अथ हठयोगप्रदीपिका

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

 

प्रथमोपदेश द्वितीयोपदेशः तृतीयोपदेशः चतुर्थोपदेशः 


 

अथ हठयोगप्रदीपिका
प्रथमोपदेशः
श्री आदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या।
विभ्रजते प्रन्नताजयोगमारोढुमुच्छोरधिरोहिणीव।।
1.1 नत्वा साम्बं ब्रह्मरूपं भाषायां योगवोधिका। मया मिहुरचन्द्रेण तल्यते हठदीपिका।।1।।
1.2 प्रणम्य श्रीगुरं नाथं स्वात्मारामेण योगिना। केवलं राजयोगाय हठविद्योपदिश्यते।।2।।
1.3 भ्रांत्या बहुमतध्वांते राजयोगमजानताम्। हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकर।।3।।
1.4 हठविद्यां हि मत्स्येंद्रगोरक्षाद्या विजानते। स्वात्मारामोथवा योगी यानीते तत्प्रसादतः।।4।।
1.5 श्रीआदिनाथमत्स्येन्द्रशावरानंदभैरवाः। चौरंगीमीनगोरक्षविरूपाक्षबिलेशयाः।।5।।
1.6 मंथानो भैरवो योगी सिद्धिर्बुद्धश्च कंथजिः। कोरंटकः सुरानन्दः सिद्धिपादश्च चर्पटिः।।6।।
1.7 कानेरी पूज्यपादश्च नित्यनाथो निरंजनः। कपाली बन्दुनाथश्च काकचण्डीश्वराह्वयः।।7।।
1.8 अल्लामः प्रभुदेवश्च गोडा चोली च टिंटिणिः। भानुकी नारदेवश्च खण्डः कापालिकस्तथा।।8।।    
1.9 इत्यादयो महासिद्धा हठयोगप्रभावतः। खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते।।9।।
1.10 अशेषतापतप्तानां समाश्रयमठो हठः। अशेषयोगयुक्तानामाधारकमठो हठः।।10।।
1.11 हठविद्या परं गोप्या योगिना सिद्धिमिच्छता। भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता।।11।।
1.12 सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्ववे। धनुः प्रमाणपर्यतं शिलाग्निजलवर्जिते। कान्ते मठिकामध्ये स्थातव्यं हठयोगिना।।12।।
1.13 अल्पद्वारमरंद्रगर्तविवरं नात्युच्चनीचीयतं सम्यग्गोमयसांद्र निप्तममलं निःशेषजंतूज्झितम्। बाह्ये मंडपवेदिकूपरुचिरं प्राकारसंवेष्टितं प्रोक्तंयोगमठस्यलक्षमिदं सिद्धैर्हठाभ्यासिभिः।।13।।
1.14 एवंविधे मठे स्थित्वा सर्वचिन्ताविवर्जितः। गुरुपदिष्टमार्गेण योगमेव समभ्यसेत्।।14।।
1.15 अत्याहारः प्रयासश्च प्रयल्पो नियमग्रहः। जनसङ्गश्च लोल्यं च षड्भिर्योगो विनश्यति।।15।।
1.16 उत्साहात्साहसाद्धैर्यात्तत्त्वाज्ञानाच्च निश्यात्। जनसंगपरित्यागात्षड्भिर्यागः प्रसिद्धयति।।16।।
अथ यमनियमाः
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः। दयार्जवं मिताहारः शौचं चैव यमा दश।।
तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम्। सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो पुतम्।। नियमा दश संप्रोक्ता योगशास्त्र विशारदैः।।
1 / 17 हठस्य प्रथमांगत्वादासनं पूर्वमुच्यते। कुर्यात्तदासने स्थैर्यमारोग्यं चांगलाघवम्।।17।।
1 / 18 वसिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः। अङ्गीकृतान्यासन्नि कथ्यंते कानिचिन्मया।।
1 / 19 जानूर्वोरंतरे सम्यक्कृत्वा पादतले उभे। ऋजुकायः समासीनः स्वस्तिके तत्प्रचक्षते।।
1 / 20 सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत्। दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृति।।
1 / 21 एकं पादं तथैकस्मिन्वन्यसेदुरुणि स्थितम्। इतरस्मिंस्तथा चोरुं वीरासनमितीरितम्।।
1 / 22 गुदं निरुद्ध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः। कुरमासनं भवेदेतदिति योगविदो विदुः।।
1 / 23 पद्मासनं तु संस्थाप्य जानूर्वोरंतरे करौ। निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम्।।    
1 / 24 कुक्कुटसनबंधस्थो दोर्भ्यां संबध्य कंधराम्। भवेत्कूर्मवदुत्तान एतदुत्तानकूर्मकम्।।
1 / 25 पादांगुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि। धनुराकर्षणं कुर्याद्धनुरासनमुच्यते।।
1 / 26 वामोरुमूलार्पितदक्षपादं जोनोर्बहिर्वेष्टितवामपादनम्। प्रगृह्य तिष्ठेत्परिवर्तितांगः श्रीमत्स्यनाधोदितमासनं स्यात्।
1 / 27 मत्स्येन्द्रपीठं जठरप्रदीप्तिं प्रचंजरुग्मंडखंडनास्त्रम्। अभ्यासतः कुंडलनीप्रबोधं जन्द्रस्थिरत्वं च ददाति पुंसाम्।।
1 / 28 प्रसार्य पादौ भुवि दंडरूपौ दोर्भ्या पदाग्रद्वितयं गृहीत्वा। जानूपरिन्यस्तललाटदेशो वसेदिदं पशिचमतानमाहुः।।
1 / 29 इति पशिचिमतानमासनाग्र्यं पवनं पश्चिमवाहिनं करोति। उदयं जठआरनलस्य कुर्यादुदरे कार्श्यमरोगतां च पुंसाम्।।
1 / 30 धरामवष्टभ्य करद्वयेन तत्कूर्िस्थापितनाभिपार्श्वः। उच्चासनो दंडवदुत्थितः स्यान्ायूरमेतत्प्रवदेति पूठम्।।
1 / 31 हरति सकलरोगानाशु गुल्मोदरादीनभिभवति च दोषानासनं श्रीमयूरम्। बहु कदशनभुक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत्कालकूटम।।
1 / 32 उत्तानं शववद्भूमौ शयनं तच्छवासनम्। शवासनं श्रांतिहरं चित्तविश्रांतिकारकम्।।
1 / 33 चतुरशीत्यासनानि शिवेन कथितानि च। तेभियशिचतुष्कमादाय सारभूतं ब्रवीम्यहम्।।
1 / 34 सिद्धं पद्मे तथा सिंहं भद्रं चेति चतुष्टयम्। श्रेष्ठंतत्रापि च सुखे तिष्ठेन्सिद्धासने सदा।।
1 / 35 योनिस्थाकमंघ्रिमूलघटितं कृत्वा दृढं विन्यसेन्मेन्ढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम्। स्थाणुः संयमिर्तेद्रियोऽचलदृशा पश्येद्भ्रुवोरंतरं ह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते।।
1 / 36 मेढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फांतरं च निक्षिप्य सिद्धासनमिदं भवेत्।।
1 / 37 एतत्सिद्धासनं ब्रहुरन्ये वज्रासनं विदुः । मुक्तासनं वदंत्येके प्राहुर्गुप्तासनं परे।।
1 / 38 यमेष्विव मिताहारमहिंसां नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः।।
1 / 39 चतुरशीतिपीठेषु सुद्धमेव सदाभ्यसेत्। द्वासप्ततिसहस्राणां नाडीनां मलशोधनम्।।
1 / 40 आत्मध्यायी मिताहारि यावद्द्वादशवतसरम्। सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात्।।    
1 / 41 किमन्यैर्बहुभिः पूठैः सिद्धे सिद्धासने सति। प्राणानिले सावधाने बद्धे केवलकुंभके।।
1 / 42 उत्पद्यते निरायासात्स्वयमेवोन्मनी कला। तथैकस्मिन्नेव दृढे सिद्धे सिद्धासने सति। बंधत्रयमनायासात्स्वयमेवोपजायते।।
1 / 43 नासनं सिद्धसदृशं न कुंभः केवलोपमः।। न खेचरीसमा मुद्रा न नादसदृशो लयः।।
1 / 44 वोमोरूपरि दक्षिणं च चरणं संस्शाप्य वामं तथा दक्षोरूपिर पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्। अंगुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेदेतद्वयाधिविनाशकारि यमिनां पद्मासनं प्रोच्यते।।
1 / 45 नासाग्रं विन्यसेद्रारदंतमूले तु जिह्वया। उत्तंभ्य चिबुकं वक्षस्युत्थाप्य पवनं शनैः।।
1 / 46 इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम्। दुर्लभं येन केनापि धीमता लभ्यते भुवि।।
1 / 47 कृत्वासंपुटितौ करौ दृढतरं बद्धवा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि।।
1 / 48 वारंवारमपानमूर्ध्वमनिलं प्रोत्सारयन्पूरितंन्यंचन्प्रणमुपैति बोधमतुलं शक्तिप्रभावान्नरः।।
1 / 49 पद्मासने स्थितो योगी नाडीद्वारेण पूरितम्। मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः।।अथ सिंहासनम्
1 / 50 गुल्फौ च वृषणस्याधः सीवन्या पार्श्वयोः क्षिपेत्। दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके।।
1 / 51 हस्तौ तु जान्वोः संस्थाप्य स्वांगुलीः संप्रसार्य च। व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः।।
1 / 52 सिंहासनं भवेदेतत्पूजितं योगिपुंगवैः। बन्धत्रितयसंधानं कुरुते चासनोत्तमम्।। अथ भद्रासनम्
1 / 53 गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्। सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे।।    
1 / 54 पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम्। भद्रासनं भवेदेतत्सर्वव्याधि विनाशनम्।।
1 / 55 गोरक्षासनमित्याहुरिदं वै सिद्धयोगिनः। एवमासनवंधेषु योगींद्रो विगतश्रमः।।
1 / 56 अभ्यसेन्नाजिकाशुद्धिं मुद्रादिपवनक्रियाम्। आसनं कुंभकं चित्रं मुद्राख्यं करणं तथा।।
1 / 57 अथ नादिनुसंधानमभ्यासानुक्रमो हठे। ब्रह्मचारी मिताहारी त्यागी योगपरायणः। अब्दादूर्ध्वं भवेत्सिद्धो नात्रकार्या विचारणा।।
1 / 58 सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः। भुज्यते शिवसंप्रीत्यै मिताहारः स उच्यते।।
1 / 59 कट्वम्वतूक्ष्णलवणोष्णहरीतशाकसौवीरतैलतिलसर्षपमद्यमत्स्यान्। आजादिमांसदधितक्रकुलत्थकोलपिण्याकहिंगुलशुलाद्यमपथ्यमाहुः।।
1 / 60 भोजनमिहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम्। अतिलवणमम्लयुक्तं क-शनशाकोत्कटं वर्ज्यम्।।
1 / 61 वह्निस्त्रीपथिसेवानामादौ वर्जनमाचरेत्। तथाहि गोरक्षवचनम् - “वर्जयेद्दुर्जनप्रांतं वह्निस्त्रीपथिसेवनम्। प्रातःस्नानोपसादि कायक्लेशविधिं तथा”।।
1 / 62 गोधूमशालियवषाष्टिकशोभनान्नक्षीराज्यखंडनवनीतसितामधूनि। शुठीपटोलकफलादिकपंचशाकंमुद्गादि दिव्यमुदकंच यमीन्द्रपथ्यम्।।
1 / 63 पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम्। मवोभिलषितं योग्यं योगी भोजनमाचरेत्।।
1 / 64 युवा वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिमाप्नोति सर्वयोगेष्वतंद्रितः।।
1 / 65 क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत्। न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते।।
1 / 66 न वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सत्यमेतन्न संशयः।।
1 / 67 पीठानि कुंभकाश्चित्रा दिव्यानि करणानि च। सर्वाण्यापि हठाभ्यासे राजयोगफलावधि।।
इति श्रीसहजानंदसंतानचिंतामणिस्वात्मारामयोगीन्द्रविरचितायां हठयोगप्रदिपिकायामासनविधिकथनं नाम प्रथमोपदेशः।।1।।
अथ द्वितीयोपदेशः
                                         
2 / 1 अथासने दृढे योगी वशी हितमिताशनः। गरूपदिष्टमार्गेण प्राणायामान्समभ्यसेत्।।1।।
2 / 2 चले वाते चलं चित्तं निश्चले निश्चलं भवेत्। योगी स्थाणुत्वमाप्नोति ततो वायुं विरोधयेत्।।
2 / 3 यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते। मरणं तस्यनिष्क्रांतिस्ततो वायुं निरोधयेत्।।
2 / 4 मलाकुलासु नाडीषु मारुतो नैव मध्यगः। कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत्।।
2 / 5 शुद्धिमेति यदा सर्वं नाडीचक्रं मनाकुलम्। तदैव जायते योगी प्रणसंग्रहणे क्षमः।।
2 / 6 प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया। यथा सुषुम्नानाडीस्था मलाः शुद्धिं प्रयांति च।।
2 / 7 बद्धपद्मासनो योगी प्राणं चंद्रेण पूरयेत्। धारयित्वा यथाशक्तिः भूयः सूर्येणरेचयेत्।।
2 / 8 प्राणं सूर्येण चाकृष्य पूरयदुदरं शनैः। विधिवत्स्तंभकं कृत्वा पुनश्चंद्रेण रेचयेत्।।
2 / 9 येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः। रेचयेच्च ततोऽन्येन शनैरेव न वेगतः।।
2 / 10 प्राणं चेदिडया पिबेन्नयमितं भूयोऽन्यया रेचयेत्पीत्वा पिंगलया समीरणमथो बद्ध्वा त्यजेद्वामया।। सूर्या चन्द्रमसोहनेन विधिनाभ्यासं सदा तन्वतां । शुद्धा नाडिगणा भवंति यमिवां मासत्रयादूर्ध्वतः।।
2 / 11 प्रातर्मध्यंदिने सायमर्धरात्रे च कुंभकान्। शनैरशीतिपर्यतं चतुर्वारं समभ्यसेत्।।
2 / 12 कनीयसि भवेत्स्वेदः कंपो भवति मध्यमे। उत्तमे स्थानमाप्नोति ततो वायुं निबंधयेत्।।    
2 / 13 जलेन श्रमजातेन गात्रमर्दनमाचरेत्। दृढता लघुता चैव गात्रस्य जायते।।
2 / 14 अभ्यासकालं प्रतमे शस्तं क्षीराज्यभोजनम्। ततोऽभ्यासे न तादृङ्नियमग्रहः।।
2 / 15 यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः। तथैव सेवितो वायुरन्यथा हंति साथकम्।।
2 / 16 प्रणायामादियुक्तेन सर्वरोगक्षयो भवेत्। अयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः।।
2 / 17 हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदनाः। भवंति विविधा रोगाः पवनस्य प्रकोपतः।।
2 / 18 युक्तं युक्तं त्येद्वायुं युक्तं युक्तं च पूरयेत्ष युक्तं युक्तं च बध्नूयादेवं सिद्धिमवाप्नुयात्।।
2 / 19 यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि वाह्यतः। कायस्य कृशता कांतिस्तदा जायेत निश्चितम्।।
2 / 20 यथेष्टधारणं वायोरनलस्य प्रदीपनम्। नादाभिव्यक्तिरारोग्यं जायते नाडीशोधनात्।।
2 / 21 मेदः श्लेष्माधिकः पूर्वः षट्कर्मणि समाचरेत्। अन्यस्तु नाचरेत्तानि दोषाणां समभावतः।।
2 / 22 धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते।।
2 / 23 कर्मषट्कमिदं गोप्य गटशोधनकारकम्। विचित्रगुणसंधायि पूज्यते योगिपुंगवैः।। तत्र धौतिः --
2 / 24 चतुरंगुल विस्तारं हस्तपंचदशायतम्। गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत्। पुनः प्रत्याहरेच्चैतदुदितं धौति कर्म तत्।।
2 / 25 कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः। धौतिकर्मप्रभावंन प्रयांत्येव न संशयः।।
2 / 26 नाभिदघ्नजले पायौ न्यस्नालोत्कटासनः। आधाराकुञ्चनं कुर्य्यात्क्षालनं वस्तिकर्म तत्।।    
2 / 27 गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः। बस्तिकर्मप्रभावेन क्षीयंते सकलामयाः।।
2 / 28 धात्विंद्रियांतःकरणप्रसादं दद्याच्च कांति वहनप्रदीप्तिम्। अशेषदोषोपचयं निहन्यादभ्यस्यमानं जलवस्तिकर्म।। अथ नेति ---
2 / 29 सूत्रं वितस्तिसुस्निग्धं नासानाले प्रवेशयेत्। मुखान्नर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते।।
2 / 30 कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी। जत्रूर्ध्वजातरोगौघं नेतिराशु लिहंति च।। अथ त्राटकम् –
2 / 31 निरीक्षेन्नश्चलदृशा सूक्ष्मलक्ष्यं समाहितः। अश्रुसंपातपर्यंतमाचार्यैस्त्राटकं स्मृतम्।।
2 / 32 मोचनं नेत्ररोगाणां तंद्रादीनां कपाटकम्ा। यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम्।। अथ नौलिः –
2 / 33 अमंदावर्तवेगेन तुंदं सव्यापसव्यतः। नतांसो भामयेदेषा नौलिः सिद्धैः प्रचक्षते।।
2 / 34 मंदाग्निसंदीपनपाचनादिसंधापिकानंदकरी सदैव। अशेषदोषाम शोषणी च हठक्रिया मोनिरियंच नौलिः।।
2 / 35 भस्त्रावल्लोहकारस्य रेचपूरौ ससंभ्रमौ। कपालभातिर्विख्याता कफदोणविशोषणी।।
2 / 36 षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः। प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति।।
2 / 37 प्रामायामैरेव सर्वे प्रशुष्यंति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम्।।
2 / 38 उदरगतपदार्थमुद्वमंति पवनमपानमुदीर्य कंठनालं। क्रमपरिचयवश्यनाजिवक्रा गजकरणीति निगद्यते हठैज्ञैः।।
2 / 39 ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः। अभूवन्नंतकभयात्तस्मातपवनमभ्यसेत्।।
2 / 40 यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम्। यावदृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः।।
2 / 41 विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते। सुषुम्नावदनं भित्त्वा सुखाद्विशति मारुतः।।
2 / 42 मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते। यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी।।
2 / 43 तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुंभाकन् । विचित्र कुंभकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात्। अथकुंभकभेदाः
2 / 44 सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लविनीत्युष्टकुंभकाः।।
2 / 45 पूरकांते तु कर्तव्यो बंधो जालंधराभिधः। कुंभकांते रेचकादौ कर्तव्यस्तुड्डियानकः।।
2 / 46 अधस्तात्कुंचनेनाशु कंठसंकोचने कृते। मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः।।
2 / 47 अपानमूर्ध्वमुत्थाप्य प्राणं कंठादधो नयेत्। योगी जरीविमुक्तः सन्षोडशाब्दवयो भवेत्। अथ सूर्यभेदनम्     
2 / 48 आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः।।
2 / 49 आकेशादानखाग्राच्च निरोधावधि कुंभयेत्। ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः।
2 / 50 कपालशोधनं वातदोषघ्वं कृमिदोषहृत्। पुनःपुनरिदं कार्यं सूर्यभेदनमुत्तमम्।। अथोज्जायी
2 / 51 मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः। यथा लगति कंठात्तु हृदयावधि सस्वनम्।।
2 / 52 पूर्ववत्कुंभयेत्प्राणं रेचयेदिडिया ततः। श्लेष्मदोषहरं कंठे देहानलविवर्धनम्।।
2 / 53 नाडीजलोदराधातुगतदोषविनाशनम्। गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुंभकम्।। अथ सीत्कारी
2 / 54 सीत्कां कुर्यात्तथा वक्त्रे ग्राणंनैव विजृंभिकाम्। एवमभ्यासयोगेन कामदेवो द्वितीयकः।।
2 / 55 योगिनी चक्रसामान्य सृष्टिसंहारकारकः। न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते।।
2 / 56 भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जितः। अनेन विधिना सत्यं योगीन्द्रो भूमिमंडले।। अथ शीतली
2 / 57 जिह्वया वायुमाकृष्य पूर्ववत्कुंभसाधनम्ष शनकैघ्राणरंध्राभ्यां रेचयेत्पवनं सुधीः।।
2 / 58 गुल्मप्लाहादिकान्रोगाञ्जवरं पित्तं क्षुधां तृषाम्। विषाणि शीतली नाम कुंभिकेयं निहंति हि।। अथ भस्त्रिका
2 / 59 ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम्।।
2 / 60 सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरं सुधीः। मुखं संयम्य यत्नेन घ्राणं घ्राणेन रेचयेत्।।
2 / 61 यथा लगति हृत्कंठे कपालावधि सस्वनम्। वेगेन पूरयेच्चापिहृत्पद्मावधि मारुतम्।।
2 / 62 पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः। चथैव लोहकारेण भस्त्रा वेगेन चाल्यते।।
2 / 63 तथैव स्वशरीस्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत्।।    
2 / 64 यथोदरं भवेत्पूर्णमनिलेन तथा लघु । धारयेन्नासिकां मध्यतर्जनीभ्यां विना दृढम्।।
2 / 65 विधिवत्कुंभकं कृत्वा रेचयेदिडयानिलम्। वातित्तश्ल्ष्महरं शरीराग्निविवर्धनम्।।
2 / 66 कुंडलीबोधकं क्षिप्रं पवनं सुखदं हितम्। ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम्।।
2 / 67 सम्यग्गात्रसमुद्भूतं ग्रंथित्रयविभेदकम्। विशेषेणैव कर्तव्यं भस्त्राख्यं कुंभकं त्विदम्।। अथ भ्रामरी
2 / 68 वेगाद्घोषं पूरकं भृंगनादं बृंगीनादं रेचकं मंदमंदम्। योगींद्राणामेवमभ्यासयोगाच्चित्ते जाता काचिदानंदलीला।। अथ मूर्च्छा
2 / 69 पूरकांते गाढतरं बद्ध्वा जालंधरं शनैः। रेचयेन्मूर्च्छनाख्येयं मनोमूर्च्छा सुखप्रदा।। अथ प्लाविनी
2 / 70 अन्तः प्रतर्तितोदारमारुतापूरितोदरः. पयस्यगाधेऽपि सुखात्प्लवते पद्मपत्रवत्।।
2 / 71 प्राणायाम स्त्रिधा प्रोक्तो रेचपूपककुंभकैः। सहीतः केवलश्चेति कुंभको द्विविधो मतः।।
2 / 72 यावत्केवल सिद्धिः स्यात्सहितं तावदभ्यसेत्। रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम्।।
2 / 73 प्राणायामोऽमित्युक्तः ,वै केवलकुंभकः। कुंभके केवले सिद्धे रेचपूरकवर्जिते।।
2 / 74 न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते। शक्तः केवलकुंभेन यथेष्टं वायुधारणात्।।
2 / 75 राजयोगपदं चापि लभते नात्र संशयः। कुंभकात्कुंडलीबोधः कुंडलीबोधतो भवेत्।।
2 / 76 अनर्गली सुषुम्ना च हठसिद्धिश्च जायते। हठं विना राजयोगं राजयोगं विना हठः। न सिद्ध्यति ततो यग्मामानिष्पत्तः समभ्यसेत्।।
2 / 77 कुंभकप्रणरोधांते कुर्याच्चित्तं निराश्रयसम्। एवमभ्यासयोग्न रायोगपदं व्रजेत्।।
2 / 78 वपुःकृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्मले। अरोगता विंदुजयोऽग्निदीपनं नाडीविशुद्धिर्हठयोगलक्षणम्।।
इति हठयोगप्रदीपिकायां द्वितीयोपदेशः
अथ तृतीयोपदेशः
                                        
3 / 1 सशैलवनधात्रीणां यथाधारोऽहिनायकः। सर्वेषां योगतंत्राणां तथाधारो हि कुंडली।।
3 / 2 सुप्ता गुरुप्रसादेन यदा जागर्ति कुंडली। तदा सर्वाणि पद्मानि भिद्यंते ग्रंथयोऽपि च।।
3 / 3 प्राणस्य शून्यपदवी तथा राजपथायते। तदा चित्तं निरालंबं तदा कालस्य वंचनम्।।
3 / 4 सुषुम्ना शून्यपदवी ब्रह्मरंध्रं महापथः। श्मशानं शांभवी मध्यमार्गश्चेत्येकवाचकाः।।
3 / 5 तस्मात्सर्वप्रयत्नेन प्रबोधयितुमूश्वरीम। ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत।।
3 / 6 महामुद्रा महाबंधो सहावेधश्च खेचरी । उड्यानं मूलबंधश्च बंधो जालंधराभिधः।
3 / 7 करणी विपरीताख्या वाज्रोली शक्तिचालनम्। इदं हि मुद्रादशकं जरामरणलाशम्।।
3 / 8 आदिनाथोदितं दिव्यमषटैश्वर्यप्रदायकम्। वल्लभै सर्वसिद्धानां दुर्लभं मरूतामपि।।
3 / 9 गोपनीयं प्रयत्नेन यथा रत्नकरंडकम्। कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा।। अथ महामुद्रा
3 / 10 पादमूलेन वामेन योनिं संपीड्य दक्षिणम्। प्रसारितं पदं कृत्वा धराभ्यां धारयेद्दृढम्।।
3 / 11 कंठे बंधं समारेप्य धारयेद्वायुमूर्ध्वतः। यथा दंडहतः सर्पो दंडाकारः प्रजायते।।
3 / 12 ऋज्वीभूता तथा शक्तिः कुंडली सहसा भवेत्। तदा सा मरणावस्था जायते द्विपुटाश्रया।।
3 / 13 ततः सवैःसनैरेव रेचयेन्नैव वेगतः। महामुद्रा च तेनैव वदन्ति विबुधोत्तमाः।।
3 / 14 इयं खलु महामुद्रा महासिद्धैः प्रदर्शिता। महाक्लेशादयो दोषाः क्षीयंते मरणादयः।
3 / 15 चन्द्रांगे तु समभ्यस्य सूर्यांगे पुनरभ्येसेत्। यावत्तुलया भवेत्संखया ततो मुद्रां विसर्जयेत्।।
3 / 16 न हि पथ्यमपथ्यं वा रसाः सर्वैऽपि नीरसाः। अपि भुक्तं विषं घोरं पीयूषमपि जीर्यति।।
3 / 17 क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः । तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत्।।
3 / 18 कथितेयं महामुद्रा महासिद्धिकरा नृणाम्। गोपनीया प्रयत्नेन न देया यस्य़ कस्यचित्।।
3 / 19 पार्ष्णि वामस्य पादस्य योनिस्थाने नियोजयेत्। वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा।।    
3 / 20 पुरयित्वा ततो वायुं हृदये चुबुकं दृढम्। निष्पीड्य वायुमाकुंच्य मनोमध्ये नियोजयेत्।।
3 / 21 धारयित्वा यथाशक्ति रेचयेदनिलं शनैः। सव्यांगे तु समभ्यस्य दक्षांगे पुनरभ्यसेत्।।
3 / 22 मतमत्र तु केषांचित्कंठबंधं विवर्जयेत्। राजदंतस्थजिह्वाया बंधः शस्तो भवेदिति।।
3 / 23 अयं तु सर्वनाडीनामूर्ध्वं गतिनिरोधकः। अयं खलु महाबंधो महासिद्धिप्रदायकः।।
3 / 24 कालपाशमहाबंधविमोचन विचक्षणः। त्रिवेणीसंगमं धत्ते केदारं प्रापयेन्मनः।।
3 / 25 रूपलावण्यसंपन्ना यथा स्त्री पुरुषं विना। महामुद्रामहाबंधौ निष्फलौ वेधवर्जितौ।। अथ महावेधः
3 / 26 महाबंधस्थितो योगी कृत्वा पूरकमेकधीः। वायूनां गतिमावृत्य निभृतं कंठमुद्रया।।
3 / 27 समहस्तयुगो भूमौ स्फिचौ सताडयेच्छनैः। पुटद्वयमतिक्रम्य वायुः स्फुरति मध्यगः।।
3 / 28 सोमसूर्याग्निसंबंधो जायते चामृताय वै। मृतावस्था समुत्पन्नाततो वायुं विरेचयेत्।।
3 / 29 महावेधोऽयमभ्यासान्महासिद्धिप्रदायकः। वलीपलितवेपघ्नः सेव्यते साधकोत्तमैः।।
3 / 30 एतत्त्रयं महागुह्यं जरामृत्युविनाशनम्। वह्निवृद्धिकरं चैव ह्यणिमादिगुणप्रदम्।।
3 / 31 अष्टधा क्रयते चैव यामे यामे दिने दिने। पुण्यसंभारसंधायि पापौघभिदुरं सदा। सम्यक्शिक्षावतामेवं स्वल्पं प्रथमसाधनम्।।
3 / 32 कपालकुहरे जिह्वा प्रविष्टा विपरीतगा। श्रुवोरंतर्गता दृष्टिर्मुद्रा भवति खेचरी।।
3 / 33 छेदनचालनदोहैः कलां क्रमेण वर्धयेत्तावत्। सा यावद्भ्रूमध्यं सपृशति तदा खेचरीसिद्धिः।।
3 / 34 स्ुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम्। समादाय ततस्तेन रोममात्रं समुच्छिनेत्।।    
3 / 35 ततः सैंधवपथ्याभ्यां चूर्णिताभ्यां प्रगर्षयेत्। पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छेनेत्।।
3 / 36 एवं क्रमेण षण्मासं नित्यं युक्तः समाचरेत्। षण्मासाद्रसनामूलशिलाबंधः प्रणश्यति।।
3 / 37 कलां पराङममुखीं कृत्वा त्रिपथे परियोजयेत्। सा भवेत्खेचरी मुद्रा व्योमचक्रं तदुच्यते।।
3 / 38 रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति । विषैर्विमुच्यते योगी व्याधिमृत्युजरादिभिः।।
3 / 39 न रोगो मरणं तंद्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्।।
3 / 40 पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न सकालेन यो मुद्रा सिद्धेर्निरूपिता।।
3 / 41 खेचर्या मुद्रितं येन विवरं लंविकोर्ध्वतः। न तस्य क्षरते बिंदुः कामिन्याः श्लेषितस्य च।।
3 / 42 चलितोऽपि यदा बिंदुः संप्राप्तो योनिमंडलम्। व्रजत्यूर्द्धं हृतः शक्त्या निबद्धो योनिमुद्रया।।
3 / 43 ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः। मासार्धेन न संदेहो मृत्युं जयति योगवित्।।
3 / 44 नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः। तक्षकेणापि दष्टस्य विषं तस्य न सर्पति।।
3 / 45 इंधनानि यथा वह्निस्तलवर्त्ति च दीपकः। तथा सोमकलापूर्णं देही देहं न मुंचति।।
3 / 46 गोमांसं भक्षयेन्नित्यं पिबेदमरवारुणीम्। कुलीनं तमहं मल्ये चेतरे कुलघातकः।।
3 / 47 गाशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि। गोमांसभक्षणं तत्तु महापातकनाशम्।।
3 / 48 जिह्वाप्रवेशसंभूतवह्निनोत्पादितः खलु। चन्द्रात्स्रवति यः सारः य स्यादमरवारूणी।।    
3 / 49 चुम्बंती यदि लंबिकाग्रमनिशं जिह्वारसस्यंदिनी सक्षारा कटुकाम्लदुग्धसदृशी मध्वाज्यतुल्या तथा । व्याधीनां हरणं जरांतकारणं शस्त्रागमोदीरणं तस्य स्यादमरत्वमष्टगुणितं सिद्धांगनाकर्षणम्।।
3 / 50 मूर्ध्नःषोडशपत्रपद्मगलितं प्राणादवाप्तं हठादूर्ध्वास्यो रसनां नियम्य विवरे शक्तिं परा चिंतयन्। उत्कल्लोकलाजलं च विमलं धारामयं यः पिबेन्निर्व्याधिः स मृणालकोमलवपुर्योगी चिरं जीवति।।
3 / 51 यत्प्रालेयं प्रहितसुषिरं मेरुमूर्धांतरस्थं तस्मिंस्तत्त्वं प्रवदति सुधीस्तनमुखं निम्नगानाम्। चंद्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणां तद्बध्नीयात्सुकरणमथो नान्यथा कार्यसिद्धिः।।
3 / 52 सुषिरं त्रानजनकं पंचस्रोतः समन्वितम्। निष्ठते खेचरी मुद्रा तस्मिञ्शून्ये निरञ्जने।।
3 / 53 एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी। एको देवो निरालंब एकावस्था मनोन्मनी।। अथोड्डीयीनबन्धः
3 / 54 बद्धो येन सुषम्नायां प्राणस्तूड्डीयते यतः। तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः।।
3 / 55 उड्डीनं कुरुते यस्मादविश्रांतं महाखगाः । उड्डीयानं तदैव स्यात्तत्र बंधोऽभिधीयते।।
3 / 56 उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत्। उड्डीयानो ह्यासौ बेधो मृत्युमातंगकेसरी।।
3 / 57 उड्डीयानं तु सहजं गुरणा कथितं सदा। अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते।।
3 / 58 नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः। षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः।।
3 / 59 सर्वेषामेव बंधानामुत्तमो ह्युड्डीयानकः। उड्डीयाने दृढे मुक्तिः स्वाभाविकी भवेत्।। अथ मूलबंधः
3 / 60 पार्ष्णिभागेन संपीड्य योनिमाकुंचयेद्गुदम्। अपानमूर्ध्वमाकृष्य मूलबंधोऽभिधीयते।।    
3 / 61 अधोगतिमपानं वा ऊर्ध्वगं कुरुते बलात्। आंकुचनेन तं प्राहुर्मुलबंध हि योगिनः।।
3 / 62 गुदं पार्ष्ण्या तु संपीड्य वायुमाकुंचयेद्बलात्। वारं वारं यथा चोर्ध्वं समायाति समीकरणः।।
3 / 63 प्राणापानौ नादबिंदु मूलबंधेन चैकताम्। गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः।।
3 / 64 अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः। युवा भवति वृद्धोऽपि सततं मूलबंधनात्।।
3 / 65 अपाने ऊर्ध्वगे जाते प्रयाते वह्निमंडलम्। तदाऽनलशिखा दीर्घा जायते वायुनाऽऽहता।।
3 / 66 ततो यातो वह्न्यपानौ प्राणमुष्णस्वरुकम्। तेवात्यंतप्रदीप्तस्तु ज्वलनो देहजस्तथा।।
3 / 67 तेन कुंडलिनी सुप्ता संतप्ता संप्रबुध्यते। दंडाहता भुजंगीव निश्वस्य ऋजुतां व्रजेत्।।
3 / 68 विलं प्रविष्टेव ततो ब्रह्मनाड्यंतरं व्रजेत्। तस्मान्नित्यं मूलबंधः कर्तव्यो योगिभिः सदा।।
3 / 69 कंठमाकुंच्य हृदये स्थापयेच्चिबुकं दृढम्। बंधो जालंधराख्यऽयं जरामृत्युविनाशकः।।
3 / 70 बध्नाति हि शिराजालमधोगामि नभो जलम्। ततो जालंधरो बंधः कंठदुःखौघनाशनः।।
3 / 71 जालंधरे कृते बंधे कंठसंकोजलक्षणे। न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति।।
3 / 72 कंठसंकोचनेनैव द्वे नाड्यौ स्तंभयेद्दृढम्। मध्यचक्रमिदं ज्ञेयं षोडशाधारबंधनम्।।
3 / 73 मूलस्थानं समाकुंच्य उड्डियानं तु कारयेत्। इडां च पिंगलां बद्ध्वा वाहयेत्पश्चिमे पथि।।
3 / 74 अनेनैव विधानेन प्रयाति पवनालयम्। ततो न जायते मृत्युर्जरारोगादिकं तथा ।।
3 / 75 बंधत्रयमिदं श्रेष्ठं महासिद्धैश्च सेवितम्। सर्वेषां हठतंत्राणां साधनं योगिनो विदुः।।
3 / 76 यत्किंत्स्रवते चंद्रादमृतं दिव्यरूपिणः। तत्सर्वं ग्रसते सूर्यस्तेन पिंडो जरायुतः।।
3 / 77 तत्रास्ति करणं दिव्यं सूर्यस्य मुखवेचनम्। गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः।।
3 / 78 ऊर्ध्वं नाभेर्धस्तालोरूर्ध्वं भानुरधः शशी। करणी विपीरताख्या गुरुवाक्येन लभ्यते।।    
3 / 79 नित्यमभ्यासयुक्तस्य जठराग्निविवर्धिनी। आहारो बहुलस्तस्य संपाद्यः साधकस्य च।।
3 / 80 अल्पाहारो यती भवेदग्निर्दहति तत्क्षणात्। अधः शिराश्चोर्ध्वपादः क्षणं स्यात्प्रतमे दिने।।
3 / 81 क्षणाच्च किंचिदधिकमभ्यसेच्च दिने दिने। वलितं पलितं चैव षण्मालोर्ध्वं न दृश्यते। याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित्।। अथ वज्रोली
3 / 82 स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना। वज्रोलिं यो विजानाति स योगी सिद्धिभाजनम्।।
3 / 83 तत्र वस्तुद्वयं वक्ष्ये दुर्लभं यस्य कस्यचित्। क्षीरं चैकं द्वितीयं तु नारी च वशवर्तिनी।।
3 / 84 मेहनेन शनैः सम्यगूर्ध्वाकुंचनमभ्यसेत्। पुरुषोऽप्यथवा नारी वज्रोलीसिद्धिमाप्नुयात्।।
3 / 85 यत्नतः शस्तनालेन फूत्कारं वज्रकंदरे। शनैः शनैः प्रकुर्वीत वायुसंजारकारणात्।।
3 / 86 नारीभगे पतद्बिंदुमभ्यसेनोर्ध्वमाहरेत्। चलितं च निजं बिंदुमूर्ध्वमाकृष्य रक्षयेत्।।
3 / 87 एवं संरक्षयेद्बिंदुं मृत्यु जयति योगवित्। मरणं बिंदुपातेन जीवनं बिंदुधारणात्।।
3 / 88 सुगंधो योगिनो देहे जायते बिंदुधारणात्। यावद्बिंदुः स्थिरो देहे तावत्कालभयं कुतः।।
3 / 89 यित्तायत्तं नृणां शुक्रं शुक्रायत्तं च जीवितम्। तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः।।
3 / 90 ऋतुमत्या रजोऽप्येवं बीजं बिंदुं च रक्षयेत्। मेढ्रेणाकर्णयेदूर्ध्वं सम्यगभ्यासयोगवित्।।
3 / 91 सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः। जले सुभस्म निक्षिप्य दग्ध,गोमयसंभवम्।।
3 / 92 वज्रोलीमैथुनादूर्ध्वं स्त्रीपुंसोः स्वांगलेपनम्। आसीनयोः सुखेनैव मुक्तव्यापारयोः क्षणात्।।
3 / 93 सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा। अयं शुभकरो योगो भोगयुक्तोऽपि मुक्तिदः।।
3 / 94 अयं योगः पुण्यवतां धीराणां तत्त्वदर्शिनाम्। निर्मत्सहाणां सिध्येत न तु मत्सरशालिनाम्।।
3 / 95 पित्तोल्वणत्वात्प्रथमांबुधारां विहाय निःसारतयांत्यधारा। निषेव्यते शीतलमध्यधारा खंडमतेऽमरोली।। अथामरोली
3 / 96 अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिनेदिने। वज्रोलीमभ्यसेत्सम्यगमरोलीति कथ्यते।।
3 / 97 अभ्यासान्नःसृतां चांद्रीं विभुत्या सह मिश्रयेत्। धारयेदुत्तमागेषु दिव्यदृष्टिः प्रजायते।।
3 / 98 पुंसो बिंदुं समाकुंच्य सम्यगभ्यासपाटवात्। यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी।।
3 / 99 तस्याः किंचिद्रजो नाशं न गच्छति न संशयः। तस्या शरीरे नादश्च बिंदुतामेव गच्छति।।    
3 / 100 स बिनदुस्तद्रजश्चैव एकीभूय स्वदेहगौ। वज्रोल्यभ्यासयोगेन सर्वसिद्धिं प्रयच्छतः।।
3 / 101 रक्षेदाकुंचानादूर्ध्वं या रजः साहि योगिनी। अतीतानागतं वेत्ति खेचरी च भवेद् ध्रुवम्।।
3 / 102 देहसिद्धिं च लभते वज्रोल्यभ्यासयोगतः। अयं पुण्यकरो योगो भोगे भुक्तेऽपि मुक्तदः।। अथ शक्तिचालनम्
3 / 103 कुटिलांगी कुंडलिनी भुजंगी शक्तिरीश्वरी । कुंडल्यरुंधती चैते शब्दाः पर्यायवाचकाः।।
3 / 104 उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात्। कुंडलिन्या तथा योकी मोक्षद्वारं विभेदयेत्।।
3 / 105 येन मार्गेण गंतव्यं ब्रह्मस्थानं निरामयम्। मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी।।
3 / 106 कंदोर्ध्वं कुंडली शक्तिः सुप्ता मोक्षाय योगिनाम्। बंधनाय च मूढानां यस्तां वेत्ति स योगवित्।।
3 / 107 कुंडली कुटिलाकारा सर्पवत्वपिकीर्तिता। सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः।।
3 / 108 गंगायमुनयोर्मध्ये बालरंडां तपस्विनीम्। बलात्कारेण गृह्णीयात्द्विष्णोः परमं पदम्।।
3 / 109 इडा भगवती गंगा पिंगला यमुनी नदी । इडापिंगलायोर्मध्ये बालरंडा च कुंडली।।
3 / 110 पुच्छे प्रगृह्य भुजगीं सुप्तामुद्बोधयेच्च ताम्। निद्रां विहाय सा शक्तिरूर्ध्वमत्तिष्ठते हठात्।।
3 / 111 अवस्थिता चैव फणावती सा प्रातश्च सायं प्रहरार्धमात्रम्। प्रपूर्य सूर्यात्परिधानयुक्त्या प्रगृह्य नित्यं परिचालनीया ।।
3 / 112 ऊर्ध्वं वितस्तिमात्रं तु विस्तारं चतुरंगुलम्। मृदुलं धवलं प्रोक्तं वेष्टितांबरलक्षणम्।
3 / 113 सति वज्रासने पादौ कराभ्यां धारयेद्दृढम्। गुल्फदेशसमीपे च कंदं तत्र प्रपीडयेत्।।
3 / 114 वज्रासने स्थितो योगी चीलयित्वा च कुंडलीम्। कुर्यादनंतरं भस्त्रां कुंडलीमाशु बोधयेत्।।
3 / 115 भोनोराकुंचनं कुर्यात्कुडलीं चालयेत्ततः। मृत्युवक्रगतस्यापि तस्य मृत्युभयं कुतः।।    
3 / 116 मुहर्तद्वयपर्यंतं निर्भयं चालनादसौ । ऊर्ध्वमाकृष्यते किंचित्सुषुम्नायां समुद्गता।।
3 / 117 तेन कुंडलनी तस्याः सुषुम्नायां मुखं ध्रुवम्। जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजति स्वतः।।
3 / 118 तस्मात्संचालयेन्नत्यं सुखसुप्तामरुंधतीम्। तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते।।
3 / 119 येन संचालिता शक्तिः स योगी सिद्धिभाजनम्। किमत्र बहुनोक्तेन कालं जयति लीलया।।
3 / 120 ब्रह्मचर्यरतस्यैव नित्यं हितमिताशिनः। मंडलाद्दृश्यते सिद्धिः कुंडल्याभ्यासयोगिनः।।
3 / 121 कुंडलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः । एवमभ्यसतो नित्यं यमिनो यमभीः कुतः।।
3 / 122 द्वासप्ततिसहस्राणां नाडीनां मलशोभनं। कुतः प्रक्षालनोपायः कुंडल्यभ्यसनादृते।।
3 / 123 इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम्। आसनप्राणसंयाममुद्राभिः सरला भवेत्।।
3 / 124 अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना। रूद्राणी वा यदा मुद्रा भद्रां सिद्धिं प्रयच्छति।।
3 / 125 राजयोगं विना पृथ्वी राजयोगं विना निशा। राजयोगं विना मुद्रा विचित्रापि न शोभते।।
3 / 126 मारुतस्य विधिं सर्वं मनोयुक्तं समभ्यसेत्। इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा।।
3 / 127 इति मुद्रा प्रोक्ता आदिनाथेन शंभुना। एकैका तासु यमिनां महासिद्धिप्रदायिनी।।
3 / 128 उपदेशं हि मुद्रामां यो दत्ते सांप्रदायिकम्। स एव श्री गुरुः स्वामी साक्षादीश्वर एव सः।।
3 / 129 तस्य वाक्यपरो भूत्वा मुद्राभ्यासे समाहितः। आणिमादिकुणैः सार्धं लभते कालवंचलम्।।
इति श्रीस्वात्मारामयोगींद्र विरचतायां हठप्रदीपकायां मुद्राविधानं नाम तृतीयोपदेशः।।
अथ चतुर्थोपदेशः
                                        
4 / 1 नमः सिवाय गुरवे नादबिंदुकलात्मने। निरंजनपदं याति नित्यं यत्र परायणः।।
4 / 2 अथेदानीं प्रवक्ष्यामि समाधिक्रममुत्तमम्। मृत्युघ्नं च सुखोपायं ब्रह्मानंदकरं परम्।।
4 / 3 राजयोगः समाधिश्च उन्मनी च मनोन्मनी। अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम्।।
4 / 4 अमनस्कं तथाद्वैतं निरालंबं निरंजनम्। जीवन्मुक्तिश्च सहजा तुर्या चेत्येकवाचकाः।।
4 / 5 सलिले सैन्धवं यद्वत्साम्यं भजति योगतः। तथात्ममनसोहैक्यं समाधिरभिधीयते।।
4 / 6 यदा संक्षीयते प्राणो मानसं च प्रलीयते। तदा समरसत्वं च समाधिरभिधीयते।।
4 / 7 तत्समं च द्वयोहैक्यं जीवीत्मपरमात्मनोः। प्रनष्टसर्वसंकल्पः समाधिः सोऽभिधीयते।।
4 / 8 राजयोगस्य माहात्म्यं को वा जानाति तत्त्वतः। ज्ञानं मुक्तिः स्थितः सिद्धिर्गरुवाक्येन लभ्यते।।
4 / 9 दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम्। दुर्लभा सहजावस्था सद्गुरोः करुणां विना।।
4 / 10 विविधैरासनैः कुंभैर्विचित्रैः करणैरपि। प्रबुद्धायां महाशक्तौ प्राणः शून्ये प्रलीयते।।
4 / 11 उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः। योगिनः सहजावस्था स्वयमेव प्रजायते।।
4 / 12 सुषुम्नावाहिनि प्राणे शून्ये विशति मानसे। तदा सर्वाणि कर्मणि निर्मूलयति योगवित्।।    
4 / 13 अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः। पतितं वदने यस्य जगतेतच्चराचरम्।।
4 / 14 चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे। तदामरोली वज्रोली सहजोली प्रजायते।।
4 / 15 ज्ञानं कुतो मनसि संभवतीह तावत्प्राणोऽपि जीवति मनो म्रियते न यावत्। प्राणो मनो द्वयमिदं विलयं नयेद्यो मोक्षं स गच्छति नरो न कथञ्चिन्यः।।
4 / 16 ज्ञात्वा सुषुम्नासद्भेदं कृत्वा वायुं च मध्यगम्। स्थित्वा सदैव सुस्थाने ब्रह्मरंध्रे निरोधयेत्।।
4 / 17 सूर्याचंद्रमसौ धत्तः कालं रात्रिंदिवात्मकम्। भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम्।।
4 / 18 द्वासप्ततिसहस्राणि नाडीद्वाराणि पंजरे । सुषुम्नाशांभवी शक्तिः शेषास्त्वेव निरर्थकाः।।
4 / 19 वायुः परिचितो यस्मादग्निना सह कुंजलीम्। बोधयित्वा सुषुम्नायां प्रवेशेदनिरोधतः।।
4 / 20 सुषुम्नावाहिनि प्राणे सिद्ध्यत्येव मनोनम्नी । अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम्।।
4 / 21 पवनो बध्यते येन मनस्तेनैव बध्यते। मनश्च बध्यते येन पवनस्तेन बध्यते।।
4 / 22 हेतुद्वयं तु चित्तस्य वासना च समीरणः। तयोर्विनष्टः एकस्मिंस्तौ द्वावपि विनश्यतः।।
4 / 23 मनो यत्र विलीयेत पवनस्तत्र लीयते । पवनो लीयते यत्र मनस्तत्र विलीयते।
4 / 24 दुग्धांबुवत्संमिलितावुभौ तौ तुल्यक्रियौ मानसमारुतौ हि। यतो मरुतत्र मनःप्रवृत्तिर्यतो मनस्तत्र मरुत्प्रवृत्तिः।।
4 / 25 तत्रैकनाशादपरस्य नाश एकप्रवृत्तिः। अध्वस्तयोश्चेंद्रियवर्गवृत्तिः प्रध्वस्तयोर्मोक्षपदस्यसिद्धिः।।
4 / 26 रसस्य मनसश्चैव चंचलत्वं स्वभावतः। रसो बद्धो मनो बद्धं किं न सिद्धयति भूतले।।    
4 / 27 मूर्च्छतो हरते व्याधीन्मृतो जीवयति स्वयम्। बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति।।
4 / 28 मनस्थैर्ये स्थिरो वायुस्ततो बिंदुः स्थिरो भवेत्। बिंदुस्थैर्यात्सदा सत्त्वं पिंडस्थैर्य प्रजायते।।
4 / 29 इंद्रियाणां मनो नाथो मनोनाथस्तु मारुतः। मारुतस्य लयो नाथः स लयो नादमाश्रितः।।
4 / 30 सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतांतरे। मनःप्राणलये कश्चिदानंदः संप्रवर्तते।।
4 / 31 प्रनष्टश्वासनिश्वासः प्रध्वस्तविषयग्रहः। निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम्।।
4 / 32 उच्छिन्नसर्वसंकल्पो निःशेषाशेषचिष्टितः। स्वावगम्यो नयः कोऽपि जायते वागगोचरः।।
4 / 33 यत्र दृष्टिर्लयस्तत्र भूतेंद्रियसनातनी। सा शक्तिर्जीवभूतानां द्वे अलक्ष्ये लयं गते।।
4 / 34 लयो लय इति प्राहुः कीदृशं लयलक्षणम्। अपुनर्वानोत्थाल्लयो विषयविस्मृतिः।।
4 / 35 वेदशास्त्रपुराणानि सामान्यगणिका इव । एकैव शांभवी मुद्रा कुलवधूरिव।।
4 / 36 अंतर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता। एषा सा शांभवी मुद्रा वेदशास्त्रेषु गोपिता।।
4 / 37 अंतर्लक्ष्यविलीनचित्तपवनो योगी यदा वर्तते दृष्ट्या निश्चलतारया बहिरधः पश्यन्नपश्यन्नपि। मुद्रेयं खलु शांभवी भवति सा लब्धा प्रसादाद्गुरोः शून्याशून्यविलक्षणं स्फुरति तत्तत्त्वं परं शांभवम्।।
4 / 38 श्रीशांभव्याश्च खेचर्या अवस्थाधामभेदतः । भवेच्चित्तलयानंदः शून्ये चित्सुखरूपिणि।।     
4 / 39 तारे ज्योतिष संयोज्य किंचिदुन्नमयेद्भ्रुवौ। पूर्वयोगं मनो युंजन्नुन्मनीकारकः क्षणात्।।
4 / 40 केचिदागमजालेन केचिन्नगमसंकुलैः। केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम्।।
4 / 41 अर्धोन्मीनितलोचनः स्थिरमना नासाग्रदत्तेक्षणश्चंद्रर्कावपि लीनतामुपनयन्निष्पंदभावेन यः। ज्योतीरूपमशेषबीजमखिलं देदीप्यमानं परं तत्त्वं तत्पमेति वस्तु परम् वाच्यं किमत्राधिकम्।।
4 / 42 दिवा न पूजयेल्लिंगं रात्रौ चैव न पूजयेत्। सर्वदा पूजयेल्लिंगं दिवारात्रिनिरोधतः।।
4 / 43 सव्यदक्षिणनाडिस्थो मध्ये चरति मारुतः। तिष्ठति खेचरी मुद्रा तस्मिन्स्थाने न संशयः।।
4 / 44 इडाविंगलयोर्मध्ये शून्यं जोवानिलं ग्रसेत्। निष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः।।
4 / 45 सूर्याचंद्रमसोर्मध्ये निरालंबांतरं पुनः संस्थिता व्योमचक्रे या सा मुद्रा खेचरी।।
4 / 46 सोमाद्यत्रोदिता धारा साक्षात्सा शिववल्लभा। पूरयेदतुलां दिव्यां सुषुम्नां पश्चिमे मुखे।।
4 / 47 पुरस्ताच्चैव पूप्येत निश्चिता खेचरी भवेत्। अभ्यस्ता खेचरी मुद्राप्यन्मनी संप्रजायते।।
4 / 48 भ्रुवोर्मध्ये शिवस्थानं मनस्तत्र विलीयते। ज्ञातव्यं तत्पदं तुर्यं तत्र कालो न विद्यते।।
4 / 49 अभ्यत्सेत्खचरीं तावद्यवत्स्याद्योगनिद्रितः। संप्राप्तयोगनिद्रस्य कालो नास्ति कदाचन्।।
4 / 50 निरालंबं मनः कृत्वा ल किंचिदपि चिंतयेत्। स बाह्याभ्यंतरे व्योम्नि घटवत्तिष्ठति ध्रुवम्।।
4 / 51 बाह्यवायुर्यथा लीलस्तथा मध्ये न संशयः। स्वस्थाने स्थिरतामेति पवनो मनसा सह।।
4 / 52 एवमभ्यासमानस्य वायुमार्गे दिवानिशम्। अभ्यासाज्जीर्यते वायुरमनस्तत्रैव लीयते।।       
4 / 53 अमृतैः प्लावयेद्देहमापादतलमस्तकम्। सिद्ध्यत्येव महाकायो महाबलपराक्रमः।। इति खेचरी
4 / 54 शक्तिमध्ये मनः कृत्वा शक्तिं मानसमध्यगाम्। मनसा मन आलोक्य धारयेत्परमं पदम्।।
4 / 55 खमध्ये कुरु चात्मामात्ममध्ये च खं कुरु। सर्वं च खमयं कृत्वा न किंचदपि चिन्तयेत्।।
4 / 56 अन्यः शून्यो बहिःशून्यः शून्यः कुंभ इवांबरे। अन्तःपूर्णो बहिपूर्णः पूर्णः कुंभ इवार्णवे।।
4 / 57 बाह्यचिन्ता न कर्तव्या तथैवांतरचिंतनम्। सर्वचिन्तां परित्यज्य न किंचिदपि चिन्तयेत्।।
4 / 58 संकल्पमात्रकलनैव जगत्समग्रं संकल्पमात्रकलनैव मनोविलासः। संकल्पमात्रमतिमुत्सृज निर्विकल्पमाश्रित्य निश्चयमवाप्नुहि राम शान्तिम्।।
4 / 59 कर्पूरमनले यद्वत्सैंधवं सलिले यथा। तथा सेधीयमानं च मनस्तत्त्वे विलीयते।।
4 / 60 ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते। ज्ञानं ज्ञेयं समं नष्टं नान्यः पंथा द्वितीयकः।।
4 / 61 मनोदृश्यमिदं सर्वं यत्किंचितसचारचरम्। मनसो ह्युन्मनीभावाद्द्वैतं नैवोपलभ्यते।।
4 / 62 ज्ञेयवस्तुपरित्यागाद्विलयं याति मानसम्। मनसो विलये जाते कैवल्यमवविष्यते।।
4 / 63 एवं नानाविधोपायाः सम्यक्स्वानुभवान्विताः। समाधिमार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः।।
4 / 64 सुषुम्नायै कुंडलिन्यै सुधायै चन्द्रजन्मने। मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने।।
4 / 65 अशक्यतत्त्वबोधानां मूढानामपि संमतम्। प्रोक्तं गोरक्षनाथेन नादोपासनमुच्यते।।
4 / 66 श्री आदिनाथेन सपादकोटिलयंप्रकाराः कथिता जयंति। नादानुसंधानमेकमेव मन्यामहे मुख्यतमं लयानाम्।।
4 / 67 मुक्तासने स्थितो योगी मुद्रां संधाय शांभवीम्। शृणुयाद्दक्षिणे कर्णे नादमंतःस्थमेकधीः।।
4 / 68 श्रवणपुटनयनयुगलघ्राणमुखानां निरोधनं कार्यम्। शुद्धसुषुम्नासरणौ स्फुटममलः श्रूयते नादः।।
4 / 69 आरंभश्च घटश्चैव तथा परिचयोऽपि च। निष्पत्तिः सर्वयोगेषु स्यादवस्थाचतुष्टयम्।। अथारंभवस्था
4 / 70 ब्रह्मग्रन्थेर्भवेद्भेदो ह्यानंदः शून्यसंभवः। विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः।।
4 / 71 दिव्यदेहश्च तेजस्वी दिव्यगंधस्त्वरोगवान्। संपूर्णहृदयः शून्य आरंभो योगवान्भवेत्।। अथ घटावस्था
4 / 72 द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः। दृढासनो भवेद्योगी ज्ञानी देवसमस्तदा।।           
4 / 73 विष्णुग्रथेस्ततो भेदात्परमानंदसूचकः। अतिशून्ये विमर्दश्च भेरीशब्दस्तथा भवेत।। अथ परिचयवस्था
4 / 74 तृतीयायां नु विज्ञेयो विहायोमर्दलध्वनिः। महाशून्यं तदा याति सर्वसिद्धिसमाश्रयम्।।
4 / 75 चित्तानंदं तदा जित्वा सहजानंदसंभवः। दोषदुःखजराव्याधिक्षुधानिद्राविवर्जितः।।
4 / 76 रुद्रग्रंथिं यदा भित्वा शर्वपीठगतोऽनिलः। निष्पत्तौ वैणवः शब्दः क्वणद्वीणाक्वणो भवेत्।।
4 / 77 एकीभूतं तदा चित्तं राजयोगाभिधानकम्। सृष्टिसंहारकर्तासौ योगीश्वरसमो भवेत्।।
4 / 78 अस्तु मा मास्तु वा मुक्तिरत्रैवाखंडितं सुखम्। लयोद्भवमिदं सौख्यं राजयोगादवाप्यते।।
4 / 79 राजयोगमजानंतः केवलं हठकर्मिणः। एतानभ्यासिनो मन्ये प्रयासफलवर्जितान्।।
4 / 80 उन्मन्यवाप्तये शीग्रं भूध्यानं मम संमतम्। राजयोगपदं प्राप्तिं सुखोपायोऽल्पचेतसाम्। सद्यः प्रत्ययसंधायी जायते नादजो लयः।।
4 / 81 नादानुसंधानसमाधिभाजां योगीश्वराणां हृदि वर्धमानम्। आनन्दमेकं वचसामगम्यं जानाति तं श्रीगुरुनाथ एकः।।
4 / 82 कर्णौ पिधाय हस्ताभ्यां यं श्रृणोति ध्वनिं मुनिः। तत्रचित्तं स्थिरिकुर्याद्यत्स्थिरपदं व्रजेत्।।
4 / 83 अभ्यस्यमानो नादोयं बाह्यमावृणुते ध्वनिम्। पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत्।।
4 / 84 श्रूयते प्रथमाभ्यसे नादो नानविधो महान्। ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्मसूक्ष्मकः।।
4 / 85 आदौ जलधिजीमूतभेरीझर्झर संभवाः। मध्ये मर्दलशंखोत्था घंटाकाहलजास्तथा।।
4 / 86 अंते तु किंकिणूवंशवीणाभ्रमरनिःस्वना। इति नानाविधा नादाः श्रूयन्ते देहमध्यगाः।।     
4 / 87 महति श्रूयमाणेऽपि मेघभेर्यादिके ध्वनौ। तत्र सूक्ष्मात्सूक्ष्मतरं नादमेव परामृशेत्।।
4 / 88 घनमुत्सृज्य वा सूक्ष्म सूक्ष्ममुत्सृज्य वा घने। रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत्।।
4 / 89 यत्र कुत्रापि वा नादे नगति प्रथमं मनः। तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते।।
4 / 90 मकरंदं पिबन्भृङ्गो गन्धं नापेक्षते यथा । नादासक्तं तथा चित्तं विषयान्न हि काङ्क्षते।।
4 / 91 मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः। नियन्त्रणे समर्थोऽयं निनादनिशितांकुशः।।
4 / 92 बद्धं तु नादबंधेन मनः संत्यक्तचापलम्। प्रयाति सुतरां स्थैर्यं छिन्नपक्षः खगो यथा।।
4 / 93 सर्वचिन्तां परित्यज्य सावधानेन चेतसा। नाद एवानुसंधेया यागसाम्राज्यमिच्छता।।
4 / 94 नादोंतरंगसारंगबंधने वागुरायते। अन्तरङ्गकुरंगस्य वधे व्याधायतेऽपि च।।
4 / 95 अंतरंगस्य यमिनो वाज-िनः परिघायते। नादोपास्तिरतो नित्यमवधार्या हि योगिना।।
4 / 96 बद्धं विमुक्तचांचल्यं नादगंधकजारणात्। मनः पादमाप्नोति निरालंबाख्यखेऽटनम्।।
4 / 97 नादश्रवणतः क्षीप्रमंतरंगभुजंगमः। विस्मृत्य सर्वमेकाग्रः कुत्रचिन्न हि धावति।।
4 / 98 काष्ठे प्रवर्तिचो वह्निः काष्ठेन सह शाम्यति। नादे प्रवर्तितं चित्तं नादेन सह लीयते।।
4 / 99 घंटादिनादसक्तस्तब्धांतः करणहरिणस्य। प्रहरणमपि सुकरं शरसंधालप्रवीणश्चेत्।।
4 / 100 अनाहतस्य भब्दस्य ध्विर्य उपलभ्यते। ध्वनेरंतर्गतं ज्ञेयं ज्ञेयस्यांतर्गतं मनः। मनस्तत्र लयं याति तद्विष्णोः परमं पदम्।।
4 / 101 तालदाकाशसंकल्पो यावच्छब्दः प्रवर्तते। निःशब्दं तत्परं ब्रह्म परमात्मेति गीयते।।
4 / 102 यत्किंचिन्नदरूपेण श्रूयते शक्तिरेव सा । यस्तत्त्वांतो निराकारः स एव परमेश्वरः।।
4 / 103 सर्वे हठलयोपाया राजयागस्य सिद्धये। राजयोगसमारूढः पुरुषः कालवंचकः।।
4 / 104 तत्त्वं बीजं हठः क्षत्रमौदासीन्यं जलं त्रिभिः। उन्मनी कल्पलतिका सद्य एव प्रवर्तते।।       
4 / 105 सदा नादानुसंधानात्क्षीयंते पापसंचयाः। निरंजने विलीयते निश्चितं चित्तमारुतौ।।
4 / 106 शंखदुंदुभिनादं च न शृणोति कदाचन। काष्ठवज्जायते देह उन्मनियावस्थया ध्रुवम्।।
4 / 107 सर्वावस्थाविनिर्मुक्तः सर्वचिंताविवर्जितः। मृवत्तिष्ठते योगी स मुक्तो नात्र संशयः।।
4 / 108 खाद्यते न च कालेन बाध्यते न कर्मणा। साध्यते न स केनापि योगी युक्तः समाधिना।।
4 / 109 न गंधं न रसं रूपं न च स्पर्शं न निःस्वनम्। नात्मानं न परं वेत्ति योगी युक्तः समाधिना।।
4 / 110 चित्तं न सुप्तं नो जाग्रत्समृतिविस्मृतिवर्जितम्। न चास्तमेति नोदेति यस्यासौ मुक्त एव सः।।
4 / 111 न विजानाति शीतोष्णं न दुःखं न सुखं तथा । न मानं नापमानं च योगी युक्तः समाधिना।।
4 / 112 स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते। निःश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः।।
4 / 113 अवध्यः सर्वशस्त्राणामशक्यः सर्वदेहीनाम। अग्राह्यो मंत्रयंत्राणां योगी युक्तः समाधिना।।
4 / 114 यावन्नैव प्रविशति चरन्मारुतो मध्यमार्गे यावद्विंदुर्न भवति दृढप्रणवातप्रबंधात्।। याद्ध्याने सहजसदृशं जायते नैव तत्त्वं। यावज्ज्ञानं वदति तदिदं देभमिथ्याप्रलापः।।
इति श्रीसहजानन्दसंतानचिन्तामणिस्वात्मारामयोगींद्रवरचितायां हठयोगप्रदीपिकायां समाधिलक्षणं नाम चतुर्थोपदेशः।।
इति हठयोगप्रदीपिका समाप्ता।।