कौटिलीयानि नीतिसूत्राणि (चाणक्य-सूत्राणि)

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

 

प्रथमोऽध्यायः द्वितीयोऽध्यायःतृतीयोऽध्यायःचतुर्थोऽध्यायःपञ्चमोऽध्यायःषष्ठोऽध्यायःसप्तमोऽध्यायःअष्टमोऽध्यायॉः

 

अथ प्रथमोऽध्यायः

1. सुखस्य मूलं धर्मः।
2. धर्मस्य मूलमर्थः।
3. अर्थस्य मूलं राज्यम्।
4. राज्यस्य मूलमिन्द्रियजयः।
5. इन्द्रियजस्य मूलं विनयः।
6. विनयस्य मूलं वृद्धोपसेवा।
7. वृद्धोपसेवाया विज्ञानम्।
8. विज्ञानेनात्मानं संपादयेत्।
9. संपादितात्मा जितात्मा भवति।
10. जितात्मा सर्वार्थैस्संयुज्यते।
11. अर्थसंपत् प्रकृतिसंपदं करोति।
12. प्रकृतिसंपदा ह्यनायकमपि राज्यं नीयते।
13. प्रकृतिकोपस्सर्वकोपेभ्यो गरीयान्।
14. अविनीतस्वामिलाभात् अस्वामिलाभः श्रेयान्।
15. संपाद्यात्मानमन्विच्छेत् सहायान्।
16. नासहास्य मन्त्रनिश्चयः।
17. नैकं चक्र परिभ्रमति ।
18. सहायः समसुखदुःखः।
19. मानी प्रतिमानिनमात्मनि द्वितीयं मन्त्रमुत्पादयेत्
20. अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत।
21. श्रुतवन्तमुपधाशुद्धं मन्त्रिणं कुर्वीत।
22. मन्त्रमूलास्सर्वारम्भाः।
23. मन्त्ररक्षणे कार्यसिद्धिर्भवति।
24. मन्त्रनिःस्रावी सर्वमपि कार्यं नाशयति।
25. प्रमादात् द्विषतां वशमुपयास्यति।
26. सर्वाद्वारेभ्यो मन्त्रो रक्षितव्यः।
27. मन्त्रसंपदा राज्यं वर्धते।
28. श्रेष्ठतमां मन्त्रगुप्तिमाहुः।
29. कार्यान्धस्य प्रदीपो मन्त्रः।
30. मन्त्रचक्षुषा परच्छिद्राण्यवलोकयन्ति।
31. मन्त्रकाले न मत्सरः कर्तव्यः ।
32. कार्याकार्यतत्त्वार्थदर्शिनो मन्त्रिणः।
33. षट्कर्णाद्भिद्यते मन्त्रः।
34. त्रयाणामैकवाक्ये एवासम्प्रत्ययः।
35. आपत्सु स्नेहसंयुक्तं मित्रम्।
36. मित्रसङ्ग्रहेण बलं सम्पद्यते।
37. बलवानलब्धलाभे प्रयतते।
38. अलब्धलाभो नालसस्य।
39. अलसेन लब्धमपि रक्षितुं न शक्यते।
40. न चालसस्य रक्षितं विवर्धते।
41. नासौ भृत्यान् पोषयति, न तीर्थं प्रतिपादयति च।
42. अलब्धलाभादिचतुष्टयं राज्यतन्त्रम्।
43. तच्च राज्यतन्त्रमायत्तं नीतिशास्त्रेषु।
44. राज्यतन्त्रेष्वायत्तौ तन्त्रावापौ।
45. तन्त्रं स्वविषयकृत्येष्वायत्तम्।
46. आवापो मण्डलनिविष्टः।
47. सन्धिविग्रहयोनिर्मण्डलः।
48. नीतिशास्त्रानुगो राजा।
49. अनन्तरप्रकृतिश्शत्रुः।
50. एकान्तरितं मित्रमिष्यते।
51. हेतुश्शत्रुमित्रे भविष्यतः।
52. हीयमानस्सन्धिं कुर्वीत।
53. तेजो हि सन्धानहेतुस्तदर्थानाम्।
54. नातप्तलोहो लोहेन सन्धीयते।
55. बलवान् हीनेन विगृह्णीयात्, न ज्यायसा समेन वा।
56. गजेन पादयुद्धमि बलवद्विग्रहः, आमपात्रमप्यामेन सह विनश्यति।
57. अरिप्रयत्नमभिमीक्षेत।
58. सन्धायैकतो वा यायात्।
59. अमित्रविरोधादात्मरक्षामावसेत्।
60. शक्तिहीनो बलवन्तमाश्रयेत्।
61. दुर्बलाश्रयो दुःखमावहति।
62. अग्निवद्राजानमाश्रयेत्।
63. राज्ञः प्रतिकूलं नाचरेत्।
64. उद्धतवेषधरो न भवेत्।
65. न देवचरितं चरेत्।
66. द्वयोरपीर्ष्यतोः द्वैधीभावकुर्वीत।
67. न व्यसनपरस्य कार्यावाप्तिः।
68. इन्द्रिवशवर्ती चतुरङ्गवानपि विनश्यति।
69. नास्ति कार्यं द्यूतप्रवृत्तस्य।
70. मृगयापरस्य धर्मार्थौ विश्यतः।
71. न कामासक्तस्य कार्यानुष्ठानम्।
72. अर्थेषणा न व्यसनेषु गण्यते।
73. अर्थतोषिणं हि राजानं श्रीः परित्यजति।
74. अग्निदहादपि विशिष्टं वाक्पारुष्यम्।
75. दण्डपारुष्यात् सर्वजनद्वेष्यो भवति।
76. अमित्रो दण्डनीत्यामायत्तः।
77. दण्डनीतिमधितिष्ठिन् प्रजास्संरक्षति।
78. दण्डस्सम्पदा योजयति।
79. दण्डाभावे त्रिवर्गाभावः।
80. न दण्डादकार्याणि कुर्वन्ति।
81. दण्डनीत्यामायत्तमात्मरक्षणम्।
82. आत्मनि रक्षिते सर्वं रक्षितं भवति।
83. आत्मायत्तौ वृद्धिविनाश
84. दण्डो हि विज्ञानेन प्रणीयते।
85. दुर्बलोऽपि राजा नावमन्तव्यम्।
86. नास्त्यग्नेर्दौर्बल्यम्।
87. दण्डे प्रणीयते वृत्तिः।
88. वृत्तिमूलमर्थलाभः।
89. अर्थमूलौ धर्मकामौ।

इति प्रथमोऽध्यायः


अथ द्वितीयोऽध्यायः             Go To Top       ऊपर जाने के लिये

1. अर्थमूलं सर्वकार्यम्, यदल्पप्रयत्नात् कार्यसिद्धिर्भवति।
2. उपायपूर्वं कार्यं न दुष्करं स्यात्।
3. अनुपायपूर्व कार्यं कृतमपि विनश्यति।
4. कार्यार्थिनामुपाय एव सहायः।
5. कार्यं पुरुषकारेण लक्ष्यं संपद्यते।
6. पुरुषकारमनुवर्तते दैवम्।
7. दैवं विनाऽतिप्रयत्नं यत् करोति तद्विफलम्।
8. असमाहितस्य कार्यं न विद्यते ।
9. पूर्वं निश्चित्य पश्चात् कार्यमारभेत।
10. कार्यान्तरे दीर्घसूत्रता न कर्तव्या।
11. न चलचित्तस्य कार्यावाप्तिः.
12. हस्तगतावमाननात् कार्यव्यतिक्रमो भवति।
13. दोषवर्जितानि कार्याणि दुर्लभानि।
14. दुरनिबन्धं कार्यं न आरभेत।
15. कालवित् कार्यं साधयेत्।
16. कालातिक्रमात् काल एव फलं पिबति।
17. क्षणं प्रति कालविक्षेपं न कुर्यात् सर्वकृत्येषु।
18. देशकालविभागौ ज्ञात्वा कार्यमारभेत।
19. दैवहीनं कार्यं सुसाधमपि दुस्साधं भवति।
20. नीतिज्ञो देशकालौ परीक्षेत।
21. परीक्ष्यकारिणि श्रीश्चिरं तिष्ठति।
22. सर्वाश्च संपदः सर्वोपायेन परिगृह्णीयात्।
23. भाग्यवन्तमप्यपरीक्ष्यकारिणं श्रीः परित्यजति।
24. ज्ञात्वाऽनुमानैश्च परीक्षा कर्तव्या।
25. यो यस्मिन् कर्मणि कुशलस्तं तस्मिन्नेव योजयेत्।
26. दुस्साधमपि सुसाधं करोत्युपायज्ञः।
27. अज्ञानिना कृतमपि न बहुमन्तव्यम्, यादृच्छिकत्वात्।
28. कृमयोऽपि हि कदाचित् रूपान्तराणि कुर्वन्ति।
29. सिद्धस्यैव कार्यस्य प्रकाशनं कर्तव्यम्।
30. ज्ञानवतामपि दैवमानुषदोषात् कार्याणि दुष्यन्ति।
31. दैवं दोषं शान्तिकर्मणा प्रतिषेधयेत्।
32. मानुषीं कार्यविपत्तिं कौशलेन विनिवारयेत्।
33. कार्यविपत्तौ दोषान् वर्णयन्ति बालिशाः।
34. कार्यार्थिना दाक्षिण्यं न कर्तव्यम्।
35. क्षीरार्थी वत्सो मातुरूधः प्रतिहन्ति।
36. अप्रयत्नात् कार्यविपत्तिर्भवेत।
37. न दैवमात्रप्रमाणानां कार्यसिद्धिः।
38. कार्यबाह्यो न पोषयत्याश्रितान्।
39. यः कार्यं पश्यति सोऽन्धः।
40. प्रत्यक्षपरोक्षानुमानैः कार्याणि परीक्षेत।
41. अपरीक्ष्कारिणं श्रीः परित्यजति।
42. परीक्ष्य तार्या विपत्तिः।
43. स्वशक्तिं ज्ञात्वा कार्यमारभेत।
44. स्वजनं तर्पययित्वा यश्शेषभोजी सोऽमृतभोजी।
45. सम्यगनुष्ठानादायमुखानि वर्धन्ते।
46. नास्ति भीरोः कार्यचिन्ता।
47. स्वामिनः शीलं ज्ञात्वा कार्यार्थी कार्यं साधयेत्।
48. धेनोश्शीलज्ञो हि क्षीरं भुङ्क्ते।
49. क्षुद्रे गुह्यप्रकाशनमात्मवान् न कुर्यात्।
50. आश्रितैरप्यवमन्यते मृदुस्वभावः।
51. तीक्ष्णदण्डस्सर्वेषामुद्वेजनीयो भवति।
52. यथार्हदण्डकारी स्यात्।
53. अल्पसारं श्रुतवन्तमपि न बहुमन्यते लोकः।
54. अतिभारः पुरुषमवसादयति।
55. यस्संसदि परदोषं शंसति स स्वदोषबहुत्वमेव प्रख्यापयति।
56. आत्मानमेव नाशयत्यनात्मवतां कोपः।
57. नास्त्यप्राप्यं सत्यवताम्।
58. न केवलेन साहसेन कार्यसिद्धिर्भवति।
59. व्यसनार्तो विस्मरत्यवश्यकर्तव्यान्।
60. नास्त्यनन्तरायः कालविक्षेपे।
61. असंशयविनाशात् संशयविनाशः श्रेयान्।
62. केवलं धनानि निक्षेप्तुं न स्वार्थं न दानं न धर्मः।
63. नार्या आगतोऽर्थः तद्विपरीतमनर्थभावं भजते।
64. यो धर्मार्थौ न व्यर्थयति स कामः तद्विपरीतोऽनर्थसेवी।
65. ऋजुस्वभावपरो जनो दुर्लभः।
66. अवमानेनागतमैश्वर्यमन्यत एव साधुः।
67. बहूनपि हि गुणानेकदोषो ग्रसति।
68. महात्मना परं साहसं न कर्तव्यम्।
69. कदाचिदपि चारित्रं न लङ्घयेत्।
70. क्षुधाऽऽर्तो न तृणं चरति सिंहः।
71. प्राणादपि प्रत्ययो रक्षितव्यः।
72. पिशुनो नेता पुत्रदारैरपि त्यज्यते।
इति द्वितीयोऽध्यायः।।


अथ तृतीयोऽध्यायः             Go To Top       ऊपर जाने के लिये

1. बालादपि युक्तमर्थ श्रृणुयात्।
2. सत्यमप्यश्रद्धेयं न वदेत्।
3. नाल्पदोषाद्बहुगुणास्त्यज्यन्ते।
4. विपश्चित्स्वपि सुलभा दोषाः।
5. नास्ति रत्नमखण्डितम्।
6. मर्यादातीतं न कदाचिदपि विश्वसेत्।
7. अप्रिये कृते प्रियमपि द्वेष्यं भवति।
8. नमन्त्यपि हि तुलाकोटिः कृपोदकक्षयं करोति।
9. सतां मतं नातिक्रामेत्।
10. गुणवदाश्रयान्निर्गुणोऽपि गुणी भवति।
11. क्षीराश्रितं जलं क्षीरमिव भवति।
12. मृत्पिण्डेऽपि पाटलिपुष्पंस्वगन्धमुत्पादयति।
13. रजतं कनकसङ्गात् कनकं भवति।
14. उपर्तर्यपकर्तुमिच्छत्यबुधः।
15. न पाप कर्मणामाक्रोशभयम्।
16. उत्साहवतां शत्रवोऽपि वशीभवन्ति।
17. विक्रमधना हि राजानः।
18. नास्त्यालस्यैहिकमामुष्मिकं वा।
19. निरुत्साहाद्दैवं पतति।
20. मत्स्यार्थीव जालमुपयुज्यार्थं गृह्णीयात्।
21. अविश्वस्तेषु विश्वासो न कर्तव्यः।
22. विषं विषमेव सार्वकालम्।
23. अर्थसमादाने वैरिणां सङ्ग एव न कर्तव्यः।
24. अर्थसिद्धौ वैरिणं न विश्वसेत्।
25. अर्थाधीन एव नियतसंबन्धः।
26. शत्रोरपि सुतः सखा रक्षितव्यः।
27. यावच्छत्रोश्छिद्रं पश्यति तावद्धस्तेन वा स्कन्धेन वा संवाह्यः, छिद्रे तु प्रहरेत्।
28. आत्मछिद्रं न प्रकाशयेत्।
29. छिद्रप्रहारिणश्शत्रवोऽपि।
30. हस्तगतमपि शत्रुं न विश्वसेत्।
31. स्वजनस्य दुर्वृत्तं निवारयेत्।
32. स्वजनावमानोऽपि मनस्विनां दुःखमावहति।
33. एकाङ्गदोषः पुरुषमवसादयति।
34. शत्रुं जयति सुवृत्तता।
35. निकृतिप्रिया नीचाः।
36. नीचस्य मतिर्न दातव्या।
37. नीचेषु विश्वासो न कर्तव्यः।
38. सुपूजितोऽपि दुर्जनः पीडयत्येव।
39. चन्दनादीनपि दावोऽग्निर्दहत्येव।
40. कदाऽपि कमपि पुरुषं नावमन्येत।
41. क्षन्तव्यमिति पुरुषं न बाधेत।
42. भर्त्राऽधिकं रहस्युक्तं वक्तुमच्छिन्त्यबुद्धयः।
43. अनुरागस्तु फलेन(हितेन) सूच्यते।
44. आज्ञाफलमैश्वर्यम्।
45. दातव्यमपि बालिशः परिक्लेशेन दास्यति।
46. महदैश्वर्यं प्राप्यापि अधृतिमान् विनश्यति।
47. नास्त्यधृतेरैहिकमामुष्मिकं वा।
48. न दुर्जनैस्सह संसर्गः कर्तव्यः।
49. शौण्डहस्तगतं पयोऽप्यवमन्यते जनः।
50. कार्यसङ्कटेष्वर्थव्यवसायिनी बुद्धिः।
51. मितभोजनं स्वास्थ्यम्।
52. पथ्यमप्यपथ्याजीर्णे नाश्नीयात्।
53. जीर्णभोजिनं व्याधिर्नोपसर्पति।
54. जीर्णशरीरे वर्धमानं व्याधिं नोपेक्षेत।
55. अजीर्णे भोजनं दुःखम्।
56. शत्रोरपि विशिष्यते व्याधिः।
57. दानं निधानमनुगामि।
58. पटुतरेऽपि तृष्णापरे सुलभमतिसन्धानम्।
59. तृष्णया मतिश्छाद्यते।
60. कार्यबहुत्वे बहुफलमायतिकं कुर्यात्।
61. स्वयमेवावस्कन्नं कार्यं निरीक्षेत।
62. मूर्खेषु साहसं नियतम्।
63. मूर्खेषु विवादो न कर्तव्यः।
64. मूर्खेषु मूर्खवदेव कथयेत्।
65. आयसैरायसं छेद्यम्।
66. नास्त्यधीमतस्सखा।
इति तृतीयोऽध्यायः

अथ चतुर्थोऽध्यायः             Go To Top       ऊपर जाने के लिये
1. धर्मेण धार्यते लोकः।
2. प्रतमपि धर्माधर्मावनुगच्छतः।
3. दया धर्मस्य जन्मभूमिः।
4. धर्ममूले सत्यदाने ।
5. धर्मेण जयति लोकान्।
6. मृत्यरपि धर्मिष्ठं रक्षति।
7. धर्माद्विपरीतं पापं यत्र यत्र प्रसज्यते तत्र तत्र धर्मावमतिरेव महती प्रसज्यते।
8. उपस्थितविनाशानां प्रकृतिः आकारेण कार्येण च लक्ष्यते।
9. आत्मविनाशं सूचयत्यधर्मबुद्धिः।
10. पिशुनवादिनो रहस्यं कुतः।
11. पररहस्यं नैव श्रोतव्यम्।
12. वल्लभस्य स्वार्थपरत्वमधर्मयुक्तम्।
13. स्वजनेष्वप्यतिक्रमो न कर्तव्यः।
14. माताऽपि दुष्टा त्याज्या।
15. स्वहस्तोऽपि विषदिग्धश्छेद्यः।
16. परोऽपि च हितो बन्धुः।
17. कक्षादप्यौषधं गृह्यते।
18. नास्ति चोरेषु विश्वासः।
19. अप्रर्तीकारेष्वनादरो न कर्तव्यः।
20. व्यसनं मनागपि बाधते।
21. अमरवदर्थजातमार्जयेत्
22. अर्थवान् सर्वलोकस्य बहुमतः।
23. महेन्द्रमप्यर्थहीनं न बहुमन्यते लोकः।
24. दारिद्रयं खलु पुरुषस्य सजीवितं मरणम्।
25. विरूपोप्यरथवान् सुरूपः।
26. अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति।
27. अकुलीनोपि धनवान् कुलीनाद्विशिष्टः।
28. नास्त्यवमाभयमनार्यस्य।
29. नोद्योगवतां वृत्तिभयम्।
30. न जितेन्द्रियाणां विषयभयम्।
31. न कृतार्थानां मरणभयम्।
32. कस्यचिदर्थं स्वमिव मन्यते साधुः।
33. परविभवेवादरो न कर्तव्यः।
34. परविभवेष्वादरोऽपि नाशमूलम्।
35. पलालमपि परद्रव्यं न हर्तव्यम्।
36. परद्रव्यापहरणमात्मद्रव्यनाशहेतुः।
37. न चौर्यात् परं मृत्युपाशः।
38. यवागूरपि प्राणधारणं करोति काले ।
39. न मृतस्यौषधं प्रयोजनम्।
40. समकाले प्रभुत्वस्यप्रयोजनं भवति।
41. नीचस्य विद्याः पापकर्मण्येव तं योजयन्ति।
42. पयःपानमपि विषवर्धनं भङ्गस्य, न त्वमृतं स्यात्।
43. न हि धान्यसमो ह्यर्थः।
44. न क्षुधासमश्शत्रुः।
45. अकृतेर्नियता क्षुत्।
46. नास्त्यभक्ष्यं क्षुधितस्य।
47. इन्द्रियाणि प्रतिपदं नरानम जरावशान् कुर्वन्ति।
48. सानुक्रोशं भर्तारमाजीवेत्।
49. लुब्धसेवी पावकेच्छया खद्योतं धमति।
50. विशेषज्ञं स्वामिनमाश्रयेत्।
51. पुरुषस्य मैथुनं जरा।
52. स्त्रीणाममैथुनं जरा।
53. न नीचोत्तमयोर्वैवाहः।
54. अगमयागमनादायुर्यशः पुण्यानि क्षीयन्ते।
55. नास्त्यहङ्कारसमश्शत्रुः।
56. संसदि शत्रुं न परिक्रोशेत।
57. शत्रुव्यसनं श्रवणसुखम्।
58. अधनस्य बुद्धिर्न विद्यते।
59. हितमप्यधनस्य वाक्यं न गृह्यते।
60. अधनः स्वभार्ययाऽप्यवमन्यते।
61. पुष्पहीनं सहकारमपि नोपासते भ्रमराः।
इति चतुर्थोऽध्यायः

अथ पञ्चमोऽध्यायः             Go To Top       ऊपर जाने के लिये
1. विद्या धनमधनानाम्।
2. विद्या चोरैरपि न ग्राह्या।
3. विद्या सुलभा ख्यातिः।
4. यशस्शरीरं न विनश्यति।
5. यः परार्थमन्यमुपसर्पति स सत्पुरुषः
6. इद्रियाणां प्रशमं शास्त्रम्।
7. अकार्यप्रवृत्तेः शास्त्राङ्कुशं निवारयति।
8. नीचस्य विद्या नोपेतव्या।
9. म्लेच्छभाषणं न शिक्षेत।
10. म्लेच्छानामपि सुवृत्तं ग्राह्यम्।
11. गुणे न मत्सरः कर्तव्यः।
12. शत्रोरपि सुगुणो ग्राह्यः।
13. विषादप्यमृतं ग्राह्यम्।
14. अवस्थया पुरुषस्संमान्यते।
15. स्थान एव नराः पूज्यन्ते।
16. आर्यवृत्तमनुतिष्ठेत्।
17. कदापि मर्यादां नातिक्रामेत्।
18. नास्त्यर्घः पुरुषरत्नस्य।
19. न स्त्रीरत्नसमं रत्नम्।
20. सुदुर्लभं हि रत्नम्।
21. अयशो भयं भयेषु।
22. नास्त्यलसस्य शास्त्राधिगमः।
23. न स्त्रैणस्य स्वर्गाप्तिर्धर्मकृत्यं च।
24. स्त्रियोऽपि स्त्रैणमवमन्यन्ते।
25. न पुष्पार्थी सिञ्चति शुष्कतरुम्।
26. अद्रव्यप्रयत्नो वालुकाक्वाथनादनन्यः।
27. न महाजनहासः कर्तव्यः।
28. कारयसंपदं निमित्तानि सूचयन्ति।
29. नक्षत्रादपि निमित्तानि विशेषयन्ति ।
30. न त्वरितस्य नक्षत्रपरीक्षा।
31. परिचये दोषा न छाद्यन्ते।
32. स्वयमशुद्धः परानाशङ्कते।
33. स्वभावो दुरतिक्रमः।
34. अपराधानुरूपो दण्डः।
35. प्रश्नानुरूपं प्रतिवचनम्।
36. विभवानुरूपमाभरणम्।
37. कुलानुरूपं वृत्तम्।
38. कार्यानुरूपः प्रयत्नः।
39. पात्रानुरूपं दानम्।
40. वयोऽनुरूपो वेषः।
41. स्वाम्यनुकूलो भृत्यः।
42. भर्तृवशवर्तिनी भार्या।
43. गुरुवशानुवर्ती शिष्यः।
44. पितृवशानुवर्ती पुत्रः।
45. अत्युपचारश्शङ्कितव्यः।
46. स्वामिनि कुपिते स्वामिनमेवानुवर्तेत।
47. मातृताडितो वत्सो मातरमेवानुरोदिति।
48. स्नेहवतस्स्वल्पो हि रोषः।
49. बालिशः आत्मछिद्रं न पश्यति, अपि तु परच्छिद्रमेव पश्यति।
50. सदोपचारः कितवः।
51. काम्यैर्विशेषैरूपचारमुपचारः।
52. चिरपरिचितानामत्युपचारश्शङ्कितव्यः।
53. श्वसहस्रादेकाकिनी गौः श्रेयसी।
54. श्वो मयूरादद्य कपोतो वरः।
55. अतिसङ्गो दोषमुत्पादयति।
56. सर्वं जयत्यक्रधः।
57. यद्यपकारिणि कोपः कर्तव्यः, तर्हि स्वकोपे एव कोपः कर्तव्यः।
58. मतिमत्सु मूर्खमित्रगुरुवल्लभेषु विवादो न कर्तव्यः।
59. नास्त्यपिशाचमैश्वर्यम्।
60. नास्ति धनवतां सुकर्मसु श्रमः।
61. नास्ति गतिश्रमो यानवताम्।
62. अलोहमयं निगडं कलत्रम्।
63. यो यस्मिन् कर्मणि कुशलः स तस्मिन् योक्तव्यः।
64. दुष्कलत्रं मनस्विनां शरीरकर्शनम् ।
65. अप्रमत्तो दारान् निरीक्षेत।
66. स्त्रीषु किंचिदपि न विश्वसेत्।
67. न समाधिः स्त्रीषु लोकज्ञता च।
68. गुरूणां माता गरीयसी।
69. सरवावस्थासु माता भर्तव्या।
70. वैरूप्यमलङ्कारेणाच्छाद्यते।
71. स्त्रीणां भूषणं लज्जा।
72. विप्राणां भूषणं वेदः।
73. सर्वेषां भूषणं धर्मः.
74. भूषणानां भूषणं सविनया विद्या।
इति पञ्चमोऽध्यायः


अथ षष्ठोऽध्यायः             Go To Top       ऊपर जाने के लिये
1. अनुपद्रवं देशमावसेत्।
2. साधुजनबहुलो देशः आश्रयणीयः।
3. राज्ञो भेतव्यं सार्वकालम्।
4. न राज्ञः परं दैवतम्।
5. सुदूरमपि दहति राजवन्हिः।
6. रिक्तहस्तो न हाजानमभिगच्छेत् गुरुं दैवे च।
7. कुटुम्बिनो भेतव्यम्।
8. गन्तव्यं च सदा राजकुलम्।
9. राजपुरुषैस्संबन्धं कुर्यात्।
10. हाजदाशी न सेवितव्या।
11. न चक्षुषाऽपि राजानं निरीक्षेत।
12. पुत्रे गुणवति कुटुम्बिनः स्वर्गः।
13. पुत्रा विद्यानां पारं गमचितव्याः।
14. जनपदार्थं ग्रमं त्यजेतम।
15. ग्रामार्थं कुटुम्बस्त्यजते।
16. अतिलाभः पुत्रलाभः।
17. दुर्गतेर्यः पितरौ रक्षति स पुत्रः।
18. यः कुलं प्रख्यापयति स पुत्रः।
19. नानपत्यस्य स्वर्गः।
20. या प्रसूते सा भार्या।
21. तीर्थसमवाये पुत्रवतीमनुगच्छेत्।
22. न तीर्थाभिगमनाद्ब्रह्मचर्यं नश्यति।
23. न परक्षेत्रे बीजं विनिक्षिपेत्।
24. पुत्रार्था हि स्त्रियः।
25. स्वदासीपरिग्रहो हि स्वस्यैव दासभावापादनम्।
26. उपस्थितविनाशः पथ्यवाक्यं न शृणोति।
27. नास्ति देहिनां सुखदुःखाभावः।
28. मातरमिव वत्साः सुखदुःखानि कर्तारमेवानुगच्छन्ति।
29. तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधः।
30. उपकारोऽनार्थष्वकर्तव्य़ः।
31. प्रत्युपकारभयादनार्यश्शत्रुर्भवति।
32. स्वल्पोपकारकृतेऽपि प्रत्युपकारं कर्तुमार्यो जागर्त्ति।
33. न कदाऽपि देवता मन्तव्या।
34. न चक्षुषः समं ज्योतिरस्ति।
35. चक्षुर्हि शरीरिणां नेता।
36. अपचक्षुषः किं शरीरेण?
37. नाप्सु मूत्रं कुर्यत्।
38. न नग्नो जलं प्रविशेत्।
39. यथा शरीरं तथा ज्ञानम्।
40. यथा बुद्धिस्तथा विभवः।
41. अग्वावक्निं न निङिपेत्।
42. तपस्विनः पूजनीयाः।
43. परदारान् न गच्छेत्।
44. अन्नदानं भ्रूणहत्यामपि मार्ष्टि।
45. न वेदबाह्यो धर्मः।
46. कथंचिदपि धर्मं निषेवेत।
47. स्वर्गं नयति सूनृतम्।
48. नास्ति सत्यात् परं तपः।
49. सत्यं स्वर्गस्य साधनम्।
50. सत्येन धार्यते लोकः।
51. सत्याद्देवो वर्षति।
52. नानृतात् पातमं परम्।
53. न मीमांस्या गुरवः।
54. खलत्वं नोपेयात्।
55. नास्ति खलस्य मित्रं ।
56. लोकयात्रा तरिद्रं बाधते।
57. अतिशूरो दानशूरः।
58. गुरुदेवब्राह्मणेषु भक्तिर्भूषणम्।
59. सर्वस्य भूषणं विनयः।
60. अकुलीनोऽपि विनीतः कुनीनात्वीशिष्टः।
61. आचारादायुर्वर्धते कीर्तिः श्रेयश्च।
62. प्रियमप्यहितं न वक्तव्यम्।
63. बहुजनविरुद्धमेकं नानुवर्तेत।
64. व कृतार्थस्य नीचेषु संबन्धः।
65. ऋणशत्रुव्याधयो निःशेषाः कर्तव्याः।
66. भूत्यवुवर्तनं पुपुषस्य रसायनम्।
67. नार्थिष्ववज्ञा न्कान्निवर्तन्म।
68. दुष्करं कर्म कारयित्वा कर्तारमवमन्यते नीचः।
69. नाकृतज्ञस्य नरकान्निवर्तनम्।
70. जिह्वायत्तौ वृद्धिविनाशौ।
71. विषामृतयोराकरी जिह्वा।
72. प्रियवादिनो न शत्रुः।
73. स्तुता अपि देवतास्तुष्यन्ति।
74. अन-तमपि दुर्वचनं चिरं तिष्ठति।
75. राजद्विष्टं न वक्तव्यम्।
76. श्रुतिसुखात् कोकिनानापादपि तुष्यन्ति जनाः।
77. स्वधर्महेतुस्सत्पुरुषः।
78. नास्त्यर्थिनो गौरवम्।
79. स्त्रीणां भूषणं सौभाग्यम्।
80. शत्रोरपि न पातनीया वृत्तिः।
81. अप्रयत्नोदकं क्षेत्रम्।
82. एरण्डमवलम्ब्य कुञ्जरं न कोपयेत्।
83. अतिप्रवृद्धापि शाल्मली वारणस्तम्भो न भवति।
84. अतिदीर्घोऽपि कर्णिकारो न मुसली भवति।
85. अतिदीप्तोऽपि खद्योतो न पावकः।
86. न प्रवृद्धत्वं गुणहेतुः।
87. सुजीर्णोऽपि पुचुमल्दो न शङ्कुलायते।
88. यथा बीजं तथा निष्पत्तिः
89. यथा श्रुतं तथा बुद्धिः।
90. यथा कुलं तथाऽऽचारं।
91. संस्कृतः पिचुमन्दो न सहकारो भवति।
92. न चागतं सुखं त्यजेत्।
93. स्वयमेव दुःखमधिगच्छति।
94. रात्रिचारणं न कुर्यात्।
95. न चार्धरात्रं स्वपेत्।
96. तद्विद्विद्भिः परीक्षेत।
97. परगृहमकारणतो न प्रविशेत्।
98. ज्ञात्वाऽपि दोषमेव करोति लोकः।
99. शास्त्रप्रधाना लोकवृत्तिः।
100. शास्त्राभावे शिष्टाचारमनुगच्छेत्।
101. नाचरिताच्छास्त्रं गरीयः।
102. दूरस्थमपि चाचक्षुः पश्यति राजा।
103. गतानुकतिको लोकः।
104. यमनुजीवेत् तं नापवदेत्।
इति षष्ठोऽध्यायः

अथ सप्तमोऽध्यायः             Go To Top       ऊपर जाने के लिये
1. तपस्सार इन्द्रयनिग्रहः।
2. दुर्लभः स्त्रीबन्धनान्मोक्षः।
3. स्त्री नाम सर्वाशुभानां क्षेत्रम्।
4. न च स्त्रीणां पुरुषपरीक्षा।
5. स्त्रीणां मनः क्षणिकम्।
6. अशुभद्वेषिणः स्त्रीषु न प्रसक्ता भवेयुः।
7. यज्ञफलज्ञास्त्रिवेदविदः ।
8. स्वर्गस्थानं न शाश्वतं, अपितु यानत्पुण्यफनम्।
9. न च स्वर्गपतनात् परं दुःखम्।
10. देही देहं त्यक्त्वा ऐन्द्रपतं न वाठ्छति।
11. दुःखानामौषधं निर्वाणम्।
12. अनार्यसंबन्धाद्वरमार्यशत्रुता।
13. निहन्ति दुर्वचनं कुलम्।
14. न पुत्रसंस्पर्शात् परं सुखम्।
15. विवादे धर्ममनुस्मरेत्।
16. निशान्ते कार्यं चिन्तयेत्।
17. प्रदोषे न संयोगः कर्तव्यः।
18. उपस्थितविनाशः दुर्नयं शुभं मन्यते।
19. क्षीरार्थिनः किं करिण्या।
20. न दानसमं वश्यम्।
21. परायत्तेषूत्कण्ठां न कुर्यात्।
22. अत्समृद्धिरसद्भरेव भुज्यते।
23. निम्बफलं काकैर्हि भुज्यते।
24. नाम्भोधिस्तृष्णामपोहति।
25. वालुका अपि स्वगुणमाश्रयन्ते।
26. सन्तोऽसत्सु न रमन्ते।
27. हंसः प्रतवने न रमते।
28. अर्थार्थं प्रवर्तते लोकः।
29. आशया बध्यते लोकः।
30. न चाशापरैश्श्रीस्सह तिष्ठति।
31. आसापरे न धैर्यम्।
32. दैन्यान्मरणमुत्तमम्।
33. आशालज्जां व्यपोहति।
34. न मात्रा सह वासः कर्तव्यः।
35. आत्मा न स्तोतव्यः .।
36. न दिवा स्वप्नं कुर्यात्।
37. न चासन्न,पि पश्यत्यैश्वर्यान्धः, नापि श्रृणोतीष्टं वाक्यम्।
38. स्त्रीणां न भरितुः परं दैवतम्, तदनुवर्तनं तासामुभयसौख्यम्।
39. अतिथिमभ्यागतं च पूजयेद्यथाविधि।
40. नास्ति हव्यस्य व्याघातः।
41. शत्रुर्मित्रवत् प्रतिभाति।
42. मृगतृष्णा जलवद्भाति हि।
इति सप्तमोऽध्यायः
अथाष्टमोऽध्यायः             Go To Top       ऊपर जाने के लिये
1. धुरमेधसोऽसच्छास्त्रं मोहयति।
2. सत्सङ्गः स्वर्गवासः।
3. आर्याः स्वमिव परं मन्वते।
4. रूपानुवर्ती गुणः।
5. यत्र सुखेन वर्तते तदेव स्थानम्।
6. विश्वासघातिनो न निष्ृतिः।
7. दैवायत्तं न शोचेत्।
8. आश्रितदुःखमात्मन इव मन्यते साधुः।
9. हृद्गतमाच्छाद्यान्यद्वदत्यनार्यः।
10. बुद्धिहीनः पिशाचतुल्यः।
11. असहायः पथि न गच्छेत।
12. पुत्रो न स्तोतव्यः।
13. स्वामी स्तोतव्योऽनुजीविभिः।
14. धर्मकृत्यानि सर्वाणि स्वामिन इत्येव घोषयेत्।
15. राजाज्ञां नातिलङ्घयेत्।
16. यथाऽऽज्ञप्तं तथा कुर्यात्।
17. नास्ति बुद्धिमतां शत्रुः।
18. आत्मछिद्र न प्रकाशयेत्।
19. क्षमावानेव सर्वं साधयति।
20. आपदर्थं धनं रक्षेत्।
21. साहसवतां प्रयं कर्तव्यम्।
22. श्वः कार्यमद्य कुर्वीत।
23. आपराह्णिकं पूर्वाह्ण एव कर्तव्यम्।
24. व्यवहारानुलोमो धर्मः।
25. सर्वज्ञता लोकज्ञता।
26. शास्त्रज्ञोऽप्यलोकज्ञो मुर्खतुल्यः।
27. शास्त्रप्रयोजनं तत्त्वदर्शनम्।
28. तत्त्वज्ञानं कार्यमेव प्रकाशयति।
29. व्यवहारे पक्षपातो न कार्यः।
30. धर्मादपि व्यवहारो गरीयान्।
31. आत्मा हि व्यवहारस्य साक्षी।
32. सर्वसाक्षी ह्यात्मा।
33. न स्यात् कूटसाक्षी।
34. कूटसाक्षिणो नरके पतन्ति।
35. प्रच्छन्नपापानां साक्षिणो महाभूतानि।
36. आत्मनः पापमात्मैव प्रकाशयति।
37. व्यवहारोऽन्तर्गतमाकारस्सूचयति।
38. आकारसंवरणं देवानामप्यशक्यम्।
39. चोरराजपुरुषेभ्यो वित्तं रक्षेत्।
40. दुर्दर्शना हि राजानः प्रजा रक्षन्ति।
41. सुदर्शना राजानः प्रजा रक्षन्ति।
42. न्याययुक्तं राजानं मातरं मन्यन्ते प्रजाः।
43. तादृशः स राजा इह सुखं ततस्स्वर्गं चाप्नोति।
44. अहिंसालक्षणो धर्मः।
45. स्वशरीरमपि परशरीरं मन्यते साधुः।
46. मांसभक्षणमप्युक्तं सर्वेषाम्।
47. न संसारभयं ज्ञानवताम्।
48. विज्ञानदीपेन संसारभयं निवर्तयति।
49. सर्वमवित्यं भवति।
50. कृमिशकृन्मूत्रभाचनं शरीरं पुण्तयपापजन्महेतुः।
51. जन्ममरणादिषु तु दुःखमेव ।
52. तपसा स्वर्गमाप्नोति।
53. क्षमायुक्तस्य तपो विवर्धते।
54. तस्मात् सर्वेषां सर्वकार्यसिद्धिर्भवति।
इत्यष्टमोऽध्यायः
इति कौटिलीयानि नीतिसूत्राणि सम्पूर्णम्

             Go To Top       ऊपर जाने के लिये