कठोपनिषत्

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

कठोपनिषत्

      प्रथमोऽध्याय प्रथमा वल्लीद्वितीया वल्लीतृतीया वल्ली

द्वितीयोऽध्यायः प्रथमा वल्लीद्वितीया वल्लीतृतीया वल्ली

शान्तिपाठः

ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।

तेजस्विनावधीतमस्तु। मा विद्विषावहै।

ॐ शान्ति:! शान्ति:!! शान्ति:!!!

प्रथमोऽध्यायः प्रथमा वल्ली

ॐ अशन् ह वै वाजश्रवस: सर्ववेदसं ददौ।

तस्य ह नचिकेता नाम पुत्र आस ॥१

तं ह कुमारं सन्तं दक्षिणासु नीयमानसु श्रद्धा आविवेश सोऽमन्यत ॥२॥

 

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रिया:

अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥३॥

 

  स होवाच पितरं तत कस्मै मां दास्यतीति।

द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति॥४॥   

 

बहूनामेमि प्रथमों बहूनामेमि मध्यम:

किं स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥५॥

 

   अनुपश्य यथा पूर्वे प्रतिपश्य तथापरे।

सस्यमिव मर्त्य: पच्यते सस्यमिवाजायते पुन: ॥६॥

  वैश्वानर:    प्रविशत्यतिथिर्ब्राह्मणों गृहान्।

तस्यैतां शान्ति कुर्वन्ति हर वैवस्वतोदकम् ॥७॥

 

आशा प्रतीक्षे संगतं सूनृतां च इष्टापूर्ते पुत्रपशूंश्च सर्वान्।

एतद् वृड्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे ॥८॥

यम-नचिकेता-उपाख्यान

 

    तिस्त्रो रात्रीर्यदवात्सीर्गृहे मे अनश्नन् ब्रह्मन्नतिथिर्नमस्य:

   नमस्ते अस्तु ब्रह्मन् स्वस्ति में अस्तु तस्मात् प्रति त्रीन् बरान् वृणीष्व॥९॥

 

 शान्तसकल्प: सुमना यथा स्याद्वीतमन्युगौर्तमों माभि मृत्यो।  

त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥१०॥

        यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्ट:

सुखं रात्री: शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥११॥

        स्वर्गे लोक न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति।

    उभे तीर्त्वाशनायापिपासे शेकातिगो मोदते स्वर्गलोके ॥१२॥

स त्वमग्नि स्वर्ग्यमध्येषि मृत्यों प्रब्रूहि त्वं श्रद्दधानाय मह्यम।

स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण ॥१३॥

प्र ते ब्रवीमि तदु मे निवोध स्वर्ग्यमग्निं नचिकेत: प्रजानन्।

अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥१४॥

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा।

स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्यु: पुनरेवाह तुष्ट:॥१५॥

तमब्रवीत प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूय:

तवैव नामा भवितायमग्नि : सृक्ङां चेमामनेकरुपां गृहाण ॥१६॥

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू।

ब्रह्मजज्ञ। देवमीड्यं विदित्वा निचाय्येमां शानितमत्यन्तमेति ॥१७॥

त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम्।

स मृत्यृपाशानृ पुरत: प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥१८॥

            एष तेऽग्निर्नचिकेत: स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।

            एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृष्णीष्व॥१९॥

येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके।एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष  वरस्तृतीय: ॥२०॥

देवैरत्रापि विचिकित्सितं पुरा न हि सुवेज्ञेयमणुरेष धर्म :

अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ॥२१॥

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यों यत्र सुविज्ञेममात्थ।वक्ता चास्य त्वादृगन्यों न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥२२॥

शतायुष: पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान्।भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥२३॥

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च।महाभूभौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि॥२४॥

ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दत: प्रार्थयस्व। इमा रामा: सरथा:    सतूर्या न   हीदृशा लम्भनीया  मनुष्यै:आभिर्मत्प्रत्ताभि: परिचारयस्व् नचिकेतो मरणं मानुप्राक्षी ॥२५॥

श्वो भावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेज:

अपि सर्वम् जीवितमल्पेमेव तवैव वाहास्तव नृत्यगीते  ॥२६॥

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत् त्वा।

जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीय: स एव॥२७॥

अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः व्कधःस्थः प्रजानन्।अभिध्यायन् वर्णरतिप्रमोदानदीर्घे    जीविते को रमेत ॥२८॥

 

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्।

योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥२९॥

इति प्रथमेऽध्याये प्रथमा वल्ली।।

 

 

प्रथमोऽध्यायः द्वितीया वल्ली

 अन्यच्छेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः। तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥१॥  

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः। श्रेयो हि धीरोऽभिप्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥२॥

 

स त्वं प्रियान् प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्त्राक्षीः।

नैतां सृडकां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥३॥

 

दूरमेते विपरीत विषूची अविद्या या च विद्येति ज्ञाता।

विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥४॥

 

अविद्यायामन्तरे वर्तमानः स्वयं धीराः पण्डितम्मन्यमानाः।

दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥५॥

 

न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्।

अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे।। ६।।

श्रवणायापि बहुरभिर्यो न लक्ष्यः श्रृण्वन्तो·पि बहवो यं न विद्युः।

आश्चर्यो वक्ता कुशलो·स्य लब्धा··श्चर्यो ज्ञाता कुशलानुशिष्टः।। ७।।

 

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः।

अनन्यप्रोक्ते गतिरत्र अमीयान् ह्यतर्क्यमणुप्रमाणात्।। ८।।

 

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ।

यां त्वमापः सत्यधृतिर्बतासि त्वादृक् नो भूयान्नचिकेतः प्रष्टा।।९।।

 

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्।

ततो मया नाचिकेतश्चितोमन्गिरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्।।१०।।

 

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरनन्त्यमभयस्य पारम्।

स्योममहदुरुगायं प्रतिष्ठां दृष्टवा धृत्या धीरो नचिकेतो·त्यस्त्राक्षीः।। ११।।

 

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गव्हरेष्ठं पुराणम्।

अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति।। १२।।

 

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य।

स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये।।१३।।

 

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्।

अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद।। १४।।

 

सर्वे वेदा यत् पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्।। १५।।

 

एतद्धेवाक्षरं ब्रह्म एतद्धेवाक्षरं परम्।

एतद्धेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्।। १६।।

 

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्।

एतदावम्बनं ज्ञात्वा ब्रह्मलोके महीयते।। १७।।

 

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्।

अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।। १८।।

 

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते।। १९।।

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्।

तमक्रतु: पश्यति वीतशोको धातुप्रसादान्महिमानमात्मन:।। २०।।

 

आसीनो दूरं व्रजति शयानो याति सर्वत:

कस्तं मदामदं देवं मदन्यो ज्ञातुमहर्ति।। २१।।

 

अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति।। २२।।

 

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्।।२३।।

 

नाविरतो दुश्चरितान्नाशान्तो नासमाहित:

नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्।। २४।।

 

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः।

मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः।। २५।।

इति द्वितीया वल्ली समाप्ता।।

प्रथमोऽध्यायः तृतीया वल्ली

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमें परार्धे।

छायातपौ ब्रह्मविदो वदन्ति पज्चाग्नयो ये च त्रिणाचिकेताः ॥१॥

 

यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्।

अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥२॥

 

         आत्मानं रथिनं विद्धि शरीरं रथमेव तु।

बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥३॥

 

4 इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्।

आत्मेन्द्रियमनोयक्तं भोक्तेत्याहुर्मनीषिणः ॥४॥

 

यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा।

तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥५॥

 

यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा।

तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥६॥

 

यस्तवविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः।

न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥७॥

यस्तु विज्ञानवान् भवति समनस्कः सदासशुचिः।

स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥८॥

 

विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः।

सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥९॥

 

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।

मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥१०॥

 

महतः परमव्यक्तमव्यक्तात् पुरुषः परः।

पुरुषान्न परं किज्चित्सा काष्ठा सा परा गतिः ॥११॥

 

एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते।

दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥१२॥

 

यच्छे द्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि।

ज्ञानमात्मनि महति नियच्छेत्तद्यच्छान्त आत्मनि ॥१३॥

 

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।

क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥१४॥

 

अशब्दमस्पर्शमरुपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्।

अनाद्यनन्तं महत: परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥१५॥

 

 नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्।

उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते॥१६॥

 

य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि।

प्रयत: श्राद्धकाले वा तदानन्त्याय क्लपते।

तदानन्त्याय क्लपते ॥१७॥

इति प्रथमेऽध्याये तृतीया वल्ली ।।

इति प्रथमोऽध्यायः समाप्तः।।

द्वितीयोऽध्यायः प्रथमा वल्ली

 पराञ्चि खानि व्यतृणत् स्वयंभूस्तस्मात्पराड् पश्यति नान्तरात्मन्।

कश्चिद्धार: प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥१॥

 पराच: कामाननुयन्ति बालास्ते मृत्योर्यन्ति वितस्य पाशम्।

अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ।।२।।

 

येन रुपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान्।

एतेनैव विजानाति किमत्र परिशिष्यते।। एतद् वै तत्।।३।।

 

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति।। ४।।

य इमं मध्वदं वेद आत्मानं जीवमन्तिकात्।

ईशान भूतभव्यस्य न ततो विजुगुप्सते।। एतद् वै तत्।। ५।।

: पूर्वं तपसो जातमद्भय: पूर्वमजायत।

गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत।। एतद् वै तत्।। ६।।

या प्राणेन संभवत्यदितिर्देवतामयी।

गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत।। एतद् वै तत्।। ७।।

अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः।

दिवे दिवे ईडयो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः।। एतद् वै तत्।।८।।

यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति।

तं देवा: सर्वे अर्पितास्तदु नात्येति कश्चन।। एतद् वै तत्।। ९।।

यदेवेह तदमुत्र यदमुत्र तदन्विह।

मृत्योः स मृत्युमाप्रोति य इह नानेव पश्यति।। १०।।

मनसैवेदमाप्तव्यं नेह नानास्ति किंचन।

मृत्यो: स मृत्युं गच्छति य इह नानेव पश्यति।। ११।।

अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति।

ईशानो भूतभव्यस्य न ततो विजुगुप्सते।। एतद् वै तत्।। १२ ।।

अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः।

ईशानो भूतभव्यस्य स एवाद्य स उ श्वः।। एतद् वै तत्।। १३।।

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति।

एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति।। १४।।

यथोदकं शुद्धेशुद्धमासिक्तं तादृगेव भवति।

एवं मुनेर्विजानत आत्मा भवति गौतम।। १५।।

इति द्वितीयेऽध्याये प्रथमा वल्ली ।।

द्वितीयोऽध्यायः द्वितीया वल्ली

पुरमेकादशद्वारमजस्यावक्रचेतस:

अनुष्ठाय न शोचति विमुक्तिश्च विमुच्यते।। एतद् वै तत्।। १।।

हंसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्।

नृषद् वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्।। २।।

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति।

मध्ये वामनमासीनं विश्वेदेवा उपासते।। ३।।

अस्य विस्त्रंसमानस्य शरीरस्थस्य देहिन:

देहाद्विमुच्यमानस्य किमत्र परिशिष्यते।। एतद् वै तत्।। ४।।

न प्राणेन नापानेन मर्त्यो जीवति कश्चन।

इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ।। ५।।

हन्तं त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्।

यथा च मरणं प्राप्य आत्मा भवति गौतम।। ६।।

योनिमन्ये प्रपधन्ते शरीरत्वाय देहिनः।

स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्।।७।।

य एष सुप्मेषु जागर्ति कामं कामं पुरूषो निर्मिमाणः।

तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।

तस्मिल्लोकाः श्रिताः सर्वे तदु नात्योति कश्चन।। एतद् वै तत्।। ८।।

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।

एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च।। ९।।

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।

एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च।। १०।।

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्रादोषैः।

एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन ब्राह्मः।। ११।।

एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति।

तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्।। १२।।

नित्यो नित्यानां चेतनश्चेतननामेको बहूनां यो विदधाति कामान्।

तमामत्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्।।१३।।

तदेतदिति मन्यन्तेऽनिर्दश्यं परमं सुखम्।

कथंतु तद्विजानीयां किम् भाति विभाति वा।।१४।।

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विधुतो भान्ति कुतोऽयमग्निः।

तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति।।१५।।

इति द्वितीयेऽध्याये द्वितीया वल्ली।।

 

द्वितीयोऽध्यायः तृतीया वल्ली

ऊर्ध्वमूलोऽवाक्शाखः एषोऽश्वत्थः सनातनः।

तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।

तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन।। एतद् वै तत्।। १।।

यदिदं किं च जगत्सर्वं प्राण एजति नि: सृतम्।

महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति।।२।।

भयादस्याग्निस्तपति भयात् तपति सूर्य:

भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम:।।३।।

इह चेदशकद् बोद्धुं प्राक् शरीरस्य विस्त्रस:

तत: सर्गेषु लोकेषु शरीरत्वाय कल्पते।। ४।।

यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके।

यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके।।५।।

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत्।

पृथगुत्पद्यमानानां मत्वा धीरो न शोचति।।६।।

इन्द्रियेभ्य: परं मनो मनस: सत्त्वमुत्तमम्।

सत्त्वादधि महानात्मा महतो­­­ऽव्यक्तमुत्तमम्।।७।।

अवयक्तात्तु पर: पुरुषो व्यापकोऽलिग्ड् एव च।

यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति।।८।।

न संदृशे तिष्ठति रुपस्य न चक्षुषा पश्यति कश्चनैनम्।

ह्रदा मनीषा मनसाभिक्लृप्तो य एतद् विदुरमृतास्ते भवन्ति।।९।।

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।

बुद्धिश्च न विचेष्टति तामाहु: परमां गतिम्।।१०।।

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्।

अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ।।११।।

नैव वाचा न मनसा प्राप्तुं शक्ये न चक्षुषा।

अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥१२॥

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः।

अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥१३॥

यदा सर्वे प्रमुच्यन्ते कामायेऽस्यहृदिश्रिताः।

अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥१४॥

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः।

अथ मर्त्योऽमृतो भवत्येतावद्धयनुशासनम् ॥१५॥

शतं चैका च हृदयस्य नाडयस्तासां मूर्धानमभिनिःसृतैका।

तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्डन्या उत्क्रमणे भवन्ति ॥१६॥

अग्डु.ष्ठमात्र: पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट:

तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण।

तं विद्याच्छुक्रममृतं विद्याच्छुक्रममृतमिति।।१७।।

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्त्रम्।

ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव।।१८।।

इति द्वितीयेऽध्याये तृतीया वल्ली।।

इति द्वितीयोऽध्यायः पूर्णः।।

 

शान्तिपाठः

ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।

तेजस्विनावधीतमस्तु। मा विद्विषावहै।

ॐ शान्ति:! शान्ति:!! शान्ति:!!!

इति कठोपनिषत् समाप्ता।।