बार्हस्पत्यानि नीतिसूत्राणि

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

 की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

 

प्रथमोऽध्याय द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्याय पञ्चमोऽध्यायः षष्ठोऽध्यायः 

बार्हस्पत्यानि नीतिसूत्राणि
प्रथमोऽध्यायः
1. बृहस्पतिरथाचार्यः इन्द्राय नीतिसर्वस्वमुपदिशति।
2. आत्मवान् राजा।
3. आत्मवन्तं मन्त्रिणमापादयेत्।
4. दण्डनीतिरेव विद्या।
5. धर्ममपि लोकविक्रुष्टं न कुर्यात्, करोति चादाशास्यैनं बुद्धिमद्भिः।
6. समानैः सेव्यः।
7. स्त्रीबालवृद्धैः सह न वदेद्धर्मनीतिकृत्यानि।
8. ऐन्द्रजालिकं न कुर्यात्, न मन्त्रवादोत्सवौ, नामयविषविध्वंसनानि, न भस्मधारणम्, वाग्निहोत्रवेदपाठादीनि, न तीर्थयात्राम्, न राजसेवाम् , न स्त्रीसेवां च।
9. न मद्यं पिबेत्, ब्राह्मणं न हन्यात्, स्तेयं न कुर्यात्, बहु न च स्रगनुलोपौ, न विषीदेत्, न चातिकुप्येत्।
10. अविषये लोभं अदानसंज्ञं वर्जयेत्।
11. केदारे बीजानि वापयेत्, पात्रे च दानं कर्तव्यम्।
12. तदसहिष्णुता लोभः, स्तेयं च लोभः।
13. स्वद्रव्यव्ययहेतुः कामः।
14. गुरुदेवप्राज्ञनृपादिहिंसाबुद्धिः क्रोधः, स्वशिरस्ताडनं च।
15. बलादिषु च समं शत्रुं युद्धेन् हन्यात्।
16. अन्याभियाधिनः सामदानभेदमायोपेक्षादिभिः।
17. मलवेषं न कुर्यात्।
18. मृगयातिसङ्गं नाचरेत्।
19. स्त्रीष्वतिसंङ्गात् अयशो वर्धते, आयुश्च क्षीयते।
20. द्यूतपरतापपरापवादपातकिसमागमे संमन्त्रपदानि परच्छिद्राणि विद्यात्, व्यसनमपि रहस्येन।
21. औषधोपयोगविण्मूत्रविसर्जनस्नानदन्तधावनमैथुनोपभोगदैवतपूजाः रहस्येन (कुर्यात्)।
22. वृथाधर्मध्वजिनं न विश्वसेत्, निन्देन्न च।
23. उन्मत्तजडादीन् दृष्ट्वा न हसेत्।
24. तुल्यशीलवयोभिः क्रडितव्यं रहस्ये।
25. गजाश्वक्रीडे व्यक्ते न द्विमूर्तम्।
26. दूषयेन्न च स्वजातिजीवत्सु।
27. अर्थेनानुरागेणाभिजन्मवौदार्येण च पूर्वे भविष्ये अधिकल्वे इच्छा कर्तव्या।
28. पूर्वाचरितं धर्मं, अनुजीविसख्यं, अमातृज्ञातिसुहृद्बान्धवांश्च समं पश्येत्।
29. बहिरन्तर्दण्डदाने अनुजीविषु, सामदभेददानानि मन्त्रिषु, सामभेद दानार्थमायपिण्डानि ज्ञातिषु।
30. अप्रियमपि वचनं शृणुयात्।
31. दर्दिनग्रहवैषम्यत्रिजन्मनक्षत्रे गुरुकार्यप्राप्तौ न च मङ्गलानि सेवेत।
32. एकदेशैकरूपिणीं अभिजातां स्त्रियं गमयेत्।
33. नातिभेदयेत्, नातिसाम, नातिदानं ,न च स्त्रीषु दण्डः, न च मायोपेक्षा कर्तव्या, न बहुवदेच्च।
34. ग्रामयाचकस्तुतभागधवन्दिनडनर्तक्युपाध्यायासत्यवादिवटुनिटनणिजगोपालवेश्याकुनृषेषु अनृताडम्बरः वक्तव्यः।
35. संन्यासं नृपवेश्यामन्त्रवादोपजीवेषु चिरं न सेवेत।
36. आत्मप्रभुं सेवेत।
37. आयत्यादीनति न सेवेत।
38. स्त्रीद्यूतपानासक्तान् न सेवयेत्।
39. पञ्चनाडिकाः इष्टदेवतापूजाजपादि, पञ्चनाडिकायामतीतायां आस्थानं, दशनाडिकाः विधिः, पञ्चनाडिकाः स्नानं,त्रिनाडिकाः भोजनं ,पञ्चनाडिकाः हास्यक्रीडा स्निग्धैः, द्वनाडिका सन्ध्या, सप्तनाडिकाः नृत्तादयः, सप्तनाडिकाः मैथुनभोजनादयः. सप्त नाडाकास्सुप्तिः ।
40. स्वनियमं कुर्यादप्रमादेन, अश्वनियामक इव।
41. शिरः कमपनास्थानेन स्वागतेन शिष्टाम्बूलदानेन च ब्राह्मोतेतमान् मानयेत्।
42. दुर्ब्राह्मणं सोपायनमपि न शिरःकम्पेन।
43. समानप्रभुं विद्येश्वरं वा स्वागतेनासनेन शिरःकम्पनेन ताम्बूलदानेन हास्यकथया च.
44. स्मितेन स्वागतेनान्यांस्त्रैवर्णिकान्।
45. ईक्षणस्मितेन स्वागतेन शूद्रान् (न)।
46. अभीष्टद्रल्यदानेन बालवृद्धादीन्।
47. अन्त्यपाषण्डादीन् वाङ्मात्रेणापि न।
48. कार्यगुरुतया अनुगच्छेत्, अल्पं वदेत्, योगं दद्याच्च।
49. वर्णिकापरिग्रहं न कुरियाद्रहस्सये।
50. कर्मकरान् प्रतियोगिनोऽपि कार्यं रहस्ये न विचारयेत्।
51. स्निग्धैः सह समानं वर्येन्मन्त्रित्ये।
52. अन्त्यजं त्वनन्त्यजातिनम्, अन्त्यजानां हि स्वार्थानिवेदकत्वं आज्ञाकर्त्वं च, तन्नातिलालयेत्, न विश्वसेच्च।
53. सर्वं ज्ञात्वा न कुर्यात्।
54. धर्मगुप्तिः गृहयात्रागुप्तिः कार्यगुप्तिः वैरगुप्तिश्च।
55. यशोभङ्गे सत्यमपि नेति वदेत्।
56. चिकित्सकज्योतिषिकमन्त्रवादिनः संगृह्णीयात् वृत्तशीलसमपन्नान्।
57. सत्यमपि दुःखानर्थसाधनं न वदेत्।
58. पञ्चविंशतिवर्ष यावत् क्रीडाविद्यां व्यसनात् कुर्यात्, अत उत्तरमर्थार्जनम्।
59. आत्मानमनृणिनं कुरयात्, ऋणवान् जायते त्रिभिः कामक्रोधलोभैः।
60. सरीरं सर्वदा रक्षेत्।
61. नित्यकर्म न त्यजेत।
62. जनघोषे सति क्षुद्रकर्म न कुर्यात्।
63. नष्टे न स्थातव्यम्, दूरपरिहरणीयं गुरुतरमपि दत्राजकार्यम्।
64. कुसुमान्तान् दण्डनायकान् नवान् न सेवेत।
65. अल्पहानिः सोढव्या।
66. यतो मातङ्गचोरव्यालसर्पव्याघ्रकुलं विपिने श्मशाने च वसति, तस्मात् परमनागसां ज्ञातिवैरं न कर्तव्यम्।
67. राज्योपप्लवे तद्रराजक्षेत्रं एकामिषश्वानवत्।
68. नीतिः किल नदीतीरतरुवत्, तन्नेहितव्यम्।
69. भुतद्रोहिणः कुसुमान्तादयः।
70. यशोवीर्यायुःश्रियो हरति कुसुमान्तसेवा।
71. कामक्रोधमदमात्सर्यपैशुन्यादीन् न कुर्यात्।
72. अरिः शुभशीलः मित्रम्।
73. सुहृदशुभशीलः शत्रुः।
74. चन्द्रादित्ययोः एकरुचुत्वात् शत्रुत्वम्, यदि चेन्न स्थितिस्तयोः।
75. ज्ञातिषु यत्र वैरं तत्कुलं आमूलं नश्यति।
76. यश्शास्त्रं दण्डनीतिं परित्यजति अनर्थकः, स शलभ इव वह्निं प्रविशत्यज्ञानात्—इत्याह भगवानाचार्यः सुरेन्द्रगुरूः।
इति प्रथमोऽध्यायः पूर्णम् ॥
         
द्वितीयोऽध्यायः                                           
1. गुणवतो राज्यम्।
2. विद्यागुणोऽर्थगुणः सहायगुणाश्च।
3. स्वकुलरञ्जनं च चारित्ररक्षणम्।
4. कृषिगोरक्षवाणिज्यानि (अध्येयानि)।
5. सर्वथा लोकायतिकमेव शास्त्रमर्थसाधनकाले, कापालिकं कामसाधने, आर्हतं धर्मे।
6. सर्वथा लोकयतिकमसेनार्थं क्षिप्रं नश्यति तत्, कापालिकार्हतबौद्धाश्च। एतेषु तिष्ठन् शलभवह्निवत्, फलानि श्रोत्रसलिलकल्पानि।
7. अविद्यायुक्तः पुरुषार्थं साधयितुं धर्मयुक्तवद्यदेच्छिति, तदा लोकायतिकाभिधानपाषण्डी।
8. यदा चण्डालः उदारसुरामांसादिकामेच्छुः तदा कापालिकाभिधानपाषण्डी।
9. यदा सन्ध्योपासनाद्यग्निहोत्रादि च परित्यज्य अहिंसाधर्मेच्छुः तदा क्षपणकाभिधानपाषण्डी।
10. यदा वेदोक्तकर्मज्ञानं सर्वेश्वरं शिवं विष्णुं श्रियमपि परित्यज्य सर्वं शून्यमिति वदति तदा बौद्धाभिधानपाषण्डी।
11. वृथाधर्म वदत्यर्थसाधनं लोकायतिकः पिण्डादयश्चौर्यमिति च।
12. सर्वमर्थार्थं करोति अग्निहोत्रसन्ध्याजपादीन्।
13. स्वदोषं गूहितं कामार्थं वेदं पठति, अग्निहोत्रादीम् करोति सुरापानार्थं महिलामेहन्र्थं चेति।
14. विष्ण््वादयः सुरापानिनः इति कापालिकाः।
15. दर्मार्थं मलपिण्डधारणाद्धर्मं वदति क्षपणकः, शिवादयस्तथेति वदति च। स च परापवादार्थं पेदशास्त्रधर्मादीन् पठति। सर्वान्नि न्दति महेश्वरविष्ण्वादीनपि, सोऽप्यशनार्थं वदति।
16. वदनार्थं परान् स्तौति स बौद्धः।
17. योकायतिको मृतः भवति अर्थकामधर्ममोक्षविहीन) नारकी च, तत्कुलं च तत्पुत्रपौत्रान्तरे विनश्यति।
18. कापाली स्वग्रामगृहस्वजनैः परित्यक्तः सर्वलोकनिन्दितो नारकी भवति, तस्मिन् काल एव कुलं विनश्यति।
19. त्रपणकः स्वकुलग्रमवासिभिर्निन्दितः भवति, त्रिकुलं विनश्यति।
20. बौद्धसंचिंत कुलं पुत्रपौत्रकाले वा विनश्यति सुदुष्टो नारकी।
21. एवं पाषण्डिम्पर्कं मनसापि न कुर्यत्।
22. सुव्यवस्थितमन्त्रेण परच्छिद्रज्ञानिना धार्मिकेण राज्चं परिप्लयितुं न शक्यते।
23. ऐश्वर्यमदमत्तेन सलोभमानिना संचितं विनश्यति।
24. कार्यं निश्चित्य विष्याननुभवति यः स उत्तममर्थं साधयति।
25. येष्टयाकर्यज्ञानी अर्थपर इति धर्मवानिति च लोकैर्यथा न ज्ञायते तथा कर्तव्यम्, ईशवर इव चन्द्रादित्याविव च।
26. स्वामिचित्तानुवर्तिभिः मत्यैक्यकारि कर्मैव मन्त्रम्।
27. नीतेः फलं धर्मार्थकामावाप्तिः।
28. धर्मेण कामार्थौ परीक्ष्यौ, धर्म धर्मेण, अर्थमर्थेन, कामं कामेन, मोक्षं मोक्षेण।
29. गुरुशासनं कार्यमेव धर्मेण विरुद्धमपि, पाण्डवविवाह इव, अर्जुन संन्यास इव, व्यासविधवागमनमिव, कर्णोत्पादनमिव, राममातृवध इवेत्यादि।
30. नीतिवियुक्तः पुत्र इव शत्रुः।
31. बालं दुष्टं साहसिकमज्ञातशास्त्रं मन्त्रे न प्रवेशयेत्।
32. मूढाः दुराचाराः तीक्ष्णाः ईत्मबुद्धयः क्षिप्रक्रुद्धाः बाला) न मन्त्रयोग्याः।
33. सर्वरत्वान्यपि दीयन्दां स्वकार्यजीवयशोरक्षणे।
34. मव्त्रकाले क प्रतोपयेत्।
35. धर्मः प्रधानं पुरुषार्थानाम्।
36. अधर्मेण भुज्यमानं सुखमसुहृत् स्थितिवर्धनं च।
37. अपथ्यभोजनः मृत्युप्रीतिकर इव।
38. सत्यव्रतः शास्त्रेषु निष्ठितः पुपुषः सागरमपि शोषयेत्।
39. स यदि क्रुद्धः सर्वे हतपौरुषाः त्रस्ता भवनिति।
40. एक एव दुर्जनः बहून् नाशयति।
41. लौरुषे निष्ठितः देवः।
42. यस्य स्वदाररतिः यस्य च आत्मदमने शक्तिः तस्य सदृसो न।
43. सज्जनो न भयाद्व्यतिवर्त्े।
44. तस्मिन् काले हितं अवक्तव्यं अवाक्यज्ञैः सुहृद्भिः।
45. उत्सिक्तहृदयं धर्मे चालितगौरवं अजितात्मानं शासितुं नोत्लहेत।
46. दारुणरक्मभिः श्रान्तं अज्ञाननिद्रया सुपुतं च बालं धर्मवाक्यानिलैः शीतलैः प्रबोधयेत्।
47. दुरजनमध्ये सूर्यवत् प्रकाशते सुजनः।
48. अधर्मव्यवस्थितान् न्यायवृत्तेन वारयेत्।
49. अधर्मं अकीर्तिञ्च नार्जयेत्, न च कमपि मारयेत्।
50. बोलाः निवार्यन्तां धर्मपाठाङ्कुशेन गजा इव।
51. गुरुवचनमलङ्घनीयं नयानुगतं चेत्।
52. गुरुमपि नितिवियुक्तं निहासयेत्—इत्येतान् गुरुराहेति।
इति द्वितीयोऽध्यायः पूर्णम् ॥

तृतीयोऽध्यायः                                           
1. जितक्लेशस्य पौरुषस्य पौरुषम्।
2. देशान्तरवासेन जितकलेशो भवति।
3. सर्वबलकालदेशसामप्रकृतिसहायामवयसां ज्ञानं उपवासादिसहिष्णुत्वं च सम्पादयेत्।
4. सुगन्धवासान् कोसान् कुर्यात्।
5. बहुवादमपि मधुरमेव कुर्यात्।
6. शमबुद्वीन् मणीन् सरवान् सर्वदाऽऽराधयेत्।
7. नवानि मन्त्राणि विद्य़ात्।
8. तानि त्रिविधानि प्रभिन्नानि—शाक्तवैष्णवशैवानि।
9. मोक्षपुर्याः त्वारं त्रयं –शाक्तं वैष्णवं शैवमिति।
10. पोतयानमार्गवत् शाक्तं, महापथवद्वैष्णवम्।
11. केवलप्रधानिकं शैवं अश्वरथयानवत्।
12. लोकायतिकक्षपणकबौद्धादि बहुशार्दूलदुष्टमृगाकीर्णशून्याटवी गुहामार्गवत्।
13. एतान् निरूप्यैकमाश्रयेत्।
14. ज्योतिर्नाथस्थितं सदा निरूपयेत्।
15. चातुर्वर्ण्यंरक्षेत्।
16. यौषधानि सेवेत।
17. बलवर्णतेजोमददबुद्धिशौर्यदयावर्धनानि दोषधातुशमनानि।
18. दानमानालङ्कारविद्याभिः सिद्धिं लभेत।
19. अष्टदशतीर्थानि निरूपयेत।
20. षट्प्रकृतयस्तीर्थं शत्रुमित्रोदासीनाश्च, अन्तश्शत्रुः अन्तर्मित्रं अन्तरुदासीन इति तेऽपि अनुजीविसखिसुहृदश्च; भार्यापुत्रबान्धवाश्च, अन्येऽपि देवालयनृत्तयागभूमिसन्ध्यावापीचतुष्पथ-पाषण्डालयापण-बालविद्यापाठशेखलूरीशालीचन्द्रदर्शनाद्युत्सव-वेश्यागृह-समुद्रतीरयतिसंनिधि-राज्यसन्धिसुरा-विक्रयस्थान-पान्थनिवासाश्च।
21. शृङ्गारवेषं कुर्यत्।
22. पुरद्वारे सर्वनिरोधनं कार्यम्, सर्वान् न निषेधयेच्च।
23. इतिहासपुराणानि तत्पाकान् शाक्तागमन् वैखानसागमान् सांख्यान् शैवांश्च मानयेत्।
24. सर्वानपि स्वाध्यायं कुर्यात् कारयेच्च।
25. ब्राह्मणं न हन्याद्दोषदुष्टमपि ।
26. निर्दयस्य दया कर्तव्या।
27. ग्रामणीन् नगरेन्द्रांश्च सम्भावयेत्।
28. दुर्बलमपि साम कुर्यात् , दान्न बहु, न स्वल्पं च, नोत्तमेषु गुणबाहुल्यक्रमेण।
29. अक्षैर्दीव्यात्, नैव दीव्याच्च।
30. सर्पदीन् हन्यात्।
31. उत्तमान् नानामन्त्रसिद्धान् विद्याबहुलान् द्विजाल् मालयेत्।
32. अन्यराष्ट्रजान् द्विजान् क्षत्रबन्धून् कुमारसामन्तादीन् आत्मवत् सम्भावयेत् भोजनाच्छादनादिभिः।
33. शरणागतं सर्वपातकयुक्तमपि रक्षेत्।
34. दुष्टनिग्रहं कुर्यात्, शिष्टपरिपालनं च।
35. ग्रामं नगरं दैवालयानि च न बाधेत।
36. आसवानि सेवयेत्, अति न, मांसानि च।
37. घृणा कार्या, बौद्धादयो न ग्राह्याः।
38. न मत्तकाशिन्यः सेव्याः।
39. पञ्चाशतकोटियोजना पृथ्वी, सप्तद्वीपवती च, सप्त समुद्रावृता च।
40. करमभोगातिभोगदिव्यश्रृङ्गारसिद्धकैवल्या इति द्वीपाभिधानाः।
41. मध्यः कर्मभूमिः, तन्मध्ये मेरूराजम्बूः, तत्रोत्तरे हिमवान्, तस्य दक्षिणे नवसाहस्रीभूः।
42. तत्र दाक्षिणात्यो भारतः खण्डः , तत्र साक्षाद्धर्माधर्मफलाः सिद्धयन्ति।
43. तत्र दण्डनीतिः पूर्वभारतीयैः पठितव्या भविष्यैर्वर्तमानैः चातुर्वर्णिकैश्च।
44. दण्डनीत्या भगवान् भानुर्नृपतिः, वायुः सर्वे देवाश्च जन्तवश्च।
45. सहस्रयोजना बदरिका सेत्वन्ता।
46. द्वारकादि पुरुषोत्तमसालग्रामान्ता सप्तशतयोजना।
47. तत्रापि रैवतकविन्ध्यसह्यकुमारमलयश्रीपरवतपारियात्राः। सप्त कुलाचलाः।
48. गङ्गासरस्वतीकालिन्दीगोदावरीकावेरीताम्रपर्णीघृतमालाः कुलनद्यः।
49. अष्टादश विषयाः, अष्टादशसागराः नृपाः, अष्टादश पार्वतीयाः।
50. रामसृष्टिः चत्वारिंशच्छतं दक्षिणोत्तरे आसह्यं द्वादह्यं, विश्वामित्रसृष्टिरेकादश।
51. नेपालं चतुश्शतं, पूर्वसमुद्रतो वरणतः समुत्रान्तं अष्टयोजनम्, पञ्चशतद्वितयं इत्तरवाटं पूर्वलाटञ्च, काशीपञ्चालद्वितीयं अशीतिः, केकयसृञ्चयं सृष्टिः, मात्स्यमागधं शतम्, मावशकुन्तमशीतिः, कोसलावन्तिः षष्टिः, सैह्यवैदर्भद्वितयं शतद्वितयम्, वैदेहकौरवं शतम्, कम्बोजदशारणमशीतिः, एते महाविषयाः; एते खलु चतुरश्राः।
52. आरदृबाह्लीकौ दक्षिणोत्तरतः शतमात्रौ पूर्वपश्चात् द्वादशौ, शाकसौराष्ट्रे चतुरश्रौ चत्वीरिंशत्, अङ्गवङ्गकलिङ्गाः शतमात्राः चतुरश्राश्च, काश्मीरहूणाम्बदृसिन्धवः शतमात्रशचतुरश्राश्च, किरातसौवीरचोलपाण्ड्याः उत्तरे दक्षिणे स्थिताः शतोत्तरं षष्टिमात्राः, यादवकाञ्चीविषयं चत्वारिंशच्छतमात्रं, एत उपविषयाः।
53. सप्तकोङ्कणाः चतुश्शतमात्राः द्वादशषडष्टौ च अनूपाः, एते अनूपाः।
54. सह्याद्रौ चत्वारो गिरिविषयाः, श्रीपर्वते द्वयम्, रैवतक एकः विन्ध्ये पञ्च, कुमारे एकम्, महेन्द्रे त्रयम्, पारियात्रे त्रयम्।
55. सर्वे दक्षिणोत्तरतः पञ्चाशन्मात्राः पूर्वतः पश्चात् पञ्चयोजनाः समाः।
56. म्लेच्छे यवनविषयाः पार्वतीयाः।
57. ग्रामनगरोद्यानादिभिरलङ्कृताः पुण्यक्षेत्रादिभिश्च अष्ट वैष्णवक्षेत्राः बदरिकासालग्रामपुरुषोत्तमद्वारकाबिलिवाचलानन्तसिंहश्रीरङ्गाः।
58. अष्टौ शैवाः एविमुक्तागङ्गाद्वारशिवक्षेत्ररामेश्वरयमुनाशिनसरस्वतीमव्यशार्दूलगजक्षेत्राः।
59. शाक्ता अष्टौ च—ओग्घीणजालपूरणकामकोल्लश्रीशैलकाञ्चीमहेन्द्राः।
60. एते महाक्षेत्राः सर्वसिद्धिकराश्च वन्द्याश्च।
61. विन्ध्ये नित्यं वसति दुर्गा भद्रकाली च, कुमारे कुमारो वसति, सह्ये गणपतिः, रैवतके शास्ता, महेन्द्रे गरुडः, पारियात्रे क्षेत्रपालः।
62. कर्मभूमौ भारत मनुष्यैः बहवो देवाः।
63. सुरासुरयक्षराक्षसभूतप्रेतविनायककूश्माण्डाः विकृताननाः निरुद्धाः भारवेषाः सौम्यभैरवाः योगिन्यश्च नागाश्च मानवैस्सह पूपरमा असंख्याताश्चरन्ति, मानवैः कृतपालनाश्च।
64. तस्मिन्नमृतमय्यः ओषध्यः सन्ति।
65. अत्र युगसंख्या कृतत्रेताद्वापरतिष्याश्च, कृते-ज्ञानिनः दण्डनीति कोविदाः, त्रेतायां-कर्मिणः नीतिविशारदाः, द्वापरे-तान्त्रिकानुसाराः घनरसाश्च नीतिकोविदाश्च, तिष्ये-ज्ञानकर्मघनाः दण्डनीतिकोविदानराः, तदुत्तरं विरुद्धधर्मवर्णवेषाः दण्डनीतिवर्जिताः पश्यन्ति प्रजा अनृतवादतत्पराश्चेत्याह गुरूः।
इति तृतीयोऽध्यायः पूर्णम् ॥

चतुर्थोऽध्यायः                                           
1. ब्राह्मे मुहर्ते उत्थाय धर्ममर्थञ्च चिन्तयेत।
2. कुक्कुटशब्दः शुभं, गजादिदर्शनं च, गजशब्दमङ्गनस्तुतिवेदपाठनानिच, दवतापुण्यकथाश्च, हाजन्यस्मरणं च, नेत्राञ्जनं च, आदर्शदर्शनं च।
3. अलङ्कारयेत्—ताम्बूलचर्वणंच, कर्पूरचन्दनागरुधूपढ्च।
4. शङ्खकाहलविषाणाच्छिन्नवेणुवीणातन्त्रीमृदङ्गपणवाः तूर्यघोषाञ्च, दिव्यप्रमदादर्शनं च, मागधभिन्नषड्जं च, जातिस्वरं च।
5. सर्पिषि सित्तपुष्पाणि, मन्त्रतृप्तो वह्निः सतार्चिर्विष्णुलिङ्गधूमयुक्तो भवति।
6. तद्शुभं गवां सन्दर्शनं, गृध्रसंदर्शनं च, सन्ध्याज्वलनं च, विरुद्धशिवादर्शनं च।
7. क्रव्यादमृगाणां शब्दो ग्रामपुपद्वारे वा श्रूयते।
8. देवाताप्रतिमास्वेदश्च यस्मिन् दृश्यते तत्र प्रायश्चित्तं –अन्यत्र यानमेव, प्रतिकारो नास्ति।
9. अवश्यनिपूपणीयान्येतान् कर्माणि।
10. मन्त्रमूलो विजयः।
11. त्रिविधाः पुरुषाः उत्तमाधममध्यमाः, मन्त्रेऽपि।
12. बहुभिर्बान्धवैः हितैरबहुश्रुतैः धीरैश्सह यत्कर्मारभते तदुत्तमम्।
13. धर्मद्विविधे गुरौ भक्तिश्च।
14. अर्थपरैस्सह मन्त्रयित्वा आरभते स उत्तमः।
15. गुणदोमागमं निश्चित्य मौर्ख्यबाहुल्यात् यः आरभते सोऽधमः।
16. ऐकमत्येन दणडनीतिनेत्रेण धीरैर्मन्त्रिभिर्यो मन्त्रःस उत्तमः।
17. पूर्व बहुबुद्धयः पश्चादेकमतयो भवन्ति यत्र स मध्यमः।
18. यत्र कलहः भर्त्सनं च , एकस्य धर्मः, एकस्य अर्थः, स्त्रीवालवृद्धैस्सह एकस्य रुदितं, एकस्य क्रोधः यस्मिन् सोऽधमः।
19. पूर्व स्वामिना सार्यनिवेदनम्, पुनर्वचसा कर्मणा मनसाञ्जिलिना दण्डप्रमाणेन यथा गुरुत्वं स्वामिनमभिवन्दयेत्।
20. वृद्धो वैश्रवणो वाचस्पतिर्वा यस्यान्नं भुञ्जते तं वन्देत।
21. यत्पुनः यथाक्रमं एकैकस्य मतं श्रोतव्ययम्।
22. स्वामिनं प्रसाद्य कार्यं कलपयितव्यम्।
23. पूर्वं स्वमिगुणं संकीर्त्य, स्वामिदोषं परदोषं च मध्यस्थदोषं च मन्त्रयित्वा पुनः स्वामिगुणसंस्थालनं कुर्यात्।
24. पुनः कार्याण्युपायानि निरूप्य स्वामिनं प्रसाद्य कार्यं कल्पयितव्यम्।
25. प्रमत्तेषु अभियुक्तेषु दैवोपहतेषु च न सिद्धयन्ति विक्रमाः।
26. अप्रमत्तं धर्मज्ञं जितेन्द्रियं विजिगीषुं बलिषु जातकोपं दुराधर्षं प्रति विक्रमो न कार्यः।
27. शास्त्रवित् कथं कार्यं न प्रजानातीति न वदेत्।
28. बलिष्ठान् शत्रून् कामादीन् ये जयन्ति ते सर्वीनरीम् जयन्ति।
29. पूर्वमुपकारं न कारयेत्, उपकारं नियतं कुर्याच्च।
30. नाभावि व्यसनं पूर्वं ज्ञात्वा व्यसनप्रतीकारं कार्यमिति गुरूराह।
इति चतुर्थोऽध्यायः पूर्णम् ॥

पञ्चमोऽध्यायः                                           
1. चत्वारः उपायाः त्रयश्च, मायोपेक्षा वधश्च।
2. सूरिषु साम, शङ्कितेषु सामभेदौ, लुब्धेषु सामदानभेदाः, कष्टेषु सामभेददानमायोपेक्षावधाः।
3. साम पूर्वं प्रयोक्तव्यम्।
4. मनसोऽभिप्रायं वाचः प्रीतिकर्म च।
5. ज्ञातीनां व्यसते ज्ञातयो हृष्यन्ति।
6. ज्ञातिं ज्ञातयः प्रच्छन्नहृदयाः क्रूरा उपद्रवन्ति।
7. सरवभयेषु ज्ञातिभयं क्रूरम्।
8. गोषु पयः, ह्राह्मणे कोपः, स्त्रीषु चापलं दूरत्वं, ज्ञातिषु सौहृदं च पत्रजलपिन्दुवत्।
9. हितं गुरुजनवाक्यं शास्त्रचोदितं च ये न श्रृण्वन्ति कालचोदिताः, तान् सुपिरहृत्य अन्यत्र वसेत्।
10. लोकविरूद्धं नाचरेत्।
11. मन्त्रविद्यागुह्यपदमेषु ग्रहान् बान्धवान् कुशलादन्यत्र न कार्यं व्यसनानि च।
12. दुर्जनं परिहृत्य वक्तव्यं, विद्यायुक्तोऽपि गुहाहिरिव।
13. शत्रुपक्षादागतं न विश्वसेत्, गुणतः सङ्गृह्णीयात्, भावैः परीक्षयेत्।
14. वीरोऽसारैः सहसा न ज्ञायते, बुद्धिमविज्ञाते सहसा परीक्षयेत्।
15. इङ्गितैर्ज्ञातुं शक्यते, प्रसन्नो न।
16. अशङ्कितमतिः स्वस्थः, अकोपनश्चबालादयोऽपि विवृण्वन्ति हितम्।
17. स्वकुलस्य विनाशं ज्ञात्वा बुद्धिमांस्तत्र शत्रुपक्षमपि न युक्तमाश्रयेत्।
18. हृदये यथावच्छुभाशुभं पूर्वमुदेति ।
19. न दुष्टाचारः सर्वत्र कारयेत्।
20. चपला न बहुमान्याः, इत्याहचार्यो बृहस्पतिः।
इति पञ्चमोऽध्यायः पूर्णम् ॥
षष्ठोऽध्यायः                                           
देशकालयोग्यं कर्म नयानयौ च वेदयेक्, न विपरीतं वेदवीर्यदर्पेण।
हितानि निरूपयेत्।
नवो मन्त्रिभिर्निरूप्य कारयेत्।
बुद्धिजीवनैरमात्यैस्सह कार्मकार्यं च निरूपयेत्।
अहितं विकारं यस्य प्रतिभाति स मन्त्रयोग्यः।
अर्थमार्जयेत्।
यस्यार्थसाशिरस्ति तस्य मित्राणि धर्मः विद्या गुमः विग्रमः बुद्धिश्च।
अधन्नार्थमारजयितुं न शक्यते, गजो अगजेनेव।
धनमूलं जगत्, सर्वाणि तत्र सन्ति।
निर्धनो मृतश्चण्डालश्च।
एवं धर्ममूलं च विद्यामार्जयेत्।
विद्यामूलमिदं जगत्, विद्यापुनस्सर्वमित्याह गुरूः।
इति षष्ठोऽध्यायः पूर्णम्।
इति बृहस्पत्यनीतिसूत्राणि समाप्तानि।।