।।एतरेयोपनिषत्।।

Home Page

सहायता (हिन्दी में)

Help (in english)

To Search in Text

step-1

click for on screen Key Board

step-2

Press Control + F

उपनिषद् में की-वर्ड की खोज के लिये : -

step-1

आन-स्क्रीन की-बोर्ड  सहायता

step2.

कण्ट्रोल एफ दबाएँ।.

 

प्रथमः खण्डः द्वितीयः खण्डः तृतीयः खण्डः चतुर्थोपदेशः 

 

।।एतरेयोपनिषत्।।

अथ प्रथमः खण्डः।।
वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठतमाविरावीर्म एधि।। वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधितेनाहोराश्रान्संदधाम्यृतं वदिष्यामि स्तयं वदिष्यामि।। तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम्।।

ॐ शान्तिः शान्तिः शान्तिः।।
आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् स ईक्षत लोकन्नु सृजा इति ।।1।। सइमांल्लोकानसृजत अमभो मरीचीर्मरमापोऽम्भः परेण दिवं द्यौः प्रतिष्टाऽन्तरिक्षं मरीचयः॥ पृथिवा मरो य अधस्तात्ता आपः।।2।। स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति।। सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्चछयत्।।3।। तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्रणाद्वायुरक्षिणि निरभिद्येतामक्षीभ्यां चक्षुश्चक्षुप आदित्यः कर्णौ निर्भिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ्मरभिद्यत त्वचो लोमानि लोमभ्य औषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः।।4।।
इति प्रथमः खण्डः।।

अथ द्वितीयः खण्डः
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनापिपासाभ्यामन्वार्जत् ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्टा अन्नमदामेति।।1।। ताभ्यो गामानयत्ता अब्रुन्न वै नोऽयमलमिति।।2।। ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं बतेति पुरुषो बाव सुकृतम्।। ता अब्रबीद्यथाऽऽतनं प्रविशतेति।।3।। अग्निर्वाग्भूत्वा मुखं प्रविशद्वायुः प्राणो भूत्वा नासिके प्राविशतादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन्।।4।। तमशनापिपासे अब्रवीदेतास्वेव वां देवतास्वाभजाभ्येतासु भागिन्यौ करोमीति।। तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः।।5।।
इति द्वितीयः खण्डः।।

अथ तृतीयः खण्डः
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति ॥ सोऽपोभ्यतपत् ताभ्योऽभितप्ताभ्यो मूर्तिराजायत॥ या वै सा मूर्तिरजायताऽन्नं वै तत्।।2।। तदेतत्सृष्टं पराङ्त्यजिघांसत् तद्वाचा जिघृक्षत्तन्नाशन्कोद्वाचा ग्रहीतुम्।। स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत्।।3।। तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत्प्रणेन ग्रहितुम्।। स यद्धैनत्प्रणेनाग्रहेष्यदभिप्राण्य हैवान्नमत्रप्स्यत्।।4।। तच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा हैवन्नमत्रप्स्यत्।।5।। तच्छ्रोत्रेणाजिघृक्षत् ।। तन्नशक्नोच्छ्रोत्रेण ग्रहीतुम्।। स यद्धैनच्छ्रोत्रेणाग्रहैष्च्छ्रुत्वा हैवान्नमत्रप्स्यत्।।6।। तत्त्वचाऽजिघऋक्षत् तन्नाशक्नोत्त्वचा ह्रहीतुम्।। स यदधैनत्त्वचाऽग्रहैष्यत्स्पृष्ट्वा हैवान्नमत्रप्स्यत्।।7।।तन्मनसाऽजिघृक्षत् तन्नाशक्नोनम्नसा ग्रहीतुम्।। स यद्धैनन्मनसाऽग्रहैष्यज्द्यात्वा हैवान्नमत्रप्स्यत्।।8।।तच्छिश्नेनाजिघऋक्षत्तन्नाशक्नोच्छिश्नेन ग्रहीतुम्।। स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत्।।9।। तदपानेनाजिघृक्षत् तदावयत्। सोषोऽन्नस्य ग्रहो यद्वायुरन्नमायुर्वा एष यद्वायुः।।10।। स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्रणेनाभिप्रणितं यदि चक्षुषा दृष्टं यदि श्रोणेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा द्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति।।11।। स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत।। सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनं तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति।।12।। स जातो भूतान्यभिव्यैख्यत् किनिहान्यं वावदिषदिति।। स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिति।।13।।तस्मादिदन्द्रो नामेदन्द्रो ब वा नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते।। परोक्षेण परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः।।14।।
इति तृतीयः खण्डः।।
इत्यैतरेये द्वितीयारण्यके चतुर्थोऽध्यायः।।
उपनिषत्सु प्रथमोऽध्यायः।।1।।
पुरुषे ह वा अयमादितो गर्भो भवति।। यदेतद्रेतस्तदेतत्सरवेभ्योऽङ्गेभ्यस्तेजःसंभूतमात्मन्येवात्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म।।1।। तत् स्त्रिया आत्मभूयं गच्छित यथा स्वमङ्गं तथा तस्मादेनां न हिनस्ति साऽस्यैतमात्मानमत्र गतं भावयति।।2।। सा भावयित्री भावयितव्या भवति तं स्त्री गर्भं बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रऽधिभावयति स यत्कुमारं जन्मनोऽग्रऽधिभावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म।।3।। सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयतेऽथास्याऽयमितर आत्मा कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म।।4।।तदुक्तमृषिणा। गर्भे न सन्नन्वेषाम वेदमहं देवानां जनिमानि विश्वा।। शतं मा पुर आरयसीररक्षन्नधः स्येनो जवसा निरदीयमिति गर्भ एवैतच्छयानो वामदेव एवमुवाच।।5।। स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामनाप्त्वाऽमृतः समभवत्।।6।।
इति चतुर्थः खण्डः।।4।।
इत्यैतरेयारण्यके पञ्चमोऽध्यायः।।
उपनिषत्यसु द्वितीयोऽध्यायः।।
कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन व गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादुचास्वादु च विजानाति।।1।। यदेतत् हृदयं मनश्चैतत्।। संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेदा इष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति।।2।। एष ब्रह्मैष इन्द्र अष प्रजापतिरेते सर्वे देवा इमानि च पढ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव।। बूजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वागावः पुरुषा हस्तिनो यत्किंचेदं प्रणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेक्षं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म।।3।। स एतेन प्रज्ञानात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत् समभवत्।। इत्योम्।।4।।
इति पञ्चमः खण्डः।।5।।
इत्यैतरेयारण्यके षष्ठोऽध्यायः।।6।।
उपनिषत्सु तृतीयोऽध्यायः।।3।।
वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि।। वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम्।।
ॐ शान्तिः शान्तिः शान्तिः।।
इत्यैतरेयोपनिषत्संपूर्णा।।8।।