Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

आपस्तम्ब-धर्मसूत्रम्
प्रथमः प्रश्नः
1.1.1 अथातस्सामयाचारिकान् धर्मान् व्याख्यास्यामः।।
1.1.2 धर्मज्ञसमयः प्रमाणम्।।
1.1.3 वेदाश्च।।
1.1.4 चत्वारो वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः।।
1.1.5 तेषां पूर्वः पूर्वो जन्मतश्श्रेयान्।
1.1.6 अशूद्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कर्माणि।
1.1.7 शुश्रुणा शूद्रस्येतरेषां वर्णानाम्।।
1.1.8 पूर्वस्मिनम वर्णे निश्श्रेयसं भूयः।।
1.1.9 उपनयनं विद्यार्थस्य श्रुतितस्संस्कारः।।
1.1.10 सर्वेभ्यो वै वैदेभ्यस्सावित्र्यनूच्यत इति हि ब्राह्मणम्।।
1.1.11 तमसो वा एष तमः प्रविशति यमविद्वानुपनयते यश्चाऽविद्वानिति हि ब्राह्मणम्।।
1.1.12 तस्मन्नभिजनविद्यासमुदेतं समाहितं संस्कार्तारमीप्सेत्।।
1.1.13 तस्मिंश्तैव विद्याकर्मऽऽन्तमविप्रतिपन्ने धर्मेभ्यः।।
1.1.14 यस्माद्धर्मानाचिनोति स आचार्यः।।
1.1.15 तस्मै न द्रुह्येतकदाचन।।
1.1.16 स हि विद्यातस्तं जलयति।।
1.1.17 तच्छ्रेष्ठं जन्म ।।
1.1.18 शरीरमेव मातापितरौ जनयतः।।
1.1.19 वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदि वैश्यं, गर्भाष्टमेषु ब्राह्मणं, गर्भैकादशेषु राजन्यं, गर्भाद्वादशेषु वैश्यम्।।
1.1.20 अथ काम्यानि।।
1.1.21 सप्तमे ब्रह्मवर्चसकामम्।।
1.1.22 अष्टम आयुष्कामम्।।
1.1.23 नवमे तेजस्कामम्।।
1.1.24 दशमेऽन्नाद्यकामम्।।
1.1.25 एकादश इन्द्रियकामम्।।
1.1.26 द्वादशे पशुकामम्।।
1.1.27 आषोडषाद्ब्राह्मणस्यानात्यय आद्वानिशात्क्षत्रियस्याऽऽचतुर्विशाद्वैश्यस्य यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः।।
1.1.28 अतिक्रान्ते सावित्र्याः ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत।।
1.1.29 अथोपनयनम्।
1.1.30 ततस्संवत्सरमुदकोस्पर्शनम्।।
1.1.31 अथाऽध्याप्यः।।
1.1.32 अथ यस्य पिता पितामह इत्यनुपेतौ स्यातां ते ब्रह्महसंस्तुताः।।
1.1.33 तेषामभ्यागमनं भोजनं विवाहमिति च वर्जयेत्।।
1.1.34 तेषामिच्छतां प्रयश्चितम्।।