
यच्चान्यत्त्रिकालातीतं तदप्योङ्कारं एव।।1।।
सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात्।।2।।
जागरितस्थानो बहिःप्राज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः।।3।।
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः।।4।।
यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम्।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः।।5।।
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्।।6।।
नान्तःप्रज्ञं न बहिप्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम्।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ स आत्मा स विज्ञेयः।।7।।
सोऽयमात्माऽध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पाद अकार उकारो मकार इति ।।8।।
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राप्तेरादिमत्त्वाद्वा आप्नोति ह वै सर्वान्कामानादिश्च भवति य एवं वेद।।9।।

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै ज्ञानसंतति समानश्च भवति नास्याऽब्रह्मवित्कुले भवति य एवं वेद।।10।।
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद।।11।।
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद य एवं वेद।।12।।


इति माण्डूक्योपनिषत्संपूर्णा
 

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः।।भद्रं पश्येमाक्षभिर्जयत्राः।।स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिः।।व्यशेम देवहितं यदायुः।।स्वस्ति न इन्द्रो वृद्धश्रवाः।। स्वस्ति नः पूषा विश्ववेदाः।। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।। स्वस्ति नो बृहस्पतिर्दधातु।।

ॐ शान्तिः शान्तिः शान्तिः।।


इति माण्डूक्योपनिषत्समाप्ता।।