Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

श्रीमहर्षिबौधायनप्रणीतं धर्मसूत्रम्।

1.1.1 उपदिष्ठो धर्मः प्रतिवेदम्।।
1.1.2 तस्याऽनु व्याख्यास्यामः।।
1.1.3 स्मार्तो द्वितीयः।।
1.1.4 तृतीयश्शिष्टागमः॥
1.1.5 शिष्टाः खलु विगतमत्सराः निरहङ्काराः कुम्भीधान्या अलोलुपा दम्भदर्पलोभमोहक्रोधविवर्जिताः।
1.1.6 धर्मेणाऽधिगतो येषां वेदस्सपरिब्रंह्मणः। शिष्टास्तदनुमानज्ञाः श्रुतिप्रत्यक्षहेतवः।। इति।।
1.1.7 तदभावे दशावरा परिषत्।।
1.1.8 अथाऽप्युदाहरन्ति- चातुर्वैद्यं विकल्प च अङ्गविद्धर्मपाठकः। आश्रमस्थस्त्रयो विप्राः पर्षदेषा दशावरा।।
1.1.9 पञ्च वा स्युस्त्रयो वा स्युरेको वा स्यादनिन्दिदाः। प्रतिवक्ता तु धर्मस्य नेतरे तु सहस्रशः।।
1.1.10 अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् सहस्रशस्समेतानां परिषत्त्वं न विद्यते।। इति।।
1.1.11 यथा दारुमयो हस्ती यथा चर्ममयो मृगः। ब्राह्मणश्चाधीयनस्रयस्ते नामधारकाः।।
1.1.12 यद्वदन्ति तमोमूढा मूर्खा धर्ममजानतः। तत्पापम शतधा भूत्वा वक्तृन् समधिगच्छति।।
1.1.13 बहुद्वारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः। तस्मान्न वाच्या ह्येतेन बहुज्ञेनाऽपि संशये।।
1.1.14 धर्मशास्त्ररथारूढाः वेदखड्गधरा द्विजाः। क्रीडार्थमपि यद्ब्रूयस्स धर्मः परमस्स्मृतः।।
1.1.15 यथाऽशमनि स्थितं तोयं मारुतोऽर्कः प्रणाशयेत्। तद्वत्कर्तरि यत्पापं जलवत्संप्रलीयते।।
1.1.16 शरीरं बलमायुश्च वयः कालं च कर्म च। समीक्ष्य धर्मविदबुध्या प्रयशिचित्तानि निर्दिशेत्।।
इति बोधायनीये धर्मसूत्रे प्रथमप्रश्ने प्रथमः खण्डः।।
1.2.1 पञ्चधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतः।।
1.2.2 यानि दक्षिणतस्तानि व्याख्यास्यामः।।
1.2.3 यथैतदनुपेतेन सह भोजनं स्त्रिया सह भोजनं पर्युषित भोजनं मातुलपितृष्वसृदुहितृगमनमिति।।
1.2.4 अथोत्तरतः ऊर्णाविक्रयः शीधुपानमुभययोदद्भिर्व्यहारः आयुधीयकम समुद्रसंयानमिति।।
1.2.5 इतरदितरस्मिन् कुर्वन् दुष्यतीतरदितरस्मिन्।।
1.2.6 तत्र तत्र देशप्रामाण्यमेव स्यात्।।
1.2.7 मिथ्यैददिति गौतमः।।
1.2.8 उभयं चैव नाऽऽद्रियेत।।
1.2.9 शिष्टस्मृतिविरोधादर्शनात् शिष्टागमविरोधदर्शनाच्च।।
1.2.10 प्रागदर्शनात्प्रत्यक्कालकवनाद्दक्षिणेन हिमवन्तमुदक्पारियात्रमेतदार्यावर्तं तस्मिन् य आचरस्स प्रमाणम्।
1.2.11 गङ्गायमुनयोरन्तरमित्येके।।
1.2.12 अथाऽप्यत्र भाल्लविनो गाथामुदाहरन्ति।।
1.2.13 पश्चात्सिन्धुर्विसरणी सूर्यस्योदयनं पुरः। यावत् कृष्णो विधावति तावद्धी ब्रह्मवर्चसामिति।।
1.2.14 अवन्तयोऽङ्गमगधाः सुराष्ट्रा दक्षिणापथाः। उपावृत्सिन्धुसौवीरा एते संकीर्णयोनयः।।
1.2.15 आरट्टान् कारस्कारान् पाण्ड्रान् सौवरीन् वंगान् कलिङ्गान् प्रानूनानिति च गत्वा पुनस्तोमेन यजेत सर्वपृष्ठया वा।।
1.2.16 अथाऽप्युदाहरन्ति – पद्भ्यां स कुरुते पापं यः कलिङ्गान् प्रपद्यते।।ऋषयो निष्कृतिं तस्य प्राहुर्वैश्वानरं हविः।।
1.2.17 बहूनामपि दोषाणां कृतानां दोषनिर्णये। पवित्रेष्टिं प्रशंसन्ति सा हि पावनमुत्तममिति।।