Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

ईसावास्योपनिषत्
शान्तिपाठः

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।।
ॐ शान्तिः शान्तिः शान्तिः

इसावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत

तेन त्यक्तेन भुञ्जीथा मा गृध कस्य स्विद्धनम्।।1।।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे।।2।।
असुर्या नां ते लोका अन्धेन तमसावृताः।
तांस्ते प्रेत्याभिगच्छन्ति येते चात्महनो जनाः ।।3।।
अनेजदेकं मनसो जवीयो नैनद्देव आप्नुवन्पूर्वमर्शत्।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति।।4।।
तदेजति तन्नैजति तद्दूरे तद्वन्तिके।
तदन्तर्स्य सर्वस्य तदु सर्वस्यास्य बाह्यतः।।5।।
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति।
सर्वभूतेषु चात्मानं ततो न विजुगप्सते।।6।।
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्वजानतः।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः।।7।।
स पर्यगाच्छुक्रमकायमव्रणमस्रविरं शुद्धमपापविद्धिम्।
कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः।।8।।
अनधं तमः प्रविशति येऽविद्यामुपासते।
ततो भूय इव ते तमो य उ विद्यायां रताः।।9।।
अन्यदेवाहुर्विद्ययान्यदाहुरविद्याया।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे।।10।।
विद्यां चावीद्यां च यस्तद्वेदोभयं स ह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते।।11।।
अन्धं तमः प्रविशन्ति ये संभूतिमुपासते ।
ततो भूय इव ते तमो य उ संभूत्यां रताः ।।12।।
अन्यदेवाहुः संभवादन्यदाहुरसंभवात्।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे।।13।।
संभूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते।।14।।
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये।।15।।
पूषन्नेकर्षे यम सूर्यप्रजापत्यव्यूह श्मिन्समूह।
तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि।।16।।
वायुरनिलममृतमथेदं भस्मान्तं शरीरम्।
ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर।।17।।
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मड्डुहुराणमेवो भूयिष्ठां ते नम उक्ति विधेम।।18।।

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।।
ॐ शान्तिः शान्तिः शान्तिः


इति वाजसनेयसहितायामीशोपनुषत्संपूर्णा।।